मोक्षोपायटीका · अध्याय 4.28
इत्य् उक्त्वा भगवान् देवस् तत्रैवान्तर्धिम् आययौ ।
वेलावनतटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥
सुरास् त्व् आकर्ण्य तद्वाक्यं जग्मुः स्वाम् अभितो दिशम् ।
कमलामोदम् आदाय वनमालाम् इवानिलाः ॥
दिनानि कतिचित् स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा न्17: °फ्*आ* इव पद्मेषु मन्दिरेषु विशश्रमुः ॥
कञ्चित् कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर् दुन्दुभिनिर्घोषम् प्रलयाभ्ररवोपमम् ॥
अथ दैत्यैः सह व्योम्नि तैः पातालतलोत्थितैः ।
कालक्षेपकरं घोरम् पुनर् युद्धम् न्17: य्[उ]द्° अवर्तत ॥
ववुर् असिशरशक्तिमुद्गरौघा मुसुलगदापरशूग्रचक्रसङ्घाः ।
अशनिगिरिशिलाहुताशवृक्षा अहिगरुडादिमुखानि चायुधानि न्17: °धानि (च) ॥
मायाकृतायुधमहाम्बुघनप्रवाहा क्षिप्रम् प्रति प्रतिदिशम् परिनिर्जगाम ।
पाषाणपर्वतमहीतटवृक्षलक्ष- क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥
मध्यप्रवाहवहदुल्मुकशूलशैल- प्रासासिकुन्तशरतोमरमुद्गरेण न्17: °आसि⟨क्तं⟩[कुन्]त° ।
गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्व् अशनिवर्षणकर्षणेन ॥
न्17: (प्रहाराणां दाने ग्रहणे च समर्थापीति यावत्) पृथ्व्यादि° पृथ्व्यादिदारुणशरीरमयी प्रहार- दानग्रहे गगनरश्मिशरीरिकैव ।
या योपशाम्यति सुरासुरसिद्धसेना मायाकृता पुनर् उदेति रसेन सैव ॥
शैलोपमायुधविघट्टितभूधराणि न्17: °यु⟨द्ध्⟩[ध्]अ°; मित् श्1, श्3. रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
देवासुरेन्द्रसुरशैलविरूढकुन्त- तालीवनानि ककुभां वदनान्य् अथासन् ॥
उद्गीर्णकुन्तशरशक्तिगदासिचक्रा हेलानिगीर्णसुरदानवमुक्तशैला ।
काषक्वणत्क्रकचदन्तनखोग्रमाला जीवान्वितापतद् अथायससिंहवृष्टिः न्17: °सिंह्(आ)अ° ॥
उज्ज्वाललोचनविषज्वलनातपोद्यद्- दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहीमहीध्रा मत्ताब्धिवद् विषधरावलिर् उल्ललास ॥
उन्नादवज्रमकरोत्करकर्करान्तर्- इक्षाब्धिवीचिवलयैर् वलिताचलेन्द्रैः ।
आसीज् जगत् सकलम् एव सुसङ्कटाङ्गम् आवर्तिभिर् विविधहेतिनदीप्रवाहैः ॥
शैलास्त्रशस्त्रगरुडाचलमालितोच्च- नागाङ्गनासुरगणाङ्गनम् न्17: °तो⟨श्⟩[च्]अना° अन्तरिक्षम् ।
आसीत् क्षणं जलधिभिः क्षणम् अग्निपूरैः पूर्णं क्षणं दिनकरैः क्षणम् अन्धकारैः ॥
गरुडगुडगुडाकुलान्तरिक्ष- प्रविसृतहेतिहुताशपर्वतौघैः ।
जगद् अभवद् असह्यकल्पकाल- ज्वलितसुरालयभूतलान्तरालम् ॥
उदपतन् वसुधातलतो ःसुरा गगनम् अद्रितटाद् इव पक्षिणः ।
अतिबलाद् अपतन् विबुधा भुवि प्रलयचालितशैलशिला इव ॥
शरीररूढोन्नतहेतिवृक्ष- वनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुर् अथाम्बरान्तः कल्पानिलान्दोलितशैलशोभाम् ॥
सुरासुराद्रीन्द्रशरीरमुक्तै रक्तप्रवाहैर् अभितो भ्रमद्भिः ।
बभार पूर्णम् परितो ःम्बराब्धिः सन्ध्यारुणोद्यच्छतगङ्गम् अङ्गम् ॥
गिरिवर्षणम् अम्बुवर्षणं विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते शमम् अन्योःन्यम् अथाग्निवर्षणम् ॥
अनयन् नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश् च समं समन्ततः ककुबङ्गेष्व् इव पुष्पवर्षणम् ॥
देवासुराः न्17: देवा⟨स्⟩ सु° सरससङ्गरसम्भ्रमार्ता गेम्äß म्ट्: सरस-सङ्गर-संरम्भ-आर्ता (उन्मेत्रिस्छ्). अन्योःन्यम् अङ्गदलनाकुलहेतिहस्ताः ।
दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः कीर्णासृजो नभसि बभ्रमुर् आक्षिपन्तः ॥
छिन्नैः शिरःकरभुजोरुभरैर् न्17: °भरै⟨ः⟩[र्] भ्रमद्भिर् आकाशकोशशलभैर् अशिवैस् तदानीम् ।
आसीज् जगज्जठरम् अभ्रवरैर् इवोग्रैर् आभास्करं न्17: आभा⟨म्⟩[स्]करं स्थगितदिक्तटशैलजालम् ॥
मत्तानलं क्षुब्धजलानिलार्कं न्17: °आन्⟨अ⟩[इ]ला°; मित् श्1, श्3. दलद्वनं शीर्णसुरासुरौघम् ।
ब्रह्माण्डम् आखण्डितकुड्यकोणम् अकालकल्पान्तकरालम् आसीत् ॥
भ्रान्तम् भृशम् भ्रमितदिक्तटम् अद्रिकूटैर् आत्मप्रमाणघनहेतिहतै रणद्भिः ।
कूजद्भिर् आर्तिभिर् इवाग्रगुहौघवातैः क्रन्दद्भिर् आपतितसिंहरवैर् अदभ्रैः ॥
मायानदीजलधियोधघनाग्निदाहैर् वृक्षैः सुरासुरशवैर् अचलैः शिलौघैः ।
भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रवर्षैर् वातावकीर्णवनपर्णवद् अम्बरान्तः ॥
अद्रीन्द्रपक्षपरिमाणगमागमैक- दुर्वारहस्ततलदारुणताडनैर् द्राक् न्17: ⟨ड्⟩[द्र्]आक् ।
आसीत् पतद्भटशरीरगिरीन्द्रघात- विभ्रष्टदेवपुरपूर्णजलार्णवौघः ॥
घनघुङ्घुमपूरितान्तरिक्षा क्षतजाक्षालितभूधरान्तराला ।
रुधिरह्रदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत् ॥
अनन्तदिक्प्रसरविकारकारिणी क्षयोदयोन्मुखसुखदुःखदायिनी ।
रणक्रियासुरसुरसङ्घसङ्कटा तदाभवत् खलु सदृशीह संसृतेः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0