भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.9

4.9.1

इति चिन्तयतस् तस्य शुक्रस्य पितुर् अग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः ॥

4.9.2

अथ कालेन महता पवनातपजर्जरः ।
कायस् तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥

4.9.3

मनस् तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्व् इवैणकः ॥

4.9.4

भ्रान्तम् उद्भ्रान्तम् अभितश् चक्रार्पितम् इवाकुलम् ।
मनस् तस्य विशश्राम समङ्गासरितस् तटे ॥

4.9.5

अनन्तवृत्तान्तघनाम् पेलवां सुदृढाम् अपि ।
तां संसृतिदशां शुक्रो विदेहो ःनुभवन् स्थितः ॥

4.9.6

मन्दराचलसानुस्था सा तनुस् तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥

4.9.7

शारीररन्ध्रप्रवहद्वातशीत्काररूपया ।
चेष्टादुःखक्षयानन्दात् काकल्येव स्म गायति ॥

4.9.8

प्राणानुस्मरणोच्छ्वासम् इव वाष्पं स्म मुञ्चति न्17: स्(अ)*म* ।
चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥

4.9.9

मनोवराकम् अवटे लुठितम् भवभूमिषु ।
हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥

4.9.10

दर्शयन्ती स्वकं शून्यं न्17: (रू)*शू*न्यं वपुर् अक्ष्णोर् न्17: अक्ष्ण्(ए)*ओ*र् अकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया ॥

4.9.11

तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥

4.9.12

शुष्ककाष्ठवद् न्17: °काष्ट्[ह्]अ° आलोला पातेषु कृतझाङ्कृता ।
धारानिकरपातेन विनुन्ना जलदागमे ॥

4.9.13

प्रावृड्निर्झरपूरेण न्17: °वृ⟨ट⟩[ड्]निर्° प्लुता गिरिनदीतटे ।
तारमारुतशीत्कारा वनोपल इव स्थिता न्17: °त्⟨अः⟩[आ] ॥

4.9.14

वक्रा शुष्कान्त्रतन्त्री न्17: °आन्⟨द्⟩[त्]र° च पूता झाङ्कारकारिणी ।
अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥

4.9.15

रागद्वेषविहीनत्वात् तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच् च भृगोर् न भुक्ता मृगपक्षिभिः ॥

4.9.16

यमनियमकृशीकृताङ्गयष्टेश् चरति तपः स्म भृगूद्वहस्य चेतः ।
तनुर् अथ पवनापनीतरक्ता चिरम् अलुठन् महतीषु सा शिलासु ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc