भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.31

4.31.1

अतः प्रबोधाय तव वच्मि राम महामते ।
दामव्यालकटन्यायो मा ते ःस्त्व् इति न लीलया ॥

4.31.2

अविवेकानुसन्धानाच् न्17: °ना⟨श्⟩[च्] चित्तम् आपदम् ईदृशीम् ।
अनन्ततरदुःखाय परिगृह्णाति हेलया ॥

4.31.3

क्व किलामरविध्वंसिशम्बरानीकनाथता ।
क्व तापतप्तजम्बालजलजर्जरमीनता ॥

4.31.4

क्व धैर्यम् अमरानीकविद्रावणकरम् महत् ।
क्व किरातमहीपालक्षुद्रकिङ्कररूपता ॥

4.31.5

क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता न्17: °कार⟨ं⟩ चित्° ।
क्व मिथ्यावासनावेशाद् अहङ्कारकुकल्पना ॥

4.31.6

शाखाप्रतानगहना संसारविषमञ्जरी ।
अहङ्काराङ्कुराद् एव समुदेतीयम् आतता ॥

4.31.7

अहङ्कारम् अतो राम मार्जयान्तः प्रयत्नतः ।
अहं न कश्चिद् एवेति मार्जयित्वा सुखी भव ॥

4.31.8

अहङ्काराम्बुदच्छन्नम् परमार्थेन्दुमण्डलम् ।
रसायनमयं शीतम् अदृश्यत्वम् उपागतम् ॥

4.31.9

अहङ्कारपिशाचात्ता दामव्यालकटास् त्रयः ।
गताः सत्ताम् असन्तो ःपि मायामाहात्म्यदानवाः ॥

4.31.10

कश्मीरेषु महापद्मसरसीतीरपल्वले न्17: °प⟨ल्⟩ल्व°; zउ महापद्मसरस् ( अन्चिएन्त् नमे ओf वोलुर् लके ) व्ग्ल्. र्त् इव् 593 (नेब्स्त् अन्म्.) सोwइए स्तेइन् 1900, वोल्. 2: 423f. व्ग्ल्. (इव्) 32,5अब्. ।
अद्य मत्स्याः स्थिता राम शेवाललवलालसाः ॥

4.31.11

नासतो विद्यते भावो नाभावो विद्यते सतः भ्ग् इइ 16अब् ।
ते ह्य् असन्तः कथं सन्तः सम्पन्ना इति मे वद ॥

4.31.12

एवम् एतन् महाबाहो नासद् भवति हि क्वचित् ।
कदाचित् किञ्चिद् अप्य् एतद् बृहद् भवति वा तनु ॥

4.31.13

किम् असत् सत् स्थितम् ब्रूहि किं तत् सद् न्17: सत्⟨त्⟩[द्] वाप्य् असत् स्थितम् ।
निदर्शनेनानेनैव करिष्ये त्वद्विबोधनम् ॥

4.31.14

सन्त एव स्थिताः सन्तो ब्रह्मन् वयम् अमी किल ।
दामादयस् त्व् असन्तो ःपि वच्मि सन्तः स्थिता इति ॥

4.31.15

यथा दामादयो राम स्थिता मायामया इह ।
असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् ॥

4.31.16

तथैवेमे वयम् अपि ससुरासुरदानवाः ।
असत्या एव वल्गामो याम आयाम एव च ॥

4.31.17

अलीकम् एव त्वद्भावो मद्भावो ःलीकम् एव च ।
अनुभूतो ःप्य् असद्रूपः स्वप्ने स्वमरणं यथा ॥

4.31.18

मृतो बन्धुर् यथा स्वप्ने ःप्य् अनुभूतो ःप्य् असन्मयः ।
मृतो ःयम् इति च ज्ञप्तिर् भवेद् एवम् इदं जगत् ॥

4.31.19

एषा हि मूढविषया नोक्तिर् एव विराजते ।
अभ्यासेन विनोदेति नानुभूतेर् अपह्नवः ॥

4.31.20

निश्चयो न्17: निश्च्⟨इ⟩[अ]° ःन्तः प्ररूढो यः स यत्नाभ्यसनं विना ।
नाशम् आयाति लोके ःस्मिन् न कदाचन कस्यचित् ॥

4.31.21

इदं जगद् असद् ब्रह्म सत्यम् इत्य् एव वक्ति यः ।
तम् उन्मत्तम् इवोन्मत्ता न्17: °म⟨क्⟩[त्]ता विमूढा विहसन्त्य् अलम् ॥

4.31.22

अक्षीबक्षीबयोर् ऐक्यं न्17: ⟨ए⟩[ऐ]क्° क्व किलेहाज्ञतज्ज्ञयोः ।
आन्ध्यप्रकाशयोर् बोधे स्याच् छायातपयोर् इव ॥

4.31.23

यत्नेनाप्य् अनुभूते ःर्थे सत्ये कर्तुम् अपह्नवम् ।
तज्ज्ञो ःज्ञश् च न शक्नोति शव आक्रमणं यथा ॥

4.31.24

ब्रह्म सर्वं जगद् इति वक्तुं तज्ज्ञस्य युज्यते ।
यतो ःविद्याननुभवे स तद् एवानुभूतवान् ॥

4.31.25

प्रबुद्धविषये ह्य् एषा राम वाक् प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्य् एव किञ्चन ॥

4.31.26

ब्रह्मैवेदम् परं शान्तम् इत्य् एवानुभवन् सुधीः ।
अपह्नवः स्वानुभूतेः कर्तुं तस्य न युज्यते ॥

4.31.27

परस्माद् व्यतिरेकेण नाहम् आत्मनि किञ्चन ।
हेमनीवोर्मिकादित्वं न मय्य् अस्ति वसिष्ठता न्17: व⟨म्⟩[स्]इष्ठ° ॥

4.31.28

भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन ।
ऊर्म्यादिबुद्धौ हेमेव नाज्ञे ःस्ति परमार्थता ॥

4.31.29

मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः ।
युज्यते न क्वचिन् नाम स्वभावापह्नवो ःनयोः ॥

4.31.30

यो यन्मयस् तस्य तस्मिन् युज्यते ःपह्नवः कथम् ।
पुरुषस्य घटो ःस्मीति वाक्यम् उन्मत्ततैव न्17: °त्⟨ए⟩[ऐ]व हि ॥

4.31.31

तस्मान् नेमे वयं सत्या न च दामादयः क्वचित् ।
असत्यास् ते वयं चेमे नास्ति नः खलु सम्भवः ॥

4.31.32

सत्यसंवेदनं शुद्धम् बोधाकाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तम् अस्त्य् अनस्तमितोदयम् ॥

4.31.33

सर्वं सत् तच् न्17: त⟨श्⟩[च्] च निःशून्यं नकिञ्चिद् इव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासो ःङ्ग दृष्टयः ॥

4.31.34

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्डुकादिवद् भान्ति तथेमास् तत्र सृष्टयः ॥

4.31.35

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस् ततो ःसत्यम् अपि सत्यं तदीक्षणात् ॥

4.31.36

न सत्यम् अस्ति नासत्यम् इह तस्माज् जगत्त्रये ।
यद् यथा वेत्ति चिद्रूपं तत् तथोदेत्य् असंशयम् ॥

4.31.37

यथा दामादयस् तद्वद् एवेमे ःभ्युदिता वयम् ।
सत्यासत्याः किम् अत्राङ्ग तान् प्रत्य् अपि विकल्पना ॥

4.31.38

अस्यानन्तस्य चिद्व्योम्नः न्17: चिद्*व्यो*म्नः सर्वगस्य निराकृतेः न्17: °ते[ः] ।
चिद् उदेति यथा यान्तस् तथा सा तत्र भात्य् अलम् ॥

4.31.39

यत्र दामादिरूपेण संवित् प्रकचते न्17: °त्⟨ई⟩[ए]; मित् श्1. स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥

4.31.40

अस्मदादिस्वरूपेण संविद् यत्रोदिता स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥

4.31.41

स्वस्वप्नप्रतिभासस्य जगद् इत्य् अभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस् तापस्येव मृगाम्बुता ॥

4.31.42

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥

4.31.43

न च तत् क्वचिद् आसुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगद् इत्य् अवगम्यताम् ॥

4.31.44

निर्वाणम् एव सर्गश्रीः सर्गश्रीर् एव निर्वृतिः ।
नानयोः शब्दयोर् अर्थभेदः पर्याययोर् इव ॥

4.31.45

परमार्थे जगद् इति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्डुकम् इवेक्षितम् ॥

4.31.46

न तत् केशोण्डुकं किञ्चित् न्17: ⟨च्⟩[क्]इञ्° सा हि दृष्टिस् तथा स्थिता ।
नैवं दृश्यम् इदं किञ्चिद् इत्थं चिद्व्योम संस्थितम् ॥

4.31.47

सर्वत्र सर्वम् इदम् अस्ति यथानुभूतं नो किञ्चन क्वचिद् इहास्ति च नानुभूतम् ।
शान्तं सद् एकम् इदम् आततम् इत्थम् आस्ते सन्त्यक्तशङ्कम् अपभेदम् अतस् त्वम् आस्स्व न्17: आस्स्व⟨ः⟩ ॥

4.31.48

शिलोदराकारघनम् प्रशान्तम् महाचितो रूपम् इदं खम् अच्छम् न्17: (आ)अच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित् स्तो यच् न्17: य⟨श्⟩[च्] चास्ति तत् साधु तद् एव भाति ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc