भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.8

4.8.1

इति चित्तविलासेन चिरम् उत्प्रेक्षितैः प्रियैः ।
प्रणयैर् मित् श्1, श्3. न्17: प्रण⟨व्⟩[य्]ऐर् भार्गवस्यासीत् तुष्टये ससमागमः ॥

4.8.2

मन्दारदामाकुलया वैबुधासवमत्तया ।
तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥

4.8.3

विहृतम् मत्तहंसासु हेमपङ्कजिनीषु च ।
तटेष्व् अमरवाहिन्याः न्17: °हिन्या[ः] सह किन्नरचारणैः ॥

4.8.4

पीतम् इन्दुदलस्यन्दि देवैः सह रसायनम् ।
पारिजातलताजालनिलयेषु विलासिना ॥

4.8.5

चारुचैत्ररथोद्यानलतादोलासु न्17: °(र)*ल*तादोलासु लीलया ।
चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः ॥

4.8.6

नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।
भृशम् उल्लोलतां नीतः प्रमथैः सह शाम्भवैः ॥

4.8.7

बालहेमलताजालजटिलासु दरीषु च ।
भ्रान्तम् उन्मत्तरागेण मैरवीष्व् अब्जिनीषु च ॥

4.8.8

कैलासवनकुञ्जेषु तया सह विलासिना ।
हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः ॥

4.8.9

गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।
सा तेन कनकाम्भोजैर् आपादम् अभिमण्डिता ॥

4.8.10

लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।
क्रीडितं कृतहासेन राम न्17: (राया)[रा]म तेन तया सह ॥

4.8.11

मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।
अवसत् स समाः षष्टिं कल्पितामरमन्दिरः ॥

4.8.12

क्षीरार्णवतटेष्व् न्17: °तट्⟨ई⟩[ए]ष्व् अस्य वनितासहचारिणः ।
क्षीणं कृतयुगाद् अर्धं श्वेतद्वीपजनैः सह ॥

4.8.13

गन्धर्वनगरोद्यानलीलाविरचनैर् असौ ।
सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥

4.8.14

अथावसद् असौ शुक्रः पुरन्दरपुरे पुनः ।
सुखं चतुर्युगान्य् अष्टौ हरिणेक्षणया सह ॥

4.8.15

पुण्यक्षयानुसन्धानात् ततश् चावनिमण्डले ।
तयैव सह मानिन्या पपातापहृताकृतिः ॥

4.8.16

परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।
चिन्तापरवशो ध्वस्तः समितीवाहतो भटः ॥

4.8.17

पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।
शरीरं शतधा यातं शिलापातीव निर्झरः ॥

4.8.18

संशीर्णयोर् देहकयोश् चित्ते ते वासनावृते ।
विचेरतुस् तयोर् व्योम्नि निर्नीडौ विहगौ यथा ॥

4.8.19

तत्राविविशतुश् चान्द्रं ते चित्ते रश्मिजालकम् ।
प्रालेयताम् उपेत्याशु शालिताम् अथ जग्मतुः ॥

4.8.20

शालींस् तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः ।
शौक्राञ् शुक्राङ्गनागर्भान् मालवेषु च भूपतिः ॥

4.8.21

अजायतोशनाः श्1, श्3: °नाः; न्17: °ना*ः*. व्ग्ल्. औछ् इव् 5,18ब्; इव् 6,1द्. पूर्वं दशार्णेषु द्विजोत्तमात् ।
नृपाद् उत्तमसौभाग्यान् मालवेषु तदङ्गना ॥

4.8.22

स तत्र ववृधे बालः सा तत्र ववृधे ःङ्गना ।
तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाव् इव भूतले ॥

4.8.23

अथ षोडशवर्षो ःभूच् छुक्रः सारङ्गनामभृत् ।
पितुर् गृहे यौवनवाञ् श्रीमान् विप्रकुमारकः ॥

4.8.24

मालानामसुरस्त्री सा कुमारी राजसद्मनि ।
भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा ॥

4.8.25

राजपुत्री ततो माला पूजयाम् आस शङ्करम् ।
लभेयम् प्राक्तनं सिद्धम् पतिम् इत्य् अनिशं शुभा ॥

4.8.26

अथ मालवभूपस्य यज्ञे द्विजसभागतम् ।
माला ददर्श सारङ्गम् पित्रा सह समागतम् ॥

4.8.27

तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता ।
दृष्टचन्द्रेन्दुमणिवत् स्नेहस्विन्नाङ्गिका बभौ ॥

4.8.28

ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् ।
भर्तृत्वे न्17: -र्- औस् भर्तृत्वे अल्स् सुपेर्स्क्रिप्त् गेम्äß °आरदा. वरयाम् आस सा माला मालवात्मजा ॥

4.8.29

क्रमात् कृतविवाहाय तस्मै वार्धकजर्जरः ।
मालवेशो ःखिलं राज्यम् प्रतिपाद्य वनं ययौ ॥

4.8.30

स सारङ्गस् तया सार्धं तस्मिन् मालवमण्डपे ।
चकारातिसुखी राज्यं शक्रवच् छरदां शतम् ॥

4.8.31

अथ कालेन महता चञ्चलत्वाच् च चेतसः ।
अप्रियत्वम् मिथो यातौ दम्पती तौ विधेर् वशात् ॥

4.8.32

सारङ्गस् तु जराजीर्णः पातसज्जकलेवरः ।
दध्रे श्वसनशैथिल्याज् जीर्णपर्णसवर्णताम् ॥

4.8.33

जायाजनविरागेण न्17: ज्*आ*या° वार्धकातिशयेन च ।
मरणम् मन्दमन्देहो निरीहो मित् श्1, श्3. न्17: मन्द⟨स्⟩[म्]अन्देहो नि⟨न्⟩[र्]ईहो ःभिननन्द सः ॥

4.8.34

अथ नीरसराज्यस्य दुःखातिशयशंसिनः ।
अरण्य इव वेतालो मोहो ःतिघनतां गतः ॥

4.8.35

मोहान्धकूपपतितम् भोगासङ्गाद् अनारतम् ।
अविवेकिनम् अज्ञानम् असज्जनपरायणम् ॥

4.8.36

जहारैनं ततो मृत्युस् तृष्णाकवलिताशयम् ।
पतङ्गम् इव मण्डूकः कृताक्रन्दम् अकिञ्चनम् ॥

4.8.37

ततः कर्मफलम् भुक्त्वा स्वम् परत्र शुभाशुभम् ।
अङ्गेषु धीवरो जातः स दुर्भाववशात् तदा ॥

4.8.38

तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् ।
दुःखजर्जरचेतस्त्वाद् वैराग्यं समुपाययौ ॥

4.8.39

दुःखं संसार इत्य् एवं चिन्तयन् भास्करं ततः ।
सम्पतंस् न्17: सम्प्⟨ऋ⟩[अ]तंस् तेन सञ्जातः सूर्यवंशे महानृपः ॥

4.8.40

शुभभाववशात् सो ःथ किञ्चिज् ज्ञानम् अवाप्तवान् ।
जज्ञे नृपतनुं त्यक्त्वा गुरुः सर्वोपदेशकः न्17: सर्व्(ए)*ओ*प° ॥

4.8.41

मन्त्रासाधितसिद्धिर् हि सो ःथ विद्याधरो ःभवत् ।
कल्पम् एकं तु बुभुजे ततो वैद्याधरीम् पुरीम् ॥

4.8.42

कल्पावसानसमयं नीत्वा पवनरूपया ।
तन्वा सृष्टौ प्रवृत्तायाम् भूयो जातो मुनेः सुतः ॥

4.8.43

ततो मुनीनां सम्पर्कात् तपस्य् उग्रे व्यवस्थितः ।
अवसन् मेरुगहने मन्वन्तरम् अनिन्दितः ॥

4.8.44

तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।
तत्स्नेहेन परम् मोहम् पुनर् अभ्याययौ क्षणात् ॥

4.8.45

पुत्रस्यास्य धनम् मे ःस्तु गुणाश् चायुश् च शाश्वतम् ।
इत्य् अनारतचिन्ताभिर् जहौ सत्याम् न्17: सत्य्(अ)*आ*म् अवस्थितिम् ॥

4.8.46

धर्मचिन्तापरिभ्रंशात् पुत्रार्थम् भोगचिन्तनात् ।
क्षीणायुषं तम् अहरन् मृत्युः सर्प इवानिलम् ॥

4.8.47

भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः ।
प्राप्य मद्रेशपुत्रत्वम् आसीन् मद्रमहीपतिः ॥

4.8.48

मद्रदेशे चिरं कृत्वा राज्यम् उच्छिन्नशात्रवः ।
जराम् अभ्याजगामात्र हिमाशनिम् इवाम्बुजः न्17: °ज⟨म्⟩[ः] ॥

4.8.49

मद्रराजतनुं तं तु तपोवासनया सह ।
तत्याज तेन जातो ःसौ तपस्वी तापसात्मजः ॥

4.8.50

समङ्गाया महानद्यास् तटम् आसाद्य तापसः ।
तपस् तेपे महाबुद्धिः स राम विगतज्वरः ॥

4.8.51

विविधजन्मदशाविवशाशयः समनुसृत्य शरीरपरम्पराम् ।
सुखम् अतिष्ठद् असौ भृगुनन्दनो वरनदीसुतटे दृढवृक्षवत् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc