भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.33

4.33.1

सर्वातिशयसाफल्यात् सर्वं सर्वत्र सर्वदा ।
सम्भवत्य् एव तस्मात् स्वं शुभोद्योगं न सन्त्यजेत् ॥

4.33.2

मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना न्17: °द(ना)दायि° ।
सरसीश्वरम् आराध्य मृत्युर् अप्य् उपनिर्जितः ॥

4.33.3

सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः ।
दानवैर् दानवार्याढ्यैर् गजैः पद्माकरा इव ॥

4.33.4

मरुत्तनृपतेर् यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरः सर्गो रचितः ससुरासुरः ॥

4.33.5

महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥

4.33.6

पिष्टातकाम्बु दुष्प्रापं रसायनम् इवाश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥

4.33.7

त्रैलोक्यमल्लांस् तृणवन् निघ्नन् विष्ण्वब्जजादिकान् ।
युक्त्यातिशयदार्ढ्येन न्17: °दा[र्]ढ्ये° कालः श्वेतेन न्17: °ते⟨म्⟩[न्]अ कालितः ॥

4.33.8

प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् ।
परलोकाद् उपानीतः सावित्र्या सत्यवान् पतिः ॥

4.33.9

न सो ःस्त्य् अतिशयो लोके यस्यास्ति न्17: °आ(ति)स्ति न फलं स्फुटम् ।
भवितव्यं विचार्यातः सर्वातिशयशालिना ॥

4.33.10

आत्मज्ञानम् अशेषाणां न्17: अ(षे)शे° सुखदुःखदशादृशाम् ।
मूलं कषकरं तस्माद् भाव्यं तत्रातिशायिना ॥

4.33.11

नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया ।
दुःखाद् ऋते निराबाधं सुखं किञ्चिद् अवाप्यते ॥

4.33.12

अशमः परमम् ब्रह्म शमश् च परमम् पदम् ।
यद्य् अप्य् एवं तथाप्य् एनम् प्रशमं विद्धि शङ्करम् ॥

4.33.13

अभिमानम् परित्यज्य शमम् आश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात् सज्जनसेवनम् ॥

4.33.14

न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः ।
संसारसागरोत्तारे सज्जनासेवनं यथा ॥

4.33.15

लोभमोहरुषां यस्य तनुतानुदिनम् भवेत् ।
यथाशास्त्रं विहरतः स्वकर्मसु स सज्जनः न्17: °मस्[उ] स स⟨-⟩[ज्ज]नः ॥

4.33.16

अध्यात्मविदुषः न्17: अध्या⟨-⟩[त्म]° सङ्गात् तस्य सा धीः प्रवर्तते ।
अत्यन्ताभाव एवास्य न्17: °आ⟨-⟩[स्]य यया दृश्यस्य दृश्यते ॥

4.33.17

दृश्यात्यन्ताभावतस् तु परम् एवावशिष्यते ।
अन्याभाववशाद् आशु जीवस् न्17: जी⟨-⟩[वस्] तत्रैव लीयते ॥

4.33.18

न चोत्पन्नं न चैवासीद् दृश्यं न च भविष्यति ।
वर्तमाने ःपि न्17: प्⟨अ⟩[इ] नैवास्ति परम् एवास्त्य् अवेदितम् न्17: °स्त्[य्] अवे° ॥

4.33.19

एतद् युक्तिसहस्रेण दर्शितं दर्श्यते न्17: दर्श्[य्]अ° ःपि च ।
सर्वैर् एवानुभूतं न्17: (ओ)एवा° हि दर्शयिष्यामि चाधुना ॥

4.33.20

यथेदम् अखिलं शान्तं त्रिजगत् संविदम्बरम् ।
इदं तत्त्वं त्व् असत्त्वादि कुतो ःत्र स्यात् कथञ्चन ॥

4.33.21

चिच् चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि ।
यत् तयैव तद् एवेदं जगद् इत्य् अवबुध्यते ॥

4.33.22

त्रैलोक्यरूपो ःनुभवश् न्17: °व⟨च्⟩[श्] चिदादित्यांशुमण्डलम् ।
क्व वेन्द्वंशुमतोर् भेदो निर्विकत्थन कथ्यताम् ॥

4.33.23

स्वभावतो ःस्याश् न्17: अस्या⟨च्⟩[श्] चिद्दृष्टेर् ये उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस् ताव् एताव् अस्तमयोदयौ व्ग्ल्. स्पन्दकारिका 1.1. ॥

4.33.24

अहमर्थो ःपरिज्ञातः परमार्थाम्बरे मलः ।
परिज्ञातो ःहमर्थस् तु परमार्थाम्बरम् भवेत् ॥

4.33.25

अहम्भावः परिज्ञातो नाहम्भावे न्17: °व्(ए)⟨*ओ*⟩[ए] भवत्य् अलम् ।
एकताम् अम्बुनेवाम्बु याति चिन्नभसात्मना ॥

4.33.26

अहमादिजगद्दृश्यं किल नास्त्य् एव वस्तुतः ।
अवश्यम् एव तत् कस्माच् छिष्यते ःहंविचारिणः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc