मोक्षोपायटीका · अध्याय 4.27
तस्मिंस् तदा वर्तमाने घोरे समरसम्भ्रमे ।
देवासुरशरीरेषु पतत्स्व् अद्रिदलेष्व् इव ॥
वहत्स्व् अभ्रप्रवाहेषु गङ्गापूरेष्व् इवाम्बरात् ।
दाम्नि वेष्टितदेवौघे मुक्तक्ष्वेडाघनारवे ॥
व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।
कटे कठिनसंरम्भसङ्गराच्छादितामरे ॥
ऐरावणे क्षीणमदे पलायनपरायणे ।
प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥
पातिताङ्गायुधार्धानि प्रस्रवद्रुधिराणि च ।
पयांसीव विसेतूनि देवसैन्यानि दुद्रुवुः ॥
दामव्यालकटास् तानि चिरम् अन्तर्हितान्य् अपि ।
अनुजग्मुर् लसन्नादम् इन्धनानीव पावकाः ॥
अन्विष्टान् अपि यत्नेन नालभन्तासुराः न्17: °न्ता*सुराः* सुरान् ।
घनजालवनोड्डीनान् न्17: °ओड्डीना⟨स्⟩[न्] सिंहा हरिणकान् इव ॥
अलब्धेष्व् अमरौघेषु दामव्यालकटास् तदा ।
जग्मुः पातालकोशस्थं प्रभुम् प्रमुदिताशयाः ॥
अथ देवा विषण्णास् ते क्षणम् आश्वस्य वै ययुः ।
जयोपायाय विजिता ब्रह्माणम् अमितौजसम् ॥
तेषाम् आविरभूद् न्17: *आ*विर्° ब्रह्मा रक्तरक्ताननश्रियाम् न्17: *रक्त*रक्ता° ।
सायं रक्तीकृताम्बूनाम् अब्धीनाम् इव चन्द्रमाः ॥
प्रणम्य ते सुरास् तस्मै तम् अर्थं शम्बरेरितम् ।
सम्यक् प्रकथयाम् आसुर् दामव्यालकटक्रमम् ॥
तम् आकर्ण्याखिलम् ब्रह्मा विचार्य च विचारवित् ।
उवाचेदं सुरानीकम् आश्वासनकरं वचः ॥
हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् ।
मर्तव्यम् अमरेशस्य तावत् कालम् प्रतीक्ष्यताम् ॥
दामव्यालकटान् एतान् अद्य त्व् अमरसत्तमाः ।
योधयन्तः पलायध्वम् मायायुद्धेन दानवान् ॥
युद्धाभ्यासवशाद् एषाम् मकुराणाम् इवाशये ।
अहङ्कारचमत्कारः प्रतिबिम्बम् उपैष्यति ॥
गृहीतवासनास् त्व् एते दामव्यालकटाः सुराः श्1 ग्लोस्स्.: हे ।
सुजया वो भविष्यन्ति जाललग्नाः खगा इव ॥
अद्य त्व् अवासना एते सुखदुःखविवर्जिताः ।
धैर्येणारीन् न्17: °री⟨र्⟩[न्] विनिघ्नन्तो देवदुर्जयतां गताः ॥
वासनातन्तुबद्धा ये आशापाशवशीकृताः ।
वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥
ये हि निर्वासना धीराः सर्वत्रासक्तबुद्धयः ।
न हृष्यन्ति न्17: ह्⟨या⟩[ऋ]ष्° न कुप्यन्ति दुर्जयास् ते महाधियः ॥
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः न्17: ग्र⟨ङ्क्ति⟩[न्थि]°; श्1, श्3: ग्रन्थि° शरीरिणः ।
महान् अपि बहुज्ञो ःपि स बालेनापि जीयते ॥
अयं सो ःहम् इदं मे तद् इत्य् आकलितकल्पनः ।
आपदाम् पात्रताम् एति पयसाम् इव सागरः ॥
इयन्मात्रपरिच्छिन्नो येनात्मा भव्य भावितः ।
स सर्वज्ञो ःपि सर्वत्र परां कृपणतां गतः ॥
अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।
आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः न्17: °त्⟨आ⟩[अ]ः ॥
आत्मनो व्यतिरिक्तं यत् किञ्चिद् अस्ति जगत्त्रये ।
तत्रोपादेयभावेन बद्धा भवति भावना ॥
आस्थामात्रम् अनन्तानां दुःखानां कारणं विदुः ।
अनास्थामात्रम् अभितः सुखानां कारणं विदुः न्17: *अना° → विदुः* ॥
दामव्यालकटा यावद् अनास्था भावसंस्थितौ ।
तावन् न नाम जेया वो मषकाणाम् इवानिलाः ॥
अन्तर्वासनया जन्तुर् दीनताम् अनुयातया ।
जितो भवत्य् अन्यथा तु मषको ःप्य् अमराचलः ॥
विद्यते वासना यत्र तत्र चायाति दीनता ।
गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः ॥
अयं सो ःहम् ममेदं चेत्य् एवम् अन्तः स्ववासनाम् ।
यथा दामादयः शक्र भावयन्ति तथा कुरु ॥
या या जनस्य विपदो भावाभावदशाश् च याः ।
तृष्णाकरञ्जवल्ल्यास् न्17: °ल्ल्य्⟨अ⟩[आ]स् ता मञ्जर्यः न्17: °र्य[ः] कटुकोमलाः ॥
वासनातन्तुबद्धो ःयं लोको न्17: लोक्⟨ए⟩[ओ]; श्1, श्3: लोको विपरिवर्तते ।
सा सुवृद्धातिदुःखाय सुखायोच्छेदम् आगता ॥
धीरो ःप्य् अतिबहुज्ञो ःपि कुलजो ःपि महान् अपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥
देहपादपसंस्थस्य हृदयालयशायिनः ।
तृष्णाचित्तखगस्यास्य वागुरा परिकल्पिता ॥
दीनो वासनया लोकः कृतान्तेनापकृष्यते ।
रज्ज्वेव बालेन खगो विवशो ःनिशम् उच्छ्वसन् ॥
अलम् आयुधभारेण सङ्गरभ्रमणेन च ।
वासनां सविपर्यासां युक्त्यैव त्वं रिपोः कुरु ॥
अन्तर् अक्षुभिते धैर्ये रिपोर् अमरनायकाः ।
न शस्त्राणि न शास्त्राणि न चास्त्राणि जयन्ति वः ॥
दामव्यालकटास् त्व् एते युद्धाभ्यासवशेन च ।
अहङ्कारमयीम् अन्तस् ते ग्रहीष्यन्ति वासनाम् ॥
यदि ते यन्त्रपुरुषाः शम्बरेण विनिर्मिताः ।
वासनां नाश्रयिष्यन्ति यास्यन्ति तद् अजय्यताम् न्17: °ज(य्)*य्य्*अ° ॥
तत् तावद् युक्तियुद्धेन तान् प्रबोधयतामराः ।
यावद् अभ्यासवशतो भविष्यन्ति सवासनाः ॥
ततो वध्या भविष्यन्ति भवताम् बद्धभावनाः ।
तृष्णाप्रोताशया लोके न केचन नपेलवाः न्17: लोक्⟨ओ⟩[ए] न केचन [न]पेलवाः; श्1, श्3: लोके न केचन नपेलवाः. zउ अन्देर्wएइतिगेम् गेब्रौछ् वोन् न-समासस् व्ग्ल्. औछ् म्ट् (इ) 30,7. ॥
समविषमम् इदं जगत् समग्रं समुपगतं स्थिरतां स्ववासनातः ।
चलति च लहरीभरो यथाब्धाव् अत इह सैव चिकित्स्यताम् प्रयाता ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0