मोक्षोपायटीका · अध्याय 4.2
अथैतदभ्युपगमे वच्मि वेद्यविदां वर ।
समस्तकलनातीते महाचिद्व्योम्नि निर्मले ॥
जगदाद्यङ्कुरस् तत्र यद्य् अस्ति तद् असौ तदा ।
कैर् इवोदेति कथय कारणैः सहकारिभिः ॥
सहकारिकारणानाम् अभावे वाङ्कुरोद्गतिः ।
वन्ध्याकन्या च दृष्टेह न कदाचन केनचित् ॥
सहकारिकारणानाम् अभावे यच् च वोदितम् न्17: व्(ए)*ओ*दि° ।
मूलकारणम् एवात्मा तत् स्वभावे स्थितं तथा ॥
सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति श्6: °ष्ठ°; न्17: °ष्ट° ।
यथास्थितम् अनाकारं क्व जन्यजनकक्रमः ॥
अथ पृथ्व्यादयो ःन्ये वा कुतो ःप्य् आगत्य कुर्वते ।
सहकारिकारणत्वं तत् पूर्वैवात्र दूषणा ॥
तस्मात् परे जगच् छान्तम् आस्ते तत् सहकारणैः ।
विना प्रसरतीत्य् उक्तिर् बालस्य न विपश्चितः ॥
तस्माद् राम जगन् नासीन् न चास्ति न भविष्यति ।
चेतनाकाशम् एवाच्छं कचतीत्थम् इवात्मनि ॥
अत्यन्ताभाव एवास्य जगतो विद्यते यदा ।
तदा ब्रह्मेदम् अखिलम् इति सद् राम नान्यथा ॥
पूर्वप्रध्वंसनान्योःन्याभावैर् न्17, श्6: °प्रध्वंसिना° यद् उपशाम्यति ।
अशान्तम् एव तच् चित्ते न शाम्यत्य् एव तद् यतः ॥
अत्यन्ताभावम् एवातो जगद्दृश्यस्य सर्वदा ।
वर्जयित्वेतरा युक्तिर् नास्त्य् एवानर्थसङ्क्षये श्6: नास्त्य् एवा°; न्17: नास्ते वा° ॥
चिदाकाशस्य बोधो ःयं जगदादीति यत् स्थितम् ।
अयं सो ःहम् इदं रूपालोकचित्तकलाद्य् अपि ॥
इदम् अर्कादि पृथ्व्यादि तथेदं वत्सरादि च ।
अयं कल्पः क्षणश् श्1, श्3: कल्पः क्षणश्; न्17, श्6: कल्पक्षणश् चायम् इमे मरणजन्मने ॥
अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।
अयं स सर्गप्रारम्भो भावाभावक्रमस् त्व् असौ ॥
लक्षाणीमानि कल्पानाम् इमा ब्रह्माण्डकोटयः श्1: °कोटयः; न्17, श्3, श्6: °केटयः ।
इमे ब्रह्मेन्द्रनिचया इमा विष्ण्वादिशक्तयः ॥
एते चेमे परिणता इमे भूय उपागताः ।
इमानि धिष्ण्यजालानि देशकालकला इमाः श्6: इमा ॥
महाचित्परमाकाशम् अनावृत्तम् अनन्तकम् ।
यथा पूर्वं स्थितं शान्तम् इत्य् एवं कचति स्वयम् ॥
परमाणुसहस्रांशभास एता महाचितेः ।
स्वभावभूता एवान्तःस्थिता नायान्ति यान्ति नो ॥
स्वयम् अन्तश् चमत्कारो यस् समुद्गीर्यते चिता ।
तत् सर्गभानम् भातीदम् भारूपं न च भित्तिमत् ॥
नोद्यन्ति न च नश्यन्ति नायान्ति न च यान्ति च ।
महाशिलान्तर्लेखानां सन्निवेश इवाचलाः ॥
इमे सर्गाः प्रस्फुरन्ति स्वतः स्वात्मनि निर्मले ।
नभसीव नभोभागा निराकारा निराकृतौ ॥
द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः ।
आवर्ता इव वाम्भोधेर् गुणिनो वाथवा गुणाः ॥
व्ग्ल्. बाउ इइ 4,12 विज्ञानघन एवैकम् इदम् इत्थम् इव स्थितम् ।
सोदयास्तमयारम्भम् अनन्तं शान्तम् आततम् ॥
सहकार्यादिहेतूनाम् अभावे शून्यता जगत् ।
स्वयम्भूर् जायते चेति किलोन्मत्तकफूत्कृतम् ॥
प्रशान्तसर्वार्थकलाकलङ्को निरस्तनिःशेषविकल्पतल्पः ।
चिराय विद्रावितदीर्घनिद्रो न्17, श्6: निद्रावित° भवाभयो भूषितभूः प्रबुद्धः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0