भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.13

1.13.1

अथोक्तार्थप्रसिद्ध्यर्थं भुवनादि विनिर्ममे
साधारणेभ्यो योनिभ्यः कलादिभ्यो महेश्वरः ॥

1.13.2

तानि कालानलादीनि कलाप्रान्तानि मण्डलम्
संसारमिति तत्त्वज्ञा भोगस्थानं प्रचक्षते ॥

1.13.3

मायायामपि पठ्यन्ते गहनेशादयो ऽधिपाः
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥

1.13.4

नित्यत्वव्यापकत्वादि श्रवणादवसीयते
दृष्टं पुरादि यद्भोग्यं मूर्तं प्रलयधर्मि च ॥

1.13.5

शुद्धाध्वन्यपि मायायाः परस्याः पतयः कृतौ
ते तस्यामपि पठ्यन्ते ते ऽपि तत्कृतिमस्तके ॥

1.13.6

रजो विलोक्यते तिर्यग् जालाविष्टार्करोचिषाम्
तदष्टाष्टगुणस्थाने तृतीये स्यात्कचाग्रकम् ॥

1.13.7

लिक्षा यूका यवो ऽप्येवम् अङ्गुलं तत्त्रिसंगुणैः
तैरेव गुणितं पाणिर् धनुस्तद्वेदलक्षितम् ॥

1.13.8

दण्डो द्वे धनुषी ज्ञेयः क्रोशस्तद्द्विसहस्रकम्
द्विक्रोशमाहुर्गव्यूतिं द्विगव्यूतिं च योजनम् ॥

1.13.9

कपालमर्बुदं स्थौल्याद् ब्रह्मणो ऽण्डस्य योजनैः
तस्यान्तः काञ्चनं धाम कालाग्नेस्तावदेव हि ॥

1.13.10

यत्रान्तकालतीक्ष्णांशु कोटितेजास्तथाविधैः
रुद्रैरास्ते वृतो देवः कालाग्निरिति विश्रुतः ॥

1.13.11

सर्वाध्ववर्तिभूतानां यस्मिन्नुद्वृत्ततेजसि
भयमुत्पद्यते शक्त्या संहर्त्र्या चोदिते प्रभोः ॥

1.13.12

तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः
योजनानां तदर्धेन धूमः सान्द्रः सुदारुणः ॥

1.13.13

ततः पुटास्त्रयस्त्रिंशद् दशलक्षोनकोटिकाः
तदन्तराणि द्वात्रिंशल् लक्षकाणि दुरात्मनाम् ॥

1.13.14

स्थानानि यातनाहेतोर् निर्मितान्यध्ववेधसा
तानि ते नामभिर्वक्ष्ये द्विजमुख्य निबोध मे ॥

1.13.15

रौरवध्वान्तशीतोष्ण संतापाब्जमहाम्बुजाः
कालसूत्राष्टमा ह्येते नरका इति विश्रुतः ॥

1.13.16

सूच्यास्यतालखड्गाख्य क्षुरधाराम्बरीषकाः
तप्ताङ्गारा महादाहाः संतापाश्चेति ये मुने ॥

1.13.17

भवन्त्यष्टौ सुबीभत्सा महाशब्दपदानुगाः
लाक्षाप्रलेपमांसाद निरुच्छ्वासनसोच्छ्वासाः ॥

1.13.18

युग्माद्रिशाल्मलीलोह प्रदीप्तक्षुत्पिपासकाः
कृमीणां निचयश्चेति राजानः परिकीर्तिताः ॥

1.13.19

लोहस्तम्भो ऽथ विण्मूत्रस् तथा वैतरणी नदी
तामिस्रश्चान्धतामिस्रः कुम्भीपाकः सरौरवः ॥

1.13.20

महापदानुगो ऽवीची राजराजेश्वरेश्वराः
एषां पुटानां नरकैः सार्धं योजनसंख्यया ॥

1.13.21

भवन्ति कोटयस्त्रिंशद् द्वे च लक्षे द्विजोत्तम
ततस्त्त्रिंशत्सहस्राणि त्यक्त्वा भूर्नवलाक्षिकी ॥

1.13.22

भवत्ययोमय्यर्धेन पूर्वेणार्धेन काञ्चनी
यो ऽप्यधस्तात्पुटस्तस्या मृदर्धं चार्धमायसम् ॥

1.13.23

तत्र द्वात्रिंशतो ऽमीषां निरयाणां पतिः स्थितः
कूष्माण्ड इति विख्यातः प्रलयार्कानलद्युतिः ॥

1.13.24

करालवदनः क्रुद्धो वृत्तकोटरलोचनः
तङ्कपाणिस्तथाभूतैर् भूतैर्भूयोभिरावृतः ॥

1.13.25

अयोरुक्मपुटादूर्ध्वम् अष्टमीयं वसुन्धरा
साहस्राः षट् परा मध्या व्यर्कलक्षत्रिकोटिकी ॥

1.13.26

वसत्यो नवसाहस्राः परा दशसहस्रिकी
तदासां सप्तकं सद्भिः ख्यातं पातालसप्तकम् ॥

1.13.27

तन्नामतो ऽधिपतित उच्यमानं निबोध मे
आभासं परतालाख्यं त्रितलं च गभस्तिमान् ॥

1.13.28

महातलं रसाङ्कं च पातालं सप्तमं मुने
सप्तस्वेतेषु दैत्येन्द्र भुजङ्गक्षणदाचराः ॥

1.13.29

सप्त सप्त समाख्यातास् तानप्यथ निबोध मे
दैत्याः शङ्कुश्रुतिः पूर्वे प्रह्लादः शिशुपालकः ॥

1.13.30

कर्कन्धको हिरण्याक्षो बृहद्गर्भो बलिस्तथा
काद्रवेयाः कुटिलको वासुकिः कम्बलस्तथा ॥

1.13.31

कार्कोटको ऽथ कालाङ्गो दुर्दर्शस्तक्षकस्तथा
विकटो लोहिताक्षश्च यमाक्षो विकटाननः ॥

1.13.32

करालो भीमनिर्ह्रादः पिङ्गलश्चेति राक्षसाः
तेषामुपरि निशेष पातालाधिपतीश्वरः ॥

1.13.33

साहस्रे काञ्चने धाम मण्डले हाटकः स्थितः
यं स्तुवन्ति प्रियप्राप्त्यै यता यतिविभूषणैः ॥

1.13.34

दैत्ययक्षासुराधीश ललना ललितैः पदैः
ततः कोटिशतं पृथ्वी नानाजनसमाश्रया ॥

1.13.35

द्वीपशैलसरिद्वारि निधिमण्डलमण्डिता
जम्बूशाककुशक्रौञ्च शाल्मगोमेधपुष्कराः ॥

1.13.36

लक्षादिद्विगुणा द्वीपाः क्षाराद्यब्धिभिरावृताः
ततो हिरण्मयी भूमिर् लोकालोकश्च पर्वतः ॥

1.13.37

तमः परस्ताद्गर्भोदः कटाहश्चेति भूतलम्
त्रिशैलसरिद्द्वीपकान् अन्[अल्]ओदध्यलंकृताम् ॥

1.13.38

पृथ्वीं भगवतीं शक्र श्रोतुमिच्छामि विस्तरात्
त्वयि वक्तरि देवेश सर्वप्रत्यक्षदर्शिनि ॥

1.13.39

निष्ठाज्ञप्तिरसाकृष्टं श्रुतौ धावति मे मनः
वर्तयिष्ये द्विजश्रेष्ठ प्रस्तुतोक्तिशरीरवत् ॥

1.13.40

द्वीपान्नदीवनान्तांश्च शृणुश्वैकाग्रमानसः
जम्बुद्वीपं क्षितेर्नाभिस् तद्वृत्तं लक्षयोजनम् ॥

1.13.41

क्षाराब्धिना परिवृत्तं परिवृत्तेन तावता
तस्य मध्ये स्थितः शैल राजराजो हिरण्मयः ॥

1.13.42

तिरस्कृतांशुमज्ज्योतिर् मेरुः सुरनिषेवितः
स षोडश सहस्राणि क्षितौ विष्टो महीतलात् ॥

1.13.43

तदूनमुन्नतो लक्षं मूले षोडश विस्तृतः
त्रिषु पादान्तरेष्वस्य चतुर्वृद्धेषु पर्वसु ॥

1.13.44

नेमयः कटकाकारा निर्गता दीप्तिमत्तराः
एका दशसहस्रा तु मनुसाहस्रिकी परा ॥

1.13.45

नेमिर्या मस्तकोपान्ते लोकपालसमाश्रया
चक्रवाटेति तामाहुः सर्वरत्नप्रभावतीम् ॥

1.13.46

सिद्धगन्धर्वमहतां तदधः पर्वसु स्थितिः
प्राच्यादिष्विन्द्रमुख्यानां नामतस्तानिबोधत ॥

1.13.47

नानरत्नप्रभाजाल मण्डलालङ्कृता हरेः
सिद्धसाध्यमरुज्जुष्टा रुक्मभूरमरावती ॥

1.13.48

रक्तपीतमणिप्राय हेमप्राकारगोपुरा
वह्नेस्तेजोवती वह्नि तुल्यभूतनिषेविता ॥

1.13.49

मृत्योः संयमनी तुङ्ग लोहप्राकारमण्डला
कालपाशपितृव्यादि प्रेतमारिनिषेविता ॥

1.13.50

कृष्णा दैत्यपतेर्मृत्योर् धामवद्दैत्यसेविता
नीलरत्नप्रभाजाल वितानवरभूषणा ॥

1.13.51

शुद्धवत्यम्बुनाथस्य स्फटिकोपलनिर्मिता
पाण्डुराभ्रोपमैर्यादः सेविता भाति धामभिः ॥

1.13.52

वायोर्गन्धवती तुङ्ग श्वेतपीतध्वजाकुला
बलवद्भूतसंजुष्टा सर्वरत्नविनिर्मिता ॥

1.13.53

महोदया चन्द्रमसः श्वेता मुक्तादिनिर्मिता
द्विजसंघस्तुता भाति पुरैर्हिमगिरिप्रभैः ॥

1.13.54

ज्वलल्ललाटदृग्दग्ध स्मरमृत्युयशोभृतः
पुरी यशोवती सर्व रत्नजा रुद्रसेविता ॥

1.13.55

इति सर्वर्तुसुखदाश् चक्रवाटार्धविस्तृताः
पुर्यो ऽष्टावनिलोद्धूत पारिजातरजोरुणाः ॥

1.13.56

वेधसा निर्मिता लोक पालचक्रानुवर्तिनाम्
भूतये स्वर्ग इत्येता गीयन्ते कविभिः क्षितौ ॥

1.13.57

चतुर्दश सहस्राणि योजनानां स्वयंभुवः
मध्ये मनोवती नाम पुरी लोकेशवन्दिता ॥

1.13.58

या चकारारुणानुच्चैर् विद्युन्मार्गान्महःश्रिया
सावित्र्या स्पर्धमानेव स्वर्गकामातिवर्तिनी ॥

1.13.59

तस्यामुपासते देवा मुनयश्च महौजसः
महायोगीश्वरं सिद्ध्यै यमाद्यैर्भूतवेधसम् ॥

1.13.60

तदीशभागे तस्याद्रेः शृङ्गमादित्यसन्निभम्
यत्तज्ज्योतिष्कमित्याहुः सदा पशुपतिप्रियम् ॥

1.13.61

तस्य सानुषु हैमेषु रत्नचित्रेषु संस्थिताः
स्कन्दनन्दिमहाकाल गणेशादिगणावराः ॥

1.13.62

मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः
रुद्रायुतगणैर्जुष्टं ब्रह्माद्यैश्च सुरोत्तमैः ॥

1.13.63

इति मेरुरधो ऽस्यान्ते दिक्षु ये भूधराः स्थिताः
तच्छिष्टानि नवद्वीपे वर्षाण्यस्मिन्निबोध मे ॥

1.13.64

निषधो हेमकूटश्च हिमवांश्चाचलोत्तमाः
मेरोर्दक्षिणतो नीलः श्वेतः शृङ्गीति वामतः ॥

1.13.65

सहस्रद्वयविष्कम्भा दशोत्सेधा नवान्तराः
प्रागायतः सुपर्वाणाः सागराहितकोटयः ॥

1.13.66

तदर्धेनात्तविष्कम्भौ माल्यवद्गन्धमादनौ
याम्योत्तरौ प्राक्प्रतीच्योर् मेरुतस्तावदन्तरौ ॥

1.13.67

पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः
इलावृतं नीलगिरेर् याम्यतो निषधादुदक् ॥

1.13.68

भद्राश्वं माल्यवत्प्राच्यां वर्षं भद्रजनाकुलम्
सुकेतनं केतुमालं प्रतीच्यां गन्धमादनात् ॥

1.13.69

निषधाद्धरिवर्षे यद् याम्यतो हेमकूटतः
नाम्ना किंपुरुषं ख्यातं भारतं हिमवद्गिरेः ॥

1.13.70

रम्यकाख्यमुदङ्नीलाद् धिरण्यं श्वेतपर्वतात्
यदुत्तरे शृङ्गवतः कुरुवर्षं तदुच्यते ॥

1.13.71

निष्कम्भशैलाश्चत्वारो मेरोः स्थैर्याय वेधसा
लक्षार्धोन्नतः कॢप्तास् [ते] तेषां पूर्वेण मन्दरः ॥

1.13.72

श्वेतो हरिद्राचूर्णाभो याम्यतो गन्धमादनः
प्रतीच्यां विपुलो नीलः सुपार्श्वः सौम्यतो ऽरुणः ॥

1.13.73

सहस्रयोजनच्छायास् तेषु कल्पद्रुमाः स्थिताः
कदम्बजम्ब्वावश्वत्थ न्यग्रोधौ चोत्तरान्तिकाः ॥

1.13.74

जम्बूफलरसोद्भूता मेरुं पर्येत्य निम्नगा
विवेश मूलमेवास्य कनकीकृत्य तां महीम् ॥

1.13.75

तं पीत्वा पक्षिसर्पाखु मृगशाखामृगादयः
बभूवुः काञ्चना ये च सत्त्वास्तस्यां कृताप्लवाः ॥

1.13.76

द्वीपकेतुरभूज्जम्बूः कल्पशाखिषु सत्स्वपि
प्रभावातिशयात्ख्यातं जम्बूद्वीपमिदं ततः ॥

1.13.77

प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम्
सरो ऽरुणोदकं नाम तत्र हेमाब्जमण्डितम् ॥

1.13.78

याम्याद्रिमूले गन्धर्व सुरसिद्धाप्सरोवृतम्
नन्दनं मानसं तत्र सरो मानसतस्करम् ॥

1.13.79

वैभ्राजं वैपुले मूले सितोदश्च ह्रदोत्तमः
देवैर्निषेव्यते छन्नः कमलैरंशुमप्रभैः ॥

1.13.80

सौपार्श्वे धृतिमन्नाम काननं भद्रको ह्रदः
सौगन्धिकाम्बुजच्छन्नः सेव्यते पितृभिः सदा ॥

1.13.81

त्रयोदशसहस्रायुर् जम्बूफलरसाशनः
मेर्वालोकोपलब्धार्थो जनः सुत्वगिलावृते ॥

1.13.82

वर्षायुतायुर्नीलाब्ज द्युतिः पनससारभुक्
केतुमाले जनो दिव्य देहबन्धः सुखी बली ॥

1.13.83

चन्द्रबिम्बद्युतिर्नीला -ब्जाशनो भद्रवाजिनि
दशवर्षसहस्रायुर् दुःखशोकभयोज्झितः ॥

1.13.84

त्रिंशदब्दसहस्रायुः कामवृक्षफलाशनः
युग्मप्रसूतिः कुरुषु श्यामापुष्पद्युतिर्जनः ॥

1.13.85

भूतवेदसहस्रौ द्वाव् एकदिक्संधिलक्षितौ
सोमवाय्वाशयोः सिद्ध मुनिचारणसेवितौ ॥

1.13.86

चन्द्रभद्राकरौ द्वीपौ चन्द्ररक्ताब्जरुग्जनौ
ऐलावृतं तयोरायुः फलं मूलं च भोजनम् ॥

1.13.87

अन्तर्भावः कुरुष्वब्धौ सान्निध्यात्कीर्तितौ ततः
अध्यर्धानि सहस्राणि द्वादशायुर्हिरण्वति ॥

1.13.88

जनस्येन्दुत्विषो नित्यम् अश्नतो लाकुचं फलम्
नीलनीरजरम्यस्य रम्यके द्वादशस्थितिः ॥

1.13.89

जनस्याब्दसहस्राणि न्यग्रोधफलमश्नतः
रजतद्युतिरिक्ष्वादस् तावदायुर्हरौ जनः ॥

1.13.90

रौक्मः किंपुरुषे प्लक्ष भोजनो ऽब्दायुतस्थितिः
इति किम्पुरुषादीनि वर्षाण्युक्तानि यानि ते ॥

1.13.91

न तेष्ववस्थाभेदो ऽस्ति विवर्तिषु कृतादिषु
युगानुरूपप्रज्ञायुस् तेजोबलधनप्रजः ॥

1.13.92

कृष्टाकृष्टाशनो दुःख त्रयार्तो भारते जनः
गुण एको यदुद्युक्तो नेष्टं किंचिन्न साधयेत् ॥

1.13.93

सर्वासां फलभूमीनां कर्मभूः कारणं यतः
नवाब्धिस्रोतसि द्वीपा नव चात्रार्धकस्थले ॥

1.13.94

इन्द्रद्वीपप्रभृतयो नामतस्तान्निबोध मे
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥

1.13.95

नागद्वीपश्चान्द्रमसो गान्धर्वो वारुणस्तथा
कुमारिकाख्यो नवमो नानापर्वतनिम्नगाः ॥

1.13.96

नानाजातिजनाकीर्णा भारताखे प्रकीर्तिताः
आग्नीध्रो नाम नृपतिर् जम्बूनाथो मनोः कुले ॥

1.13.97

तज्जातनृपसंज्ञाभिः कथ्यन्ते भारतादयः
क्षारक्षीरदधिस्नेह रसमध्वामृतोदकैः ॥

1.13.98

लक्षादिद्विगुणा द्वीपा जम्बूद्वीपादयो वृताः
शाके शाकद्रुमस्त्वङ्गः शाकसंज्ञानिबन्धनः ॥

1.13.99

कुशो ऽभूत्काञ्चनः कौशे स्वयंभुवि यियक्षति
क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ॥

1.13.100

स्कन्देन युद्ध्वा सुचिरं चित्रमयी सुमायिना
स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा ॥

1.13.101

केतुतामगमत्तस्य नाम्ना क्रौञ्चं तदुच्यते
शाल्मले शाल्मलीवृक्षो हैमः साहस्रिको ऽर्कभाः ॥

1.13.102

प्रियो ऽमराणां तत्केतुः स तदाख्यानिबन्धनः
गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ॥

1.13.103

याज्यो ऽभूद्वह्निकल्पानाम् औतथ्यानां मनोः कुले
स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ॥

1.13.104

वव्रे तं गौतमः कोपा दशपदगमत्क्षयम्
यज्ञवाटे ऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ॥

1.13.105

तन्मेदसा मही छन्ना गोमेदः स ततो ऽभवत्
नदी पुष्करिणी नाम हेमपुष्करमण्डिता ॥

1.13.106

तया स पुष्करद्वीपः ख्यापितः सुरसेवितः
यथा किम्पुरुषाद्येषु कृतावासः सदा जनः ॥

1.13.107

शाकद्वीपादिषु तथा क्षीरादिकृतभोजनः
हिमेन्दुहिमनीलाब्ज सस्यकस्फटिकद्युतिः ॥

1.13.108

दशवर्षसहस्रायुर् नष्टदुःखैककण्टकः
सप्तमामुदधेरर्वाक् द्वे कोटी सत्रिकं दलम् ॥

1.13.109

पञ्चाशच्च सहस्राणि कर्णाद्धेमाद्रिगर्भतः
ततो हिरण्मयी भूमिर् नानारत्नद्रुमाचला ॥

1.13.110

क्रीडार्थं वेधसा सृष्टा देवानां दशकोटिकी
लोकालोको बहिस्तस्या लोकालोकनियामकः ॥

1.13.111

योजनायुतविष्कम्भस् तुङ्गशृङ्गपरिच्छदः
तस्य शृङ्गेषु तीक्ष्णांशोर् भासश्चन्द्रातपोपमाः ॥

1.13.112

न तापयति वैकृष्ट्याद् धामान्याशाभृतां मुने
तमः परस्तान्निबिडं लक्षाण्येकोनविंशतिः ॥

1.13.113

चत्वारिंशत्सहस्राणि पञ्चत्रिंशच्च कोटयः
सप्तविंशतिलक्षाणि कोटिश्चैका समुद्ररात् ॥

1.13.114

हैमं कटाहकं कोटिर् गर्भादेति समन्ततः
तिथिलक्षो भुवर्लोको ध्रुवप्रान्तो महीतलात् ॥

1.13.115

तदूनकोटिस्वर्लोकः स्वर्गिवर्यसमाश्रयः
महर्द्विकोटिर्यत्रास्ते मरीच्यादिमुनिव्रजः ॥

1.13.116

जनो ऽष्टकोट्यवच्छिन्नः पितृजह्नुजनाश्रयः
तपो ऽर्ककोटिर्यत्रास्ते महायोगी सनन्दनः ॥

1.13.117

ऋभुः सनत्कुमारश्च सनकश्च महातपाः
ततः सत्य[म]धिःस्थानं सत्यलोकः स्वयम्भुवः ॥

1.13.118

कामातिशयसम्पन्नः कोटयो नव सप्त च
सावित्री मूर्तिमत्यास्ते यत्र वेदाश्च सानुगाः ॥

1.13.119

ततश्चतस्रः षट् चेति मधुत्रिपुरविद्विषोः
स्थाने ज्योतिष्मतीचित्रे कोटिरण्डकटाहकः ॥

1.13.120

शतकोटिप्रविस्तीर्ण इति ब्रह्माण्डगोलकः
भूयसा तुल्य एवायं सर्वस्रोतःसु मानतः ॥

1.13.121

तस्य प्राचीं दिशं शक्रः पात्यग्निः पूर्वदक्षिणाम्
दक्षिणां भूतसंहर्ता राक्षसो दक्षणापराम् ॥

1.13.122

पश्चिमां वरुणो देवो नभस्वान् पश्चिमोत्तराम्
उदीचीं सोमयक्षेशाव् ईशः प्रागुत्तरां दिशम् ॥

1.13.123

ऊर्ध्वे ब्रह्मा हरिरधः सर्वार्थावहिताः सदा
एषामपि नियन्तारो रुद्रा दश दश स्थिताः ॥

1.13.124

भूमिमन्तो ऽप्यमी येषां नोत्क्रामन्ति भयात्पदम्
नानारूपैर्महावीर्यैस् तरुणार्कसमप्रभैः ॥

1.13.125

वृता नानायुधधरैर् नामभिस्तान्निबोध मे
बुध्नवज्रशरीराज कपालीशप्रमर्दनाः ॥

1.13.126

प्राग्विभूत्यव्ययौ शास्त पिनाकी त्रिदशाधिपः
भस्मक्षयान्तकहर ज्वलनाग्निहुताशनाः ॥

1.13.127

पिङ्गलः खादको बभ्रुर् दहनश्चाग्निदिग्गताः
विधातृधातृकर्त्रीश कालमृत्युवियोजकाः ॥

1.13.128

याम्यधर्मेशसंयोक्तृ हराश्च यमनायकाः
निरृतिर्मारणक्रोध हन्तृधूम्रविलोहिताः ॥

1.13.129

ऊर्ध्वलिङ्गविरूपाक्ष दंष्ट्रिभीमाः पलादपाः
बलातिबलपाशाङ्ग श्वेतभूतजलान्तकाः ॥

1.13.130

महाबलमहाबाहु सुनाद्यब्दरवाः कपाः
लघुशीघ्रमहद्वेग सूक्ष्मतीक्ष्णक्षयान्तकाः ॥

1.13.131

कपर्द्यब्देशपञ्चान्त पञ्चचूडाश्च वायुपाः
निधीशो रूपवान् धन्य सौम्यशान्तजटाधराः ॥

1.13.132

कामप्रसादलक्ष्मीश प्रकाशाश्चेन्दुयक्षपाः
विद्येशसर्वविज्ज्ञान वेदविज्ज्येष्ठवेदगाः ॥

1.13.133

विद्याविधातृभूतेश बलिप्रियसुखाधिपाः
शम्भुर्गणाध्यक्षविभु त्र्यक्षचण्डामरस्तुताः ॥

1.13.134

विचक्षणनभोलिप्सु संविवाहाश्च मूर्धनि
क्रोधनानिलभुग्भोगि ग्रसनोदुम्बरेश्वराः ॥

1.13.135

वृषो विषधरो ऽनन्तो वज्रो दंष्ट्री च विष्णुपाः
ततो ऽम्भःप्रमुखा भोग भूमयस्तासु संस्थिताः ॥

1.13.136

पञ्चाष्टका नियोक्तॄणां क्षेत्रावाप्तफलश्रियः
भारभूत्याषाढिडिण्डि लाकुल्यमरपुष्कराः ॥

1.13.137

प्रभासनैमिषौ चेति गुह्याष्टकमिदं जले
श्रीशालजल्पकेदार भैरवाम्रातकेश्वराः ॥

1.13.138

हरिश्चन्द्रमहाकालम् अध्याः सातिपदा रुचौ
महेन्द्रभीमविमल कुरुक्षेत्रगयाखलाः ॥

1.13.139

सनापदोत्तराः साट्ट हासाः सनाखलाः खगे
स्थाणुस्वर्णाक्षगोकर्ण भद्रकर्णमहालयाः ॥

1.13.140

वस्त्रपदाविमुखाह्व रुद्रकोट्यः खमण्डले
पवित्राष्टकमित्याहुर् गर्वे मात्रेन्द्रियगोचरे ॥

1.13.141

स्थाण्वष्टकं द्विजश्रेष्ठ नामतः कथयामि ते
माकोटमण्डलेशान द्विरण्डछगलाण्डकाः ॥

1.13.142

स्थूलस्थूलेश्वरौ शङ्कु कर्णकालञ्जरावपि
सूक्ष्मामरपुराण्यष्टौ बुद्धौ पैशाचमादितः ॥

1.13.143

राक्षसं याक्षगान्धर्वं माहेन्द्रं च महर्द्धिमत्
सौम्यं प्राजेश्वरं ब्राह्मं दीप्तं परमया श्रिया ॥

1.13.144

गौणे योगीशधामानि त्वकृतं कृतरैभवम्
ब्राह्मवैष्णवकौमारम् औमं श्रैकण्ठमन्ततः ॥

1.13.145

वीरभद्रस्य रुचिमद् द्धाम योगिवरस्तुतम्
स्वपदाधो ऽधिकारस्थ सर्वरुद्राधिकश्रियः ॥

1.13.146

वामदेवभवानन्त भीमोमापत्यजेश्वराः
सर्वेशानेश्वरावेक वीरैकशिवसंज्ञितौ ॥

1.13.147

उग्रः प्रचण्डदृक् चेशो गुणानां मूर्ध्नि संस्थिताः
तपसा गुरुणोपास्य क्रोधादीन् गुरुतां मताः ॥

1.13.148

स्वाधिकारविधौ तीक्ष्णा रुद्राः सर्वार्थदृक्क्रियाः
तेभ्यो दशगुणश्रीकान् प्रधानाधिपतीञ्छृणु ॥

1.13.149

क्रोधेशचण्डसंवर्त ज्योतिःपिङ्गलसूरगाः
पञ्चान्तकैकवीरौ च शिखेद इति ते स्मृताः ॥

1.13.150

सर्वेन्द्रियः सर्वतनुः सर्वान्तःकरणाश्रयः
पुरुषे नियतौ यन्ता काले कलनशक्तिमान् ॥

1.13.151

भुवनेशमहादेव वामदेवभवोद्भवाः
एकपिङ्गेक्षणेशाना -ङ्गुष्ठमात्राश्च भास्वराः ॥

1.13.152

परमेशोपमा राग विद्यागर्भे कलापदे
महापुरचतुःषष्टि मण्डले मण्डलाधिपाः ॥

1.13.153

अनन्तस्त्रिकलो गोप्ता क्षेमीशो ब्रह्मणः पतिः
ध्रुवतेजोधिषौ रुद्रौ गहनेशश्च विश्वराट् ॥

1.13.154

मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः
संसारचक्रकारूढ भूतग्रामविवर्तकाः ॥

1.13.155

एतावत्येव घोरेयं सर्वभूतभवावनिः
सीदन्त्यज्ञानिनो यस्यां पङ्के गाव इवाचलाः ॥

1.13.156

भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा
रूपिणी नन्दिनी ज्वाला सप्तसप्तार्बुदेश्वराः ॥

1.13.157

विद्याराज्ञ्यस्तु कथिता विद्यायां रुद्रसंस्तुताः
तासामुपरि दीप्तश्रीर् देवो विद्याधिपः स्थितः ॥

1.13.158

मन्त्रेशेशचिदाविष्ट रुद्रव्यूहाष्टकानुगः
उच्छुष्माः शम्बराश्चण्डा महावीर्याः पदद्रुहः ॥

1.13.159

रुद्रा गणाः सदिक्पालाः शास्त्राणि पतयस्ततः
ते चानन्तप्रभृतयो गदिता एव नामतः ॥

1.13.160

स्वस्वरूपाश्च ते विप्र पूर्वं प्रश्नानुषङ्गतः
सादाशिवे पवित्राङ्ग सकलादिपरिच्छदः ॥

1.13.161

देवः सदाशिवो बिन्दौ निवृत्त्यादिकलेश्वराः
नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ॥

1.13.162

योनिर्विश्वस्य वागीशाः पतयः परतः शिवः
सदाशिवशिवान्ताध्व कल्पिताणुवपुःस्थितिः ॥

1.13.163

सर्वातिशयविश्रामस् तदूर्ध्वं पतयः कथम्
ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ॥

1.13.164

भुवनान्यपि नादादि कला नान्यः पतिः शिवात्
किंतु यः पतिभेदो ऽस्मिन् स शास्त्रे शक्तिभेदवत् ॥

1.13.165

कृत्यभेदोपचारेण तद्भेदस्थानभेदजः
करोत्युन्मीलनं याभिः शक्तिभिर्नरतेजसः ॥

1.13.166

ता निवृत्त्यादिसंज्ञानां भुवनानामधीश्वराः
निवर्तयति भूतानि यया सास्य निवर्तिका ॥

1.13.167

निवृत्तिरिति तत्स्थानं तत्रेशो ऽपि निवृत्तिमान्
निवृत्तस्य गतिर्भूयो यया प्राच्यावलक्षणा ॥

1.13.168

निषिध्यते प्रतिष्ठा सा स्थानं तवांश्च तत्पतिः
त्यक्त्वाप्तगम्यविषयं यया ज्ञानं ददात्यणोः ॥

1.13.169

सा विद्या स्थानमप्यस्या विद्येशश्च तदीश्वरः
सर्वदुःखप्रशमनं ययास्य कुरुते हरः ॥

1.13.170

सा शान्तिस्तत्पदं चेति तत्कुर्वन् सो ऽपि शान्तिमान्
ऊर्ध्वाधोविषयालोको महान्यश्च महत्तरः ॥

1.13.171

महत्तमश्च क्रियते चितो याभिर्विमुच्यतः
ता इन्धिकाद्यास्तत्स्थानं तद्वानीशस्तिसृष्वपि ॥

1.13.172

सर्वज्ञत्वादियोगे ऽपि नियोज्यत्वं मलांशतः
प्रमार्ष्टि तद्यया सास्य मोचिका तत्पदं च यत् ॥

1.13.173

मोचकस्तत्क्रियाकृच्च ययेशानं करोति तम्
सोर्ध्वगा तत्पदं चेति तदीशश्चोर्ध्वगापतिः ॥

1.13.174

ये ऽपि तत्पदमापन्नाः शैवसाधनयोगतः
ते तत्स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् ॥

1.13.175

न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः
इति सादाशिवं तत्त्वं व्याख्यातं लेशतस्तव ॥

1.13.176

शक्तावप्येवमित्येष सकलः कृत्ययोगतः
कृत्यं तदादिविषयं निष्कलो ऽन्यत्र सर्वदा ॥

1.13.177

भूमिप्राधानिकग्रन्थि विद्याबिन्दुकलादिषु
गुणकाराः दशाद्याः स्युर् नादकोटेरधो मुने ॥

1.13.178

ऊर्ध्वं कलाया विद्याधः श्रूयन्ते गहनाधिपाः
तदन्तरालमेतावद् इति धीजात्र लक्षणा ॥

1.13.179

द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः
विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः ॥

1.13.180

व्यस्तस्याथ समस्तस्य विलयः स कथं कियान्
तत्त्वमार्गस्य भगवन् ब्रूहि सर्वार्थदर्श्यसि ॥

1.13.181

महास्वापे समस्तस्य व्यस्तस्यावान्तरो लयः
सर्गो ऽप्येवं स्थितेः कालः कथ्यमानो ऽवधार्यताम् ॥

1.13.182

चतुर्युगसहस्रान्तम् अहर्हेमाण्डजन्मनः
निशा तावत्यहोरात्र मानेनाब्दपरार्धके ॥

1.13.183

विलयो व्युत्क्रमेणैष प्रकृत्यादि निवार्यते
तदा रुद्रशतं वीर श्रीकण्ठौ च प्रधानपाः ॥

1.13.184

शक्त्याक्रम्य जगत्सूक्ष्मं सूक्ष्मदेहांश्च चिद्वतः
प्रकृतिस्थाशयान् कालं तत्स्वापान्तमुपासते ॥

1.13.185

शिवेष्टमन्त्रभृन्नुन्न मण्डलाधिपतीरिताः
काले जगत्समुत्पाद्य स्वाधिकारं प्रकुर्वते ॥

1.13.186

कर्म धर्मादिकं तच्च गुणत्वेन मतौ स्थितम्
गुणिनो न गुणो ऽपैति प्रकृतावुच्यते कथम् ॥

1.13.187

सत्यं बुद्धिगुणः कर्म नापैति गुणिनो गुणः
देहाक्षफलभूमीनां तात्स्थ्यात् तत्रोपचर्यते ॥

1.13.188

आधारे कारणे कार्ये समीपे चोपकारके
धर्माद्यनुकृतौ चेति लक्षणां सूरयो जगुः ॥

1.13.189

एवं गुणादिसर्गाणां परार्धे गुणकारणम्
कला लेढि कलां माया स्वाधिकारपराङ्मुखी ॥

1.13.190

तन्निवृत्तौ निवर्तन्ते देवास्तदधिकारिणः
सर्गस्थित्यादिको यस्माद् अधिकारस्तदाश्रयः ॥

1.13.191

एवं मन्त्रेशमुख्येषु विशत्स्वभिमतं पदम्
विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ॥

1.13.192

नादमत्ति परा शक्तिः शक्तिमीष्टे स्वयं हरः
भविनां विश्रमायैवं मायायाश्च परः शिवः ॥

1.13.193

आकलय्य स्वदृक्शक्त्या स्वापं सृष्ट्यै प्रवर्तते
एवं तत्त्वानि भावाश्च भुवनानि वपूंषि च ॥

1.13.194

शुद्धाशुद्धाध्वनोर्विप्र व्याख्यातानि समासतः
विद्या पञ्चाणुदेहाश्च बिन्दुर्नादो ऽथ कारणम् ॥

1.13.195

पञ्चस्कन्धः परो मार्गः क्व भावाः प्रत्ययः स्थिताः
नादः सूक्ष्मः कला काल रागयुग्मे सपूरुषे ॥

1.13.196

स्थूलः पञ्चकलो नादः पञ्चतत्त्वाश्रयो मुने
प्रधानादिचतुर्ग्रन्थि निधिर्बिन्दुश्चतुष्कलः ॥

1.13.197

गर्वे मनोमुखा देवा बुद्धौ भावादयः स्थिताः
पञ्चमन्त्रतनुर्देवः स्थितस्तन्मात्रपञ्चके
सूक्ष्मभूतेषु मन्त्रेशा मन्त्राः स्थूलेषु संस्थिताः ॥

1.13.198

इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं पशुमतसृतदृग्भिः पाशजालं सुभूयः
तदुपशमनिमित्तं वक्ष्यमाणक्रियातो रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc