भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.32

4.32.1

सताम् अप्य् असताम् एव बालयक्षपिशाचवत् न्17: °ल(क्ष)यक्ष° ।
दामव्यालकटादीनां दुःखस्यान्तः कथम् भवेत् ॥

4.32.2

दामव्यालकटार्थं तैस् तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तम् इदं शृणु रघूद्वह ॥

4.32.3

यदा वियोगम् एष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस् तदा मुक्ता भविष्यन्तीत्य् असंशयम् ॥

4.32.4

स्ववृत्तान्तम् इमं कुत्र कदा कथय ते कथम् ।
श्रोष्यन्ति भगवन् केन वर्ण्यमानं यथाक्रमम् ॥

4.32.5

कश्मीरेषु महापद्मसरसीतीरपल्वले व्ग्ल्. (इव्) 31.10 ।
भूयो भूयो ःनुभूयैते मत्स्ययोनिपरम्पराम् न्17: °नि(ं)प° ॥

4.32.6

आलानिताशया लोलाः कालेन लयम् आगताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥

4.32.7

तत्र कल्हारमालासु सरोजपटलीषु च ।
शेवालवरवल्लीषु तरङ्गवलनासु च ॥

4.32.8

ललत्कुमुददोलासु नीलोत्पललतासु च ।
शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु ॥

4.32.9

सरःसारससम्भोगान् भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालम् अलम् आगतशुद्धयः ॥

4.32.10

ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः ।
रजःसत्त्वतमांसीव भेदप्राप्त्या यदृच्छया ॥

4.32.11

कश्मीरमण्डलस्यान्तर् नगरं नगशोभितम् ।
नाम्नाधिष्ठानम् zउ नमेन् उन्द् तोपोग्रफिए देर् अल्तेन् हौप्स्तद्त् कस्छ्मिर्स् व्ग्ल्. स्तेइन् 1900, वोल्. 2: स्. 362; 439ff. र्त् इइइ 99 (नेब्स्त् अन्म्.). इत्य् एतच् छ्रीमत् तत्र भविष्यति ॥

4.32.12

प्रद्युम्नशिखरं हारपर्वत् इन् °रीनगर्, व्ग्ल्. स्तेइन् लोच्. चित्. स्. 443f; र्त् इइइ 460 सोwइए अन्म्. अद् र्त् इइइ 339-349. नाम तस्य मध्ये भविष्यति ।
शृङ्गं लघु सरोजस्य कोशचक्रम् इवोदरे ॥

4.32.13

तस्य मूर्ध्नि गिरेर् गेहं न्17: ग्⟨ओ⟩[ए]हं को ःपि राजा करिष्यति ।
अभ्रङ्कषमहासालं शृङ्गे शृङ्गम् इवापरम् ॥

4.32.14

गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे ।
तस्यानिशम् अविश्रान्तवातोद्धूततृणाङ्किते ॥

4.32.15

आलये दानवो न्17: द्(इ)आन° व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः ॥

4.32.16

तस्मिन्न् एव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः रेग्. 939-948 अ.द्., व्ग्ल्. स्तेइन् 1900, वोल्. 1: 103f; र्त् व् 469 - वि 114. शक्रः स्वर्ग इवापरः ॥

4.32.17

दानवो दामनामा तु मषकस् तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे न्17: °स्तम्*भ*पृ° मृदुध्वनिः ॥

4.32.18

अधिष्ठानाभिधे तस्मिन्न् एवोग्रनगरे तदा ।
रत्नावलीविहाराख्यो व्ग्ल्. र्त् इइइ 476. विहारो ःपि भविष्यति ॥

4.32.19

तस्मिंस् तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद् दृष्टबन्धमोक्षो भविष्यति ॥

4.32.20

भविष्यति गृहे तस्य क्रीडनक्रकरः खगः ।
कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः ॥

4.32.21

स नृसिंहो नृपामात्यः न्17: °मा(द्य)त्यः श्लोकैर् विरचिताम् इमाम् ।
दामव्यालकटादीनां कथयिष्यति सङ्कथाम् ॥

4.32.22

स कटः क्रकरः श्रुत्वा तां कथां संस्मृतात्मभूः ।
शान्तमिथ्याहमंशो न्17: °ह⟨स्⟩[म्]अं° ःन्तः परं निर्वाणम् एष्यति ॥

4.32.23

प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तथैव स्वकथां श्रुत्वा परं निर्वाणम् एष्यति ॥

4.32.24

राजमन्दिरदार्वन्तर् व्रणवास्तव्यतां गतः ।
मषको ःपि प्रसङ्गेन श्रुत्वा शान्तिम् उपैष्यति ॥

4.32.25

प्रद्युम्नशृङ्गाच् न्17: °गा⟨श्⟩[च्] चटको मषको राजमन्दिरात् ।
विहारात् क्रकरश् चेति मोक्षम् एष्यन्ति राघव ॥

4.32.26

एष ते कथितः सर्वो न्17: °र्व्*ओ* दामव्यालकटक्रमः ।
मायेयम् एव सांसारी न्17: सं⟨म्⟩[स्]आ° शून्यैवात्यन्तभासुरा ॥

4.32.27

भ्रमयत्य् न्17: °य्(आ)अत्य् अपरिज्ञाता मृगतृष्णाम्बुधीर् इव ।
संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीर् इव ॥

4.32.28

महतो ःपि पदाद् एवं रामाज्ञानवशाद् अधः ।
पतन्ति मोहिता मूढा दामव्यालकटा इव ॥

4.32.29

क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता ।
क्व राजगृहदार्वन्तर् न्17: °अ[न्]तर् व्रणे मषकरूपता ॥

4.32.30

क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता ।
क्व प्रद्युम्नगिरौ गेहे न्17: °ह्⟨अर्⟩[ए] भित्तिव्रणविहङ्गता ॥

4.32.31

क्व पुष्पलीलयालोलकरतोलितमेरुता ।
क्वार्ष्यशृङ्गे न्17: क्व्*आ*र्° नृसिंहस्य गृहे क्रकरपोतता ॥

4.32.32

चिदाकाशो हि मिथ्यैव रजसारञ्जितप्रभः ।
स्वरूपम् अत्यजन्न् एव विरूपम् इव बुध्यते न्17: °⟨द्⟩[ध्]य° ॥

4.32.33

स्वयैव वासनाभ्रान्त्या सत्ययेवाप्य् न्17: सत्य⟨म्⟩[य्]एवा° असत्यया ।
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुर् अवान्तरम् ॥

4.32.34

तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ।
शास्त्रेणासद् इदं दृश्यम् इति निर्वासनं न्17: °वा(म)स° स्थिताः ॥

4.32.35

तारारावविकारीणि शुष्कतर्कमतानि ये ।
यान्ति श्वभ्रजलान्य् न्17: श्⟨उ⟩[व]भ्र° आशु नाशुभं नाशयन्ति ते ॥

4.32.36

स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ।
न विनाशो भवत्य् अङ्ग गच्छताम् पतताम् इव ॥

4.32.37

इदम् मे स्याद् इदम् मे स्याद् इति बुद्धिमताम् मतिः ।
स्वेन दौर्भाग्यदैन्येन न भस्माप्य् उपतिष्ठते ॥

4.32.38

वेत्ति नित्यम् उदारात्मा त्रैलोक्यम् अपि यस् तृणम् ।
तं त्यजन्त्य् आपदः सर्वा रसतेव जरत्तृणम् ॥

4.32.39

परिस्फुरति यस्यान्तर् नित्यं सत्त्वचमत्कृतिः ।
ब्राह्मम् अण्डम् इवाखण्डं लोकेशाः पालयन्ति तम् ॥

4.32.40

अप्य् आपदि दुरन्तायां नैव रन्तव्यम् अक्रमे ।
राहुर् अप्य् अक्रमेणैव पिबन्न् अप्य् अमृतम् मृतः ॥

4.32.41

सच्छास्त्रसाधुसम्पर्कम् अर्कम् उग्रप्रकाशदम् ।
ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर् वशम् ॥

4.32.42

अवश्या वश्यम् आयान्ति यान्ति सर्वापदः न्17 °द्(आ)अः क्षयम् ।
अवश्यम् भवति श्रेयः क्रेयं यस्य गुणैर् यशः ॥

4.32.43

येषां गुणेष्व् असन्तोषो रागो येषां श्रुतम् प्रति ।
सत्ये व्यसनिनो ये च ते नराः पशवो ःपरे ॥

4.32.44

यशश्चन्द्रिकया येषाम् भासितं जनहृन्नभः ।
तेषां क्षीरसमुद्राणां नूनम् मूर्तौ स्थितो हरिः ॥

4.32.45

भुक्तम् भोक्तव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः ।
किम् अन्यद् भवभङ्गाय भूयो भोगेष्व् अलुब्धता ॥

4.32.46

यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ।
स्थीयताम् मुच्यताम् अन्तर् भोगगार्ध्यम् अवास्तवम् ॥

4.32.47

संस्तवः क्रियतां कीर्त्या गुणैर् गगनगामिभिः ।
त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः ॥

4.32.48

गायन्ति सिद्धसुन्दर्यो येषाम् इन्दुसितं यशः ।
गीतिभिर् गगनाभोगे ते जीवन्ति मृताः परे ॥

4.32.49

परमम् पौरुषं यत्नम् आस्थायादाय सूद्यमम् ।
यथाशास्त्रम् अनुद्वेगम् न्17: अनुद्⟨यो⟩[वे]गम्; zउ (अन्)उद्योग व्ग्ल्. म्ट् (इइ) 5,12 सोwइए म्ट् अद् (इव्) 32,57. श्1, श्3, न्।एद्: अनुद्वेगम्. आचारात् को न सिद्धिभाक् ॥

4.32.50

यथाशास्त्रं विहरता न्17: °ता⟨स्⟩ त्वरा कार्या न सिद्धिषु ।
चिरकालपरापक्वा सिद्धिः पुष्टफला भवेत् ॥

4.32.51

वीतशोकभयायासम् अगर्धम् अपयन्त्रणम् ।
व्यवहारो यथाशास्त्रं क्रियताम् मा विनश्यताम् ॥

4.32.52

जीवो जीर्णान्धकूपेषु भवेष्व् अन्तर्धिम् आगतः ।
भवताम् भूरिभङ्गानाम् अधुनोद्ध्रियताम् अतः ॥

4.32.53

इतः प्रभृति मा भूयो गम्यताम् अधराद् अधः ।
इदं निर्धार्यतां न्17: नि[र्]धा° मित् श्1, श्3. शास्त्रम् अस्त्रम् आपन्निवारणे ॥

4.32.54

रणे रभसनिर्लूनवारणे प्राणम् उज्झताम् ।
किम् अर्थमात्रया कार्यम् आर्याः शास्त्रम् न्17: श्(र्)आस्त्रम् अवेक्ष्यताम् ॥

4.32.55

इदम् बिम्बम् इदं निम्बम् इति मत्या विचार्यताम् ।
स्वया परप्रेरणया यात मा पशवो यथा ॥

4.32.56

दौर्भाग्यदायिनी दीना शुभहीनाविचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥

4.32.57

सुप्तैः मा स्थीयतां वृद्धमन्दकच्छपवच् छनैः ।
उत्थानम् अङ्गीक्रियतां जरामरणशान्तये ॥

4.32.58

अनर्थायार्थसम्पत्तिर् भोगौघो भवरोगदः ।
आपदे न्17: °दे⟨ः⟩ सम्पदः सर्वाः सर्वत्रानादरो जयः ॥

4.32.59

लोकतन्त्रानुसारेण विचाराद् व्यवहारिणाम् ।
शास्त्राचाराविरुद्धेन न्17: *विचाराद् → °द्धे⟨षु⟩[न]*; मित् श्1, श्3. कर्मणा शर्म सिध्यति ॥

4.32.60

स्वाचारचारुचरितस्य विविक्तवृत्तेः संसारदुःखलवसौख्यदशास्व् अगृध्नोः ।
आयुर् यशांसि च गुणाश् च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc