भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.7

4.7.1

इति शुक्रः पुरम् प्राप्य वैबुधं स्वेन चेतसा ।
विसस्मार निजम् भावम् प्राक्तनं व्यसनं विना ॥

4.7.2

मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः न्17: °पत्(इ)*ए*ः ।
स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः ॥

4.7.3

स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् ।
स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः न्17: *स्त्रैणं → सारसः* ॥

4.7.4

तत्र ताम् मृगशावाक्षीं कान्ताम् अध्यागताम् असौ ।
ददर्श विपिनान्तःस्थाम् भृङ्गश् चूतलताम् इव ॥

4.7.5

ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् ।
आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा ॥

4.7.6

विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् ।
चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ॥

4.7.7

तेनावलोकिता सापि तत्परायणतां गता ।
निशान्ते चक्रवाकेन कान्तेन परिकूजिता न्17: *परि*कू° ॥

4.7.8

रसाद् विकसतोर् न्17: विकस्(इ)अतो*र्* नूनम् अन्योःन्यम् अनुरक्तयोः ।
प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत् ॥

4.7.9

सङ्कल्पितार्थदायित्वाद् देशस्य मदनेन सा ।
सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता ॥

4.7.10

पेतुः स्मरशरास् तस्या मृदुष्व् अङ्गेषु भूरिशः ।
पलाशेष्व् इव पद्मिन्या धारा नवपयोमुचः (वन)*नव*प⟨थ्⟩[य्]ओमु° ॥

4.7.11

सा बभूव स्मराधूता लोलालिवलयालका ।
मन्दवातविनुन्नाया मञ्जर्याः सहधर्मिणी ॥

4.7.12

नीलनीरजनेत्रां तां हंसवारणगामिनीम् ।
मदनः क्षोभयाम् आस पूरः कमलिनीम् इव ॥

4.7.13

अथ तां तादृशीं दृष्ट्वा शुक्रः सङ्कल्पितार्थभाक् ।
तमः सङ्कल्पयाम् आस संहारम् इव भूतकृत् ॥

4.7.14

त्रिविष्टपस्य देशो ःसौ बभूव तिमिराकुलः ।
भूलोकस्यान्धतमसो लोकालोकतटो यथा ॥

4.7.15

लज्जान्धकारतीक्ष्णांशौ तस्मिंस् तिमिरमण्डले ।
प्रतिष्ठाम् आगते तस्य मिथुनस्येव मन्मथे ॥

4.7.16

तेषु सर्वेषु भूतेषु गतेष्व् अभिमतां दिशम् ।
तस्मात् प्रदेशाद् भूलोकं दिनान्ते विहगेष्व् इव ॥

4.7.17

सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा ।
आजगाम भृगोः पुत्रम् मयूरी वारिदं यथा ॥

4.7.18

धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ।
विवेश भार्गवस् तत्र क्षीरोद इव माधवः ॥

4.7.19

सा पादाव् अवलम्ब्यास्य विवशेव न्17: °श्(ओ)एव वरानना ।
रराज च सुरेभस्य पादलग्नेव पद्मिनी ॥

4.7.20

उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा ।
वचो मधुरम् आनन्दि विलासि वलिताक्षरम् ॥

4.7.21

पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः ।
अबलाम् अनुबध्नाति माम् एष किमनङ्गकः ॥

4.7.22

पाहि माम् अबलां नाथ दीनां त्वच्छरणाम् इह ।
कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ॥

4.7.23

स्नेहदृष्टिम् अजानद्भिर् मूढैर् एव महामते ।
प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ॥

4.7.24

अशङ्कितोपसम्पन्नः प्रणयो ःन्योःन्यरक्तयोः ।
अधःकरोति निष्यन्दं चान्द्रम् आस्वादितम् प्रिय ॥

4.7.25

न तथा सुखयत्य् एषा चेतस् त्रिभुवनेशता ।
यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः ॥

4.7.26

त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ।
चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ॥

4.7.27

संस्पर्शामृतपानेन तव जीवामि सुन्दर ।
चन्द्रांशुरसपानेन चकोरी चपला यथा ॥

4.7.28

माम् इमां चरणालीनाम् भ्रमरीं करपल्लवैः ।
आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये न्17: °हृ*द*ये कुरु ॥

4.7.29

इत्य् उक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।
व्याघूर्णितालिनयना सुतराव् इव मञ्जरी ॥

4.7.30

तौ दम्पती तत्र विलासकान्तौ विलेसतुस् तासु वनस्थलीषु न्17: °ल्*ई*षु ।
किञ्जल्कगौरानिलघूर्णितासु न्17: °र्णि*ता*सु मत्तौ द्विरेफाव् इव पद्मिनीषु ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc