भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.3

4.3.1

महाप्रलयसर्गादौ प्रथमो ःसौ प्रजापतिः ।
स्मृत्यात्मा जायते सर्गे स्मृत्यात्मैव ततो जगत् ॥

4.3.2

महाप्रलयसर्गादाव् एवम् एतद् रघूद्वह ।
स्मृत्यात्मैव भवत्य् आदौ प्रथमो ःसौ प्रजापतिः ॥

4.3.3

तत्सङ्कल्पात्म च जगत् स्मृत्यात्मैवम् श्6: °आत्मवम् इदं ततः ।
इति सङ्कल्पनगरं स्थितम् पूर्वप्रजापतेः ॥

4.3.4

इति स्थिते ःपि सा राम तस्य पूर्वप्रजापतेः न्17, श्6: °पते ।
स्थितिर् न सम्भवत्य् एव नभसीव श्1, श्3: नभसीव; न्17, श्6: नभस्य् एव महाद्रुमः ॥

4.3.5

न सम्भवति किम् ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसम्मोहैर् न्17: °प्र्(य)अलय° नश्यति प्राक्स्मृतिः कथम् ॥

4.3.6

प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा ।
किल निर्वाणम् आयातास् ते ःवश्यम् ब्रह्मतां गताः ॥

4.3.7

प्राक्तन्याः कः स्मृतेस् स्मर्ता तस्मात् कथय सुव्रत ।
स्मृतिर् श्3: स्मृतिर्; न्17, श्1, श्6: स्मृति° निर्मूलतां याता स्मर्तुर् मुक्ततया यतः ॥

4.3.8

अतः स्मर्तुर् अभावे सा स्मृतिः कोदेतु किं कथम् ।
अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥

4.3.9

नानुभूते ःनुभूते च स्वतश् चिद्व्योम्नि या स्मृतिः ।
सा जगच्छ्रीर् इति प्रौढा दृश्याभावे हि चित्प्रभा ॥

4.3.10

भाति संवित्प्रभैवाच्छम् अनाद्यन्तावभासिनी ।
यत् तद् एतज् जगद् इति स्वयम्भूर् इति च स्थितम् ॥

4.3.11

अनादिकालसंसिद्धं यद् भानम् ब्रह्मणो निजम् ।
स आतिवाहिको देहो विराजो जगदाकृतिः ॥

4.3.12

परमाणाव् इदम् भाति जगत् सभुवनत्रयम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥

4.3.13

परमाणुम् प्रति ततस् तस्यान्तस् श्6: तस्यांतस्यान्तस् तादृग् एव च ।
भाति भास्वरिताकारं श्1, श्3, श्6: भास्वरिता°; न्17: भासुरिता° तादृग्गिरिकुलावृतम् न्17, श्1, श्3, श्6: °कुलम् पुनः ॥

4.3.14

तत्रापि तादृगाकारम् एवम् प्रत्य् अणुम् आततम् ।
दृश्यम् आभाति भारूपम् एतद् अङ्ग न वास्तवम् ॥

4.3.15

इत्य् अस्त्य् अन्तो न सद्दृष्टेर् असद्दृष्टेश् च वा क्वचित् ।
अस्यास् त्व् अभ्युदितम् बुद्धम् अबुद्धम् प्रति वानघ ॥

4.3.16

बुद्धम् प्रतीदम् ब्रह्मैव केवलं शान्तम् अव्ययम् ।
अबुद्धम् प्रति तु द्वैतम् भासुरम् न्17: भासुरम्; श्6: भास्वरम् भुवनान्वितम् ॥

4.3.17

यथेदम् भासुरम् भाति जगद् अण्डकजृम्भितम् ।
तथा कोटिसहस्राणि भान्त्य् अन्यान्य् न्17: °अन्य्*आ*° अप्य् अणाव् अणौ ॥

4.3.18

यथा स्तम्भे पुत्रिकान्तस् तस्याश् चाङ्गेषु पुत्रिका ।
तस्याश् च पुत्रिकास्त्य् अङ्गे तथा त्रैलोक्यपुत्रिका ॥

4.3.19

न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः ।
तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः ॥

4.3.20

सूर्यौघांशुष्व् असङ्ख्यातुं शक्यन्ते लघवो न्17: ल्(आ)अघ° ःणवः ।
नानाद्यन्ताश् चिदादित्ये श्6: °आदित्ये; न्17: °आदित्यो त्रैलोक्यपरमाणवः ॥

4.3.21

यथाणवो वहन्त्य् अर्कदीप्तिष्व् अप्सु रजःसु च ।
तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥

4.3.22

शून्यानुभवमात्रात्म भूताकाशम् न्17: °आनुभ्(आ)अव° इदं यथा ।
सर्गानुभवमात्रात्म न्17: सर्गानु°; श्6: सर्वानु° चिदाकाशम् इदं तथा ॥

4.3.23

सर्गस् तु सर्गशब्दार्थतया बुद्धो नयत्य् अधः ।
स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्य् अलम् ॥

4.3.24

विज्ञानात्मा शासिता विश्वबीजम् ब्रह्मैवाद्यं स्वं चिदाकाशमात्रं ।
तस्माज् जातं यत् तद् एवेति वेद्यं विद्धि स्वान्तर् बोधसम्बोधमात्रम् श्6: °सम्बोध°; न्17: °सम्भोध° ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc