भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.30

4.30.1

इति तुष्टेषु देवेषु दानवेषु हतेषु च ।
दामव्यालकटा दीना बभूवुर् भयविह्वलाः ॥

4.30.2

जज्वाल कुपितः कोपी कल्पान्ताग्निर् इव ज्वलन् ।
शम्बरः शमितानीको न्17: °आन्⟨एके⟩[ईको] दामव्यालकटान् प्रति ॥

4.30.3

शम्बरस्य भयाद् गत्वा पातालम् अथ सप्तमम् ।
दामव्यालकटास् तस्थुस् त्यक्त्वा दानवमण्डलम् ॥

4.30.4

यमस्य किङ्करास् तत्र वेतालत्रासनक्षमाः ।
कुकुहा नाम तिष्ठन्ति नरकार्णवपालकाः ॥

4.30.5

तैः सार्धं नीतवन्तस् ते तत्र दामादयो ःवधिम् ।
दशवर्षसहस्रान्ताम् आत्तानन्तकुवासनाः ॥

4.30.6

इयम् मे वनिता रम्या ममेयम् प्रभुतेति च ।
कुकुहस्नेहबद्धानां कालस् तेषां व्यवर्तत ॥

4.30.7

धर्मराजो ःथ तं देशं कदाचित् समुपाययौ ।
महानरककार्याणां विचारार्थं यदृच्छया ॥

4.30.8

अपरिज्ञातम् एनं ते धर्मराजं त्रयो ःसुराः ।
न प्रणेमुर् विनाशाय सामान्यम् इव किङ्करम् ॥

4.30.9

अथ वैवस्वतेनैते ज्वलितश्वभ्रभूमिषु ।
विहितभ्रूपरिस्पन्दम् आदेशेन निवेशिताः ॥

4.30.10

तत्र ते करुणाक्रन्दाः ससुहृद्दारबान्धवाः ।
दग्धाः सपर्णविटपा वृक्षा इव दवानलैः ॥

4.30.11

स्वया वासनया जातास् तयैव क्रूरया न्17: क्[र्]ऊरया पुनः ।
वधकर्मकराकाराः कैराता राजकिङ्कराः ॥

4.30.12

तज्जन्माथ परित्यज्य जाताः सुह्मेषु वायसाः ।
तदन्ते गृध्रतां न्17: गृ⟨द्⟩ध्र° यातास् ततो ःपि बकतां गताः ॥

4.30.13

शवरत्वं त्रिगर्तेषु मेषत्वम् बर्बरेषु च ।
मगधेष्व् अथ कीटत्वं चक्रुस् ते वक्त्रबुद्धयः ॥

4.30.14

अनुभूयेतराम् अत्र चित्रां योनिपरम्पराम् ।
अद्य मत्स्याः स्थिता राम कश्मीरारण्यपल्वले न्17: °प⟨ल्⟩ल्व° ॥

4.30.15

दावाग्निक्वथिताल्पाल्पपङ्ककल्कानुपायिनः न्17: °क्व⟨प्⟩[थ्]इताल्पाल्पपङ्ककल्कानु⟨य्⟩[प्]आयिनः मित् श्1,श्3 ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः ॥

4.30.16

विचित्रयोनिसंरम्भम् अनुभूय पुनः पुनः ।
भूत्वा भूत्वा पुनर् नष्टास् तरङ्गा जलधाव् इव ॥

4.30.17

भवजलधिगतास् ते वासनावातनुन्नास् तृणम् इव चिरम् ऊढा देहरूपैस् तरङ्गैः ।
उपशमम् अनुयाता राम नाद्याप्य् अनन्तम् परिकलय महत्त्वं दारुणं वासनायाः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc