भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.26

4.26.1

इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।
सेनां सम्प्रेषयाम् आस भूतलं देवनाशिनीम् ॥

4.26.2

दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
उदगुर् भीमनिर्ह्रादाः सपक्षगिरिलीलया ॥

4.26.3

रोदसीकोटरं हस्तप्रहारहतभास्करम् ।
दानवाः पूरयाम् आसुर् दामव्यालकटेरिताः ॥

4.26.4

अथोत्तस्थुर् निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
प्रलयान्त इवाक्षुब्धा भीताः स्वर्वासिनां गणाः ॥

4.26.5

देवासुरपताकिन्योस् तद् युद्धम् अभवत् तयोः ।
अकालोल्बणकल्पान्तभीषणम् न्17: °ओल्⟨ल्⟩बण° भुवनान्तरे ॥

4.26.6

पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद् दिवः ।
शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्य् अधः ॥

4.26.7

जुघूर्णुर् भटनिर्मुक्तसिंहनादविराविताः ।
प्रलयानिलसम्पूरैः साट्टहासा न्17: °हा[सा] मित् श्1;श्3. इवाद्रयः ॥

4.26.8

रेजुर् आत्मशिलातुल्यहेतिपातार्तवृत्तयः न्17: °ता⟨न्⟩[र्]तवृ° ।
कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः ॥

4.26.9

चेरुः परस्पराघातहतहेतिसमुत्थिताः न्17: °र(ं)*स्*परा° ।
लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥

4.26.10

विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।
कल्पतालतनूत्ताला वेतालास् तारतालिनः ॥

4.26.11

प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।
व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः ॥

4.26.12

बभूवुर् भास्कराकारैः कल्पभूरुहबाहुभिः ।
प्रहारदलिताद्रीन्द्रैर् न्17: °आ⟨न्⟩द्रीन्° दैत्यैर् निर्विवरा दिशः ॥

4.26.13

जग्मुर् ज्वलदसिव्रातपातपातितभित्तयः ।
कणप्रकरतां शैलाः कल्पाग्निवलिता इव ॥

4.26.14

देवाः तेजः समाजग्मुर् अश्वमेधैधिता इव ।
असुरान् अनुसस्रुस् ताञ् जलदान् इव वायवः ॥

4.26.15

जगृहुस् तान् अथाक्रम्य जरदाखून् इवोतवः न्17: इव्(औ)*ओ*त° ।
रेजुः सुरासुराः न्17: °सुर्(आ)[आ]ः फुल्लवनलोलाद्रिवद् दिवि ॥

4.26.16

ते ःन्योःन्यम् पूरयाम् आसुः शस्त्रपूरैर् दिशो दश ।
वनानि कुसुमव्रातैः सुमेरोर् इव मारुताः ॥

4.26.17

घोरं समभवद् युद्धं देवदानवसैन्ययोः ।
रोदोरन्ध्रोडुम्बरान्तर् न्17: रो⟨ध्⟩[द्]ओरन्ध्रोड्⟨अ⟩[उ]म्बरा° महामषकसङ्घयोः ॥

4.26.18

अथोदपतद् उल्लासैर् न्17: उ⟨न्न्⟩[ल्ल्]आसैर् मित् श्1; श्3: उत्तालैर्. लोकपालेभमण्डलैः ।
कल्पाभ्रैः पूरिताकारो दारुणः समरारवः ॥

4.26.19

पिण्डग्रहेण नभसि न्17: न(र)*भ*सि भूभाग न्17: भू⟨त्⟩[भ्]आग इव कुट्टिमम् ।
मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥

4.26.20

प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः ।
स्फुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः ॥

4.26.21

प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः ।
द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः न्17: °आदित्य(आनां यः)सङ्घट्⟨ठ्⟩[ट्]अ° ॥

4.26.22

ब्रह्माण्डकुड्यसङ्घट्टात् परावृत्यावनिं न्17: °वृत्⟨त्⟩या° गतः ।
महास्रोतःपयःपूरः सेत्वाहत इवाकरम् ॥

4.26.23

चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः ।
कठिनापूरणोड्डीनस्फुटशैलेन्द्रकन्धरः न्17: °कन्⟨द्⟩[ध्]अरः. व्ग्ल्. स्छ्मिद्त्, नछ्त्र्. सोwइए म्ट् (इव्) 26,48द्. ॥

4.26.24

मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः ।
प्रतिश्रुद्घुङ्घुमास्फोटघटितद्वीपजन्तुभूः न्17: °घट्⟨ट्⟩इत° ॥

4.26.25

सेनयोः क्रुद्धयोर् आसीद् युद्धम् उद्धतदानवम् ।
निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥

4.26.26

महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।
अन्योःन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम् ॥

4.26.27

भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् ।
शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम् ॥

4.26.28

चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् ।
सेनाप्रवाहकल्लोलवलनावलिताम्बरम् ॥

4.26.29

हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् ।
हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम् न्17: °वार्य्(ए)*ओ*घ° ॥

4.26.30

वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् ।
शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डलम् ॥

4.26.31

दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् न्17: °पत्[त्]अनम् मित् श्1;श्3 ।
नारीहलहलारावरवत्कनकमन्दिरम् ॥

4.26.32

लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः ।
धौतरक्तनभो योधमुक्तनादद्रवद्व्रजम् ॥

4.26.33

लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् ।
पुनः सुरासुरोद्द्योतैर् दृष्टसैन्यकुलाकुलम् ॥

4.26.34

सपक्षपर्वताकारदानवाद्रिगमागमैः ।
वहत्पचपचाशब्दभूरिभाक्करभीषणम् न्17: °भा⟨ङ्(क्)क्*आ*र⟩[भाक्कर]°, मित् म्ट्. श्1;श्3: भाङ्कार° ॥

4.26.35

आयुधाद्रिविभिन्नोग्रदैत्यपर्वतनिर्झरैः ।
रक्तैर् अरुणिताशेषवसुधार्णवपर्वतम् ॥

4.26.36

उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः ।
धृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम् ॥

4.26.37

सुतालोत्तालनाराचराजिरेचितचारणम् ।
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ॥

4.26.38

कल्पाभ्रपटलासारधारादलितपर्वतम् न्17: कल्[प्]आ° मित् श्1;श्3 ।
महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥

4.26.39

कुपिताग्निज्वलज्ज्वालाजालैर् ज्वलितदानवम् ।
एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥

4.26.40

चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् ।
वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥

4.26.41

अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।
मायासूर्यगणोद्द्योतपीतातनुतमःपटम् ॥

4.26.42

मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् न्17: °र्ष(मव)निप° ।
सशीकाराग्निपवनशस्त्रसङ्घट्टकर्षणम् ॥

4.26.43

वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् ।
निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम् ॥

4.26.44

वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् ।
ब्रह्मास्त्रयुद्धविषमं तमस्तेजोःस्त्रशारितम् ॥

4.26.45

अस्त्रोद्गीर्णायुधानेकनीरन्ध्रसकलाम्बरम् ।
शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम् ॥

4.26.46

पताकामृष्टशशकैश् चक्रचीत्कारगर्जितैः ।
मुहूर्तेन रथैर् लङ्घितोदयास्तमयाचलम् ॥

4.26.47

वज्रप्रहाराविरतम्रियमाणमहासुरम् ।
शुक्रामरमहाविद्याजायमानापरासुरम् ॥

4.26.48

शुभग्रहमहाकेतुपालितानाम् इतस् ततः ।
उत्पातमङ्गलौघानां युद्धैर् उद्धतकन्धरम् ॥

4.26.49

साद्रिखोर्वीसमुद्रद्यु जगद् रुधिरवारिभिः ।
फुल्लैककिंशुकवनं कुर्वद् दुर्वारवैरतः ॥

4.26.50

पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् ।
समग्रतरुशाखांसलम्बलोलमहाशवम् ॥

4.26.51

नीयमानैः स्ववाताक्तैः न्17: °आ⟨ं⟩क्तैः पक्षपुष्पलसत्फलैः ।
तालोत्तालैः शरव्रातवनैर् न्17: °व⟨त्⟩[न्]ऐर् व्याप्तनभस्तलम् ॥

4.26.52

पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः ।
नृत्यद्भिः पतिताम्भोदविमानसुरतारकम् ॥

4.26.53

शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् ।
लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम् ॥

4.26.54

अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि ।
पृष्ठशब्दश्रवोन्नादपातालतलवारणम् न्17: पृष्⟨ट्⟩[ठ्]अ° ॥

4.26.55

विनायककराकृष्टदीर्घदानवपर्वतम् ।
एकदिक्तटनिःस्पन्दसिद्धसाध्यमरुद्गणम् ॥

4.26.56

पलायमानगन्धर्वकिन्नरामरचारणम् ।
शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम् ॥

4.26.57

किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् ।
दूयमानसुरानीकम् न्17: °रा*नी*कम् एकान्तोद्विग्नवासवम् ॥

4.26.58

उत्तराशामिलद्वह्निरक्तहेतिवृहत्प्रभम् ।
प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम् न्17: °ओल्⟨ल्⟩ब° ॥

4.26.59

ववुर् अशनिनिपातपिण्डिताङ्गा दलितशिलाशकला दिशाम् मुखेषु ।
प्रलयसमयसूचकाः सुराणाम् उरुतरघर्घरघस्मराः समीराः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc