मोक्षोपायटीका · अध्याय 4.4
श्6: श्रीवसिष्ठः इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन् नाम कर्मणा ॥
शास्त्रसत्सङ्गमाभ्यासैः सविवेको जितेन्द्रियः ।
अत्यन्ताभावम् एवास्य दृश्यौघस्यावगच्छति ॥
एतत् ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च ॥
बहुनात्र किम् उक्तेन मनः कर्मद्रुमाङ्कुरम् न्17, श्1, श्3, श्6: °आङ्कुरः ।
तस्मिंश् छिन्ने जगच्छाखश् छिन्नः कर्मतरुर् भवेत् ॥
मनः सर्वम् इदं राम तस्मिन्न् अन्तश् चिकित्सिते ।
चिकित्सितो ःयं सकलो जन्मजालमयो भवः ॥
तद् एतज् जायते लोके मनो मललवाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥
दृश्यात्यन्तासम्भवनम् ऋते नान्येन हेतुना ।
मनःपिशाचः श्6: °शाचः; न्17: °शाच प्रशमं याति कल्पशतैर् अपि ॥
एतच् च सम्भवत्य् एव मनोव्याधिचिकित्सने ।
दृश्यात्यन्तासम्भवात्म परमौषधम् उत्तमम् ॥
मनो मोहम् उपादत्ते म्रियते जायते पुनः ।
कस्यचित् तु प्रसादेन बध्यते मुच्यते पुनः ॥
स्फुरतीत्थं जगत् सर्वं चित्ते मननमन्थरे ।
शून्य एवाम्बरे स्फारे गन्धर्वाणाम् पुरं यथा ॥
मनसीदं जगत् कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस् तत्स्थस् तस्माद् इवेतरः ॥
यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस् तथेदम् मनसि स्थितम् ॥
यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा ।
मृगतृष्णा यथा तापे संसारश् चित्तके तथा ॥
रश्मिजालं यथा सूर्ये यथालोकश् न्17: °आल्(ए)*ओ*° च तेजसि ।
यथौष्ण्यं चित्रभानौ न्17: °और्ष्ण्यं °(म्)*भ्*आनौ च मनसीदं तथा जगत् ॥
शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥
मनो जगज् जगद् अखिलं तथा मनः परस्परं त्व् अविरहितं सदैव हि ।
तयोर् द्वयोर् मनसि निरन्तरं क्षते क्षतं जगन् न तु जगति क्षते मनः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0