भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.29

4.29.1

एवम्प्रायाकुलारम्भैर् असुरैर् असुहारिभिः ।
महासाहससंरब्धैर् आरब्धमरणै रणैः ॥

4.29.2

माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छद्मनोपायनेन च ॥

4.29.3

कार्पण्येनास्त्रयुद्धेन न्17: °आस्त्र्⟨ए⟩[अ]यु°; मित् श्1,श्3. स्वान्तर्धानैश् च भूरिशः ।
कृतः स समरो न्17: ⟨म्⟩[स्]अम्° देवैस् त्रिंशद् वर्षाणि पञ्च च ॥

4.29.4

वर्षाणि दिवसान् मासान् दशाष्टौ पञ्च सप्त च ।
वर्षाणि पेतुर् वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥

4.29.5

एतावता तु कालेन दृढाभ्यासाद् न्17: °ढ्⟨अ⟩[आ]भ्यास्⟨य्⟩आद् अहङ्कृतेः ।
दामादयो ःहम् इत्य् आस्थां जगृहुर् ग्रस्तचेतसः ॥

4.29.6

नैकट्यातिशयाद् यद्वद् दर्पणम् बिम्बवद् भवेत् ।
अभ्यासातिशयात् तद्वत् ते ःप्य् अहङ्कारितां गताः ॥

4.29.7

यद्वद् दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।
पदार्थवासना तद्वद् अनभ्यासान् न जायते ॥

4.29.8

यदा दामादयो जाता जाताहङ्कारवासनाः ।
तदा मे न्17: म्(ओ)*ए* जीवितम् मे न्17 म्⟨ओ⟩[ए] ःर्थ इति दैन्यम् उपागमन् ॥

4.29.9

भयवासनया ग्रस्ता मोहवासनया हताः ।
आशापाशनिबद्धास् ते ततः कृपणतां गताः ॥

4.29.10

मुधैव ह्य् न्17: (न) ह्य् अनहङ्कारैर् ममत्वम् उपकल्पितम् ।
रज्ज्वाम् भुजङ्गत्वम् न्17: °ज्ज्वा⟨ं तु⟩[म् भु]जङ्° इव दामव्यालकटैस् ततः ॥

4.29.11

आपादमस्तकं देहलतेयम् भवतु स्थिरा ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥

4.29.12

स्थिरीभवतु मे देहः सुखायास्तु धनम् मम ।
इति बद्धधियां तेषां धैर्यम् अन्तर्धिम् आययौ ॥

4.29.13

अवासनत्वाद् वपुषाम् अनास्थत्वात् सुरद्विषाम् ।
याभूत् प्रहारपरता मार्जितैवाशु साभवत् ॥

4.29.14

कथं स्थिरा जगत्य् अस्मिन् भवेम इति श्1: भवेमेति च; श्3: भवाम इति चिन्तया ।
वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥

4.29.15

तेषां त्व् अर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।
बभूव भवभावस्था भीषणा भवभागिनी ॥

4.29.16

अथ तस्मिन् रणे भीत्या सापेक्षत्वम् उपाययुः ।
मत्तेभगणसंरब्धा वने हरिणका इव ॥

4.29.17

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दम् मन्दं किल न्17: क्⟨ल्⟩इल भ्रेमुः कुपितैरावणे रणे ॥

4.29.18

शरीरैकार्थिनां तेषाम् भीतानाम् मरणाद् इति ।
अल्पसत्त्वतया मूर्ध्नि कृतम् आपत्प्रदम् पदम् ॥

4.29.19

अथ प्रम्लानसत्त्वास् ते हन्तुम् अग्रगतम् भटम् ।
न शेकुर् इन्धनक्षीणा हविर् दग्धुम् इवाग्नयः ॥

4.29.20

विबुधानाम् प्रहरतां सुदम्यताम् सुदम्यताम् = र-गण! श्1: सुदस्युत्वं, कोर्र्. इ.म्.: सुदस्युताम्; श्3: सुदम्यत्वं उपागताः ।
क्षतविक्षतसर्वाङ्गास् तस्थुः सामान्यवद् भटाः ॥

4.29.21

बहुनात्र किम् उक्तेन मरणाद् भीतचेतसः ।
दैत्या देवेषु वल्गत्सु दुद्रुवुः न्17: द्⟨र्⟩उद्रु° समराजिरात् ॥

4.29.22

तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।
दामव्यालकटाख्येषु विख्यातेष्व् असुरालये ॥

4.29.23

तद्दैत्यसैन्यम् अपतत् खाद् विद्रुतम् इतस् ततः ।
कल्पान्तपवनाधूतं ताराजालम् इवाभितः ॥

4.29.24

अमराचलकुञ्जेषु शिखराणां शिलासु च ।
तटेषु वारिराशीनाम् पयोदपटलेषु च ॥

4.29.25

सागरावर्तगर्तेषु श्वभ्रेष्व् अथ सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥

4.29.26

तद्रणोत्सन्नकोशेषु न्17: °रण्*ओ*त्स° ग्रामेषु नगरेषु च ।
अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥

4.29.27

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु न्17: °⟨ड्⟩[द्र्]अमिड° च ॥

4.29.28

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥

4.29.29

सर्वतः पर्वताकाराः पतितास् ते ःसुरालयः न्17: सुरा(ल्)*र्*अय्(आ)अः; श्1: ःसुरालयः; श्3: सुरारयः ।
विस्फोटिताङ्गचरणा विभिन्नकरबाहवः ॥

4.29.30

शाखालग्नान्त्रतन्त्रीका मुक्तरक्तवहच्छटाः ।
व्यस्ताङ्गखुरमूर्धानो निष्क्रान्तकुपितेक्षणाः ॥

4.29.31

स्वायुधा वलनावेगच्छिन्नकङ्कटहेतयः ।
दूरापातविपर्यस्तपतन्नानाविधांशुकाः ॥

4.29.32

कण्ठलग्नशिरस्त्राणखटत्कारोग्रभीतयः ।
शिलाशितशिखाप्रोतदेहभागावलम्बिनः ॥

4.29.33

शल्मल्यग्रदृढापातप्रोतकङ्कटशङ्कवः ।
सुशिलाफलकास्फालशतधाशीर्णमस्तकाः ॥

4.29.34

सर्व एव सकलासु सशस्त्राः पातमात्रसमनन्तरम् एव ।
दिक्षु नाशम् अगमन्न् असुरेन्द्राः पांसवो ःम्बुधिगताः पयसीव ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc