भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.6

4.6.1

अथ ताम् मनसा ध्यायंस् तत्रैवामीलितेक्षणः ।
आरब्धवान् मनोराज्यम् इदम् एकः किलोशनाः न्17, श्3: °ओशनाः; श्1: °ओशन्*आ*ः. ॥

4.6.2

एषा हि ललना व्योम्नि न्17: व्य्(ए)*ओ*म्नि सहस्रनयनालये ।
सम्प्राप्तो ःयम् अहं स्वर्गम् आलोलसुरसुन्दरम् ॥

4.6.3

इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः न्17: °सु*मो*त्तं° ।
द्रवत्कनकनिःष्यन्दविलासिवपुषः सुराः ॥

4.6.4

इमास् ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः श्3: °सृष्टनीलाब्जवृष्टयः°; श्1: °(सृ)*वृ*ष्टनीलाब्जवृष्टयः°; न्17: °वृष्टनीलाब्जसृष्टयः° ।
मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥

4.6.5

इमे ते कौस्तुभोद्द्योता अन्योःन्यप्रतिबिम्बिताः ।
विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥

4.6.6

ऐरावणकटामोदविरक्तमधुपश्रुताः ।
इमास् ताः काकलीगीता गीर्वाणगणगीतयः ॥

4.6.7

इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा ।
मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥

4.6.8

एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः ।
लोकपालास् तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥

4.6.9

अयं स सुरविक्रान्तहेतिकण्डूयिताननः ।
ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥

4.6.10

इमे ते भूतलस्थाना व्योमतारकतां गताः ।
वैमानिकाश् चलच्चारुहारचामरकुण्डलाः ॥

4.6.11

इमास् ता विविधोद्यानमणिमन्दिरमण्डिताः ।
विमानपङ्क्तयश् चारुचामीकरमयातपाः ॥

4.6.12

मेरूपलतलास्फालशीकराकीर्णदेवताः ।
एतास् ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥

4.6.13

एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।
दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥

4.6.14

इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।
चन्द्रांशुनिकराकाराः न्17: °आ[ं]शु° पारिजातसमीरणाः ॥

4.6.15

पुष्पकेसरनीहारपटवासेरणोत्सुकैः ।
लताङ्गनागणैर् व्याप्तम् इदं तन् नन्दनं वनम् ॥

4.6.16

कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ न्17: °प्रन⟨ं⟩र्तित° ।
इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥

4.6.17

इमे ते पुण्यकर्तारो भूरिभूषनभूषिताः ।
व्योमन्य् उड्डयमानेषु विमानेषु सुखं स्थिताः ॥

4.6.18

मदमन्मथमत्ताङ्ग्य इमास् ताः सुरयोषितः ।
देवेश्वरं निषेवन्ते वनं वनलता इव ॥

4.6.19

चन्द्रांशुजालकुसुमाश् चिन्तामणिगुलुच्छकाः न्17: °गुल्⟨ऊ⟩[उ]च्छ° ।
कल्पवृक्ष इमे पक्वरत्नस्तवकदन्तुराः न्17: °रत्नास् तवक° ॥

4.6.20

इह तावद् इमं शक्रम् अहम् आसनसंस्थितम् ।
द्वितीयम् इव देवेशम् पूजयैवाभिवादये ॥

4.6.21

इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।
तेनाभिवादितस् तत्र द्वितीय इव वै भृगुः ॥

4.6.22

अथ सादरम् उत्थाय शुक्रः शक्रेण पूजितः ।
गृहीतहस्तम् आनीय समीप उपवेशितः ॥

4.6.23

धन्यस् त्वदागमेनाद्य स्वर्गो ःयं श्1, श्3: धन्यस् त्वदागमेनाद्य स्वर्गो ःयं (न्17 वोम् स्छ्रेइबेर् औस्गेस्पर्त्) शुक्र शोभते ।
उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम् ॥

4.6.24

अथ तत्रोपविश्यासौ भार्गवः शोभिताननः श्1, श्3: शोभिता°; न्17: श्- -ता° ।
श्रियं जहार शशिनः सकलस्यामलस्य च ॥

4.6.25

सकलसुरगणाभिवन्दितो ःसौ भृगुतनयः शतमन्युपार्श्वसंस्थः ।
चिरतरम् श्1, श्3: °तरम्; न्17: °तलम् अतुलाम् अवाप तुष्टिं नरमतिम् उज्झितवान् अलम् बभूव ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc