मृगेन्द्रागम · अध्याय 1.10
ग्रन्थिजन्यं कलाकाल विद्यारागनृमातरः
गुणधीगर्वचित्ताक्ष मात्राभूतान्यनुक्रमात् ॥
विधत्ते देहसिद्ध्यर्थं यत्साक्षाद्यत्पदान्तरात्
यथा युनक्ति यद्धेतोस् तादृक्तदधुनोच्यते ॥
कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत्
तमश्च्छन्नतयार्थेषु नाभाति निरनुग्रहा ॥
तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः
मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ॥
तेन प्रदीपकल्पेन तदास्वच्छचितेरणोः
प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् ॥
कल इत्येष यो धातुः संख्याने प्रेरणे च सः
प्रोत्सारणं प्रेरणं सा कुर्वती तमसः कला ॥
इत्येतदुभयं विप्र संभूयानन्यवत्स्थितम्
भोगक्रियाविधौ जन्तोर् निजगुः कर्तृकारकम् ॥
एवं व्यक्तक्रियाशक्तिर् दिदृक्षुर्गोचरं दृशः
भजत्यनुग्रहापेक्षं स्वयं द्रष्टुमशक्नुवत् ॥
तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम्
तत्त्वं विद्याख्यमसृजत् करणं परमात्मनः ॥
तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना
सर्वकारकनिष्पाद्यम् अवैति विषयं परम् ॥
तदभिव्यक्तचिच्छक्ति दृष्टार्थो ऽप्यपिपासितः
नैति तं जनकं रागं तस्मादेवासृजत्प्रभुः ॥
स तेन रञ्जितो भोग्यं मलीमसमपि स्पृहन्
आदत्ते न च भुञ्जानो विरागमधिगच्छति ॥
इति प्रवृत्तः करणैः कार्यरूढैः सभौवनैः
भोगभूमिषु ना भुङ्क्ते भोगान्कालानुवर्तिनः ॥
तुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः
कलयन्ना समुत्थानान् नियत्या नियतं पशुम् ॥
ससाधनस्य भोगस्य कर्मतन्त्रतया जगुः
केचिन्नियामकं कर्म यदन्यदतिरिच्यते ॥
भोगो ऽर्थः सर्वतत्त्वानां सो ऽपि कर्मनिबन्धनः
कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥
अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम्
ततो नियतिसापेक्षम् अस्तु कर्म नियामकम् ॥
पुंस्तत्त्वं तत एवाभूत् पुंस्प्रत्ययनिबन्धनम्
आपूरकं प्रधानादेर् भौवनेरुद्रसंश्रयम् ॥
ततः प्राधानिकं तत्त्वं कलातत्त्वादजीजनत्
सप्तग्रन्थिनिदानस्य यत्तद्गौणस्य कारणम् ॥
ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः
तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ॥
त्रयो गुणास्तथाप्येकं तत्त्वं तदवियोगतः
एकैकश्रुतिरेतेषां वृत्त्याधिक्यनिबन्धना ॥
न तदस्ति जगत्यस्मिन् वस्तु किञ्चिदचेतनम्
यन्न व्याप्तं गुणैर्यस्मिन्न् एको वामिश्रको गुणः ॥
बुद्धितत्त्वं ततो नाना भावप्रत्ययलक्षणम्
परं तदात्मनो भोग्यं वक्ष्यमाणार्थसंस्कृतम् ॥
भावा बुद्धिगुणा धर्म ज्ञानवैराग्यभूतयः
सात्त्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥
प्रत्ययास्तदुपादानास् ते ऽष्टौ नव चतुर्गुणाः
सप्त पञ्च च विख्याताः सिद्ध्याद्या वर्गशो मुने ॥
भावाः सप्रत्ययास्तेषां लेशाल्लक्षणमुच्यते
सांसिद्धिका वैनयिकाः प्राकृताश्च भवन्त्यणोः ॥
विशिष्टधर्मसंस्कार समुद्दीपितचेतसाम्
गुणः सांसिद्धिको भाति देहाभावे ऽपि पूर्ववत् ॥
लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः
समर्जितो वैनयिको मनोवाक्तनुचेष्टया ॥
प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवत्
स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ योनिक्रान्तिर्निरयावाप्तिबन्धौ
रूपेष्वर्था वैनयप्राकृतेषु सम्पद्यन्ते सविघाताः क्रमेण ॥
वश्याक्रान्तिस्तत्परिज्ञानयोगो भोगानिच्छा विघ्नसंघव्यपायः
भोगासक्तिर्न्यक्कृतिर्देहलब्धिर् विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0