मृगेन्द्रागम · अध्याय 1.9
अथ सर्वज्ञवाक्येन प्रतिपन्नस्य लक्षणम्
कथ्यते ग्रन्थिपाशस्य किञ्चिद्युक्त्यापि लेशतः ॥
तदेकमशिवं बीजं जगतश्चित्रशक्तिमत्
सहकार्यधिकारान्त संरोधि व्याप्यनश्वरम् ॥
कर्तानुमीयते येन जगद्धर्मेण हेतुना
तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना ॥
तदचेतनमेव स्यात् कार्यस्याचित्त्वदर्शनात्
प्राप्तः सर्वहरो दोषः कारणानियमो ऽन्यथा ॥
यद्यनित्यमिदं कार्यं कस्मादुत्पद्यते पुनः
अव्यापि चेत्कुतस्तत्स्यात् सर्वेषां सर्वतोमुखम् ॥
यदनेकमचित्तत्तु दृष्टमुत्पत्तिधर्मकम्
न तदुत्पत्तिमत्तस्माद् एकमभ्युपगम्यताम् ॥
पटस्तन्तुगणाद्दृष्टः सर्वमेकमनेकतः
तदप्यनेकमेकस्माद् एव बीजात्प्रजायते ॥
येषां चिद्धर्मकाद्धेतोर् अचिदप्युपजायते
तेषां धूमेन लिङ्गेन जलं किं नानुमीयते ॥
भूतावधि जगद्येषां कारणं परमाणवः
तेषां पूर्वोदिताद्धेतोर् ज्ञातैव ज्ञानसूक्ष्मता ॥
शरीरादेः शरीरादि यदि तन्निखिलात्यये
का वार्ता नाखिलध्वंसो न सर्वज्ञो मृषा वदेत् ॥
एकदेशे ऽपि यो धर्मः प्रतीतो यस्य धर्मिणः
स तस्य सर्वतः केन जायमानो निवार्यते ॥
कोटिशो मरणं दृष्ट्वा संहतानां शरीरिणाम्
सो ऽपि प्रतीयते कालो यत्राशेषजनक्षयः ॥
तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ
विवृतौ व्यक्तिरूपाणि व्याप्रियन्ते ऽर्थसिद्धये ॥
तन्त्वादिकारकादानं पटासत्त्वे पटार्थिनः
सत्त्वे कारकशब्दो ऽपि व्यपैतीति हतं जगत् ॥
साफल्यमसदुत्पत्ताव् अस्तु कारकवस्तुनः
उत्पादयतु सर्वस्मात् सर्वः सर्वमभीप्सितम् ॥
अथाशक्यं यतः शक्यम् अत्र वः किं नियामकम्
न च पश्यामि तत्किंचित् शक्तिश्चेत्सिद्धसाध्यता ॥
अन्यथा कारकव्रात प्रवृत्त्यनुपपत्तितः
श्रुतिरादानमर्थश्च व्यपैतीत्यपि तद्धतम् ॥
अथास्त्युत्पादिका शक्तिर् न कार्यं शक्तिरूपकम्
तयोर्विशेषणं वाच्यं नैतत्पश्यामि किञ्चन ॥
तस्मान्नियामिका जन्य शक्तिः कार[ण]वस्तुनः
सान्वयव्यतिरेकाभ्यां रूढितो वावसीयते ॥
तद्व्यत्किर्जननं नाम तत्कारकसमाश्रयात्
तेन तन्तुगताकारं पटाकारावरोधकम् ॥
वेमादिनापनीयाथ पटव्यक्तिः प्रकाश्यते
यथा कटादिगूढस्य पटादेस्तद्व्युदासतः
नासतः क्रियते व्यक्तिः कलादेर्ग्रन्थितस्तथा ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0