मृगेन्द्रागम · अध्याय 1.11
अथ सिद्ध्यादिवर्गाणां लेशात्सामान्यलक्षणम्
कथ्यते विप्लवो मा भूत् समासोक्तेः प्रभेदशः ॥
पुंस्प्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा
तुष्टिर्नुरकृतार्थस्य कृतार्थो ऽस्मीति या मतिः ॥
अशक्तिः कारकापाये सदर्थाप्रभविष्णुता
किञ्चित्सामान्यतो ऽन्यत्र मतिरन्या विपर्ययः ॥
प्रकाशकतया सिद्धिर् व्यक्तादेः सत्त्वभावजा
प्रकाशार्थप्रवृत्तत्वाद् रजोंशप्रभवपि च ॥
तुष्टिर्मिथ्यास्वरूपत्वात् तमोगुणनिबन्धना
सुखरूपतया ब्रह्मन् सात्त्विक्यप्यवसीयते ॥
अशक्तिरप्रवृत्तत्वात् तामसी दुःखभावतः
राजस्यपि गुणो दृष्टः कार्ये कारणसंश्रयः ॥
विपर्ययस्तमोयोनिर् मिथ्यारूपतया स च
सामान्यमात्रकाभासात् सत्त्वात्मेति विनिश्चितः ॥
इति बुद्धिप्रकाशो ऽयं भावप्रत्ययलक्षणः
बोध इत्युच्यते बोध व्यक्तिभूमितया पशोः ॥
बुद्धिर्बोधनिमित्तं चेद् विद्या तद्व्यतिरिच्यते
रागो ऽपि सत्यवैराग्ये कलायोनिः करोति किम् ॥
व्यञ्जकान्तरसद्भावे व्यञ्जकं यद्यपार्थकम्
मनोदेवार्थसद्भावे सति धीरप्यनर्थिका ॥
अथैवं ब्रुवते केचित् करणत्वविवक्षया
सो ऽपि देवैर्मनःषष्ठैः पक्षो ऽनैकान्तिकः स्मृतः ॥
अथैकविनियोगित्वे सत्येकमतिरिच्यते
श्रोत्रदृक्पाणिपादादि ततो भिन्नार्थमस्तु नुः ॥
न चैकविनियोगित्वं विद्याबुद्ध्योः कथञ्चन
विनियोगान्तरद्वारा न दुष्टानेकसाध्यता ॥
विद्या व्यक्ताणुचिच्छक्तिर् नुन्नाक्षेशाक्षगोचरान्
स्वीकृत्य पुंस्प्रयुक्तस्य करणस्यैति कर्मताम् ॥
मतिस्तेनेतरा रागो न गौणस्तद्विधर्मतः
तच्च भोग्यत्वमेतद्वा वीतरागस्ततो हतः ॥
रागो ऽर्थेष्वभिलाषो यो न सो ऽस्ति विषयद्वये
कर्मास्तु व्यापकं कल्प्यं कल्पिते ऽपीतरत्र यत् ॥
कर्मणः केवलस्योक्तं नियतावेव दूषणम्
दोषः सहानवस्थानो नासाम्याद्द्वेषरागयोः ॥
सर्वस्य सर्वदा सर्वा प्रवृत्तिः सुखबुद्धिजा
प्रवृत्तस्य सुखं दुःखं मोहो वाप्युपजायते ॥
प्रवृत्त्यनन्तरं द्वेषो रागस्तत्पूर्वकालतः
द्वेषान्ते स पुनर्येन वीर्यवद्योगकारणम् ॥
अथ व्यक्तान्तराद्बुद्धेर् गर्वो ऽभूत्करणं चितः
व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ॥
प्राणापानादयस्ते तु भिन्ना वृत्तेर्न वस्तुतः
वृत्तिं लेशान्निगदतो भरद्वाज निबोध मे ॥
वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते
यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गती ॥
तत्कुर्वन्नुच्यते प्राणः प्राणो वा प्राणयोगतः
चित्यातिवाहिके शक्तौ प्राणशब्दः कलासु च ॥
तथापनयनं भुक्त पीतविण्मूत्ररेतसाम्
कुर्वन्नपानशब्देन गीयते तत्त्वदर्शिभिः ॥
समन्ततो ऽन्नपानस्य समत्वेन समर्पणम्
कुर्वन्समान इत्युक्तो व्यानो विनमनात्तनोः ॥
विवक्षायत्नपूर्वेण कोष्ठव्योमगुणध्वनेः
वागिन्द्रियसहायेन क्रियते येन वर्णता ॥
स उदानः शरीरे ऽस्मिन् स्थानं यद्यस्य धारणे
जयः फलं वाच्यशेषं पत्या स्कन्धान्तरेरितम् ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0