भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.5

4.5.1

भगवन् सर्वधर्मज्ञ पूर्वापरविदां वर ।
अयम् मनसि संसारः स्फारः कथम् इव स्थितः ॥

4.5.2

यथायम् मनसि स्फार श्6: स्फार; न्17: °रः आरम्भः स्फुरति स्फुटम् ।
दृष्टान्तदृष्ट्या स्फुटया तथा कथय मे ःनघ ॥

4.5.3

यथैन्दवानां विप्राणां व्ग्ल्. य्व् इइइ 85-88 जगन्त्य् अवपुषाम् अपि ।
स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥

4.5.4

लवणस्य यथा राज्ञश् व्ग्ल्. य्व् इइइ 104-109 चेन्द्रजालाकुलाकृतेः ।
चण्डालत्वम् अनुप्राप्तं तथेदम् मनसि स्थितम् ॥

4.5.5

भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।
भोगेश्वरत्वं च यथा तथेदम् मनसि स्थितम् ॥

4.5.6

भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया ।
कथम् भोगाधिनाथत्वं संसारित्वम् बभूव च ॥

4.5.7

शृणु राम पुरा वृत्तं संवादम् भृगुकालयोः ।
सानौ मन्दरशैलस्य तमालविटपाकुले ॥

4.5.8

पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले ।
अतप्यत तपो घोरं कस्मिंश्चिद् भगवान् भृगुः ॥

4.5.9

तम् उपास्ते स्म तेजस्वी बालः पुत्रो महामतिः ।
शुक्रः सकलचन्द्राभः प्रकाश इव भास्करम् ॥

4.5.10

भृगुर् वरवने तस्मिन् समाधाव् एव संस्थितः ।
सर्वकालं समुत्कीर्णो वनोपलतलाद् इव ॥

4.5.11

शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च ।
मन्दारतरुदोलासु बालो ःरमत लीलया ॥

4.5.12

विद्याविद्यादृशोर् मध्ये शुक्रो प्राप्तमहापदः ।
त्रिशङ्कुर् इव रोदोःन्तर् अवर्तत तदा किल ॥

4.5.13

निर्विकल्पसमाधिस्थे स कदाचित् पितर्य् अथ न्17: अथ्(आ)अ ।
अव्यग्रो ःभवद् एकान्ते जितारिर् इव भूमिपः ॥

4.5.14

ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा ।
क्षीरोदमध्यलुलितां लक्ष्मीम् इव जनार्दनः ॥

4.5.15

मन्दारमाल्यवलिताम् मन्दानिलचलालकाम् ।
हारिझाङ्कारिगमनां सुगन्धितनभोःनिलाम् न्17: नमोःनिलाम्; श्6: नभोःलिलाम् ॥

4.5.16

लावण्यपादपलताम् मदघूर्णितलोचनाम् ।
अमृतीकृततद्देशां श्1, श्3: अमृती°; न्17, श्6: अमृते देहेन्दूदयकान्तिभिः ॥

4.5.17

कान्ताम् आलोक्य तस्याभूद् उल्लासतरलम् मनः ।
दृष्टे निर्मलपूर्णेन्दौ वपुर् अम्बुनिधेर् इव ॥

4.5.18

मनसिजेषुशताहतम् आशये स परिरुध्य मनस् तदनूशनाः न्17, श्3: °ऊशनाः; श्1: °ऊशनः. नोमिनतिव् उशनाः औछ् इव् 6,1द्; इव् 8,21अ. ।
विगलितेतरवृत्तितयात्मना सुरवधूमय एव बभूव सः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc