भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.25

4.25.13

रत्नयन्त्रमयानन्तदैत्यनिर्जितवासवः ।
हिमशीतानलज्वालानिर्मितोद्यानमण्डपः न्17: हिम*शी*⟨ही⟩ता° ॥

4.25.14

सर्वर्तुकुसुमोद्यानजितनन्दनचन्दनः न्17: सर्व⟨त्⟩[र्]तु° ।
मायासर्पहृतव्यालमलयाचलचन्दनः ॥

4.25.15

हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः ।
क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः ॥

4.25.16

अजस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः ।
नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः ॥

4.25.17

निशास्व् अखिलपातालशतचन्द्रनभस्तलः ।
स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः ॥

4.25.18

मायैरावणनागेन्द्रविद्रुतामरवारणः ।
त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥

4.25.19

सर्वसम्पत्तिसुभगः सर्वैश्वर्यसमन्वितः ।
समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः ॥

4.25.20

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।
सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः ॥

4.25.21

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।
बभूव विपुलं सैन्यम् आसुरं सुरनाशनम् ॥

4.25.22

तस्मिन् मायाबले सुप्ते देशान्तरगते तथा ।
तत्सैन्यान्तरम् आजग्मुश् न्17: °ग्मु[श्] छिद्रम् प्राप्य किलामराः ॥

4.25.23

अथ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः ।
रक्षार्थम् मत्तसामन्ताः स्वसेनासु नियोजिताः ॥

4.25.24

तान् अप्य् अन्तरम् आसाद्य जघ्नुर् न्17: ज(ग्मु)*घ्नु*र् गीर्वाणनायकाः ।
व्योमान्तरचराः श्येनाः कलविङ्कान् इवाकुलान् ॥

4.25.25

सेनापतीन् पुनश् चान्यांश् न्17: चा⟨स्⟩[न्]यांश् चकारासुरसत्तमः ।
चपलान् उद्भटारावांस् न्17: उद्भट्⟨अ⟩[आ]रा° तरङ्गान् इव सागरः न्17: °ग⟨व्⟩[र्]अः ॥

4.25.26

देवास् तान् अपि तस्याशु जघ्नुस् तेन स कोपवान् श्1,श्3: स कोपवान्; न्17: सकोपकान् ।
जगामामरनाशाय परिपूर्णस् त्रिविष्टपम् ॥

4.25.27

तत्रास्य मायाभीतास् ते सुरा अन्तर्धिम् आययुः ।
मेरुकाननकुञ्जेषु मृगा गौरीगुरोर् इव ॥

4.25.28

क्रन्दत्क्षुद्रामरगणं श्1,श्3: क्रन्दत्क्षु°; न्17: क्रन्दन् क्षु° वाष्पक्लिन्नसुरीमुखम् न्17: ⟨वा⟩वाष्प° ।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥

4.25.29

विहृत्य कुपितस् तत्र लब्धम् आहृत्य शम्बरः ।
लोकपालपुरीर् दग्ध्वा जगामात्मीयम् आलयम् ॥

4.25.30

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।
देवाः स्वर्गम् परित्यज्य दिक्षु जग्मुर् अदर्शनम् ॥

4.25.31

अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।
क्रियन्ते यत्नतस् तांस् ताञ् जघ्नुर् यत्नपराः सुराः ॥

4.25.32

यावद् उद्वेगम् आपन्नः शम्बरः कोपवान् भृशम् ।
तार्णो ःभि वातम् अनल इव जज्वाल चोच्छ्वसन् ॥

4.25.33

त्रैलोक्यम् अपि चान्विष्य न देवांल् लब्धवान् अथ ।
परेणापि प्रयत्नेन सुकृतानीव दुष्कृती ॥

4.25.34

ससर्ज मायया घोरान् असुरांस् त्रीन् महाबलान् ।
बलरक्षार्थम् उदितान् कालान् मूर्तिम् इवास्थितान् ॥

4.25.35

निर्मिता मायया भीमाः कल्पपादपबाहवः ।
उदगुस् ते महाकायाः पक्षक्षुब्धा इवाद्रयः ॥

4.25.36

दामो व्यालः कटश् चेति नामभिः परिलाञ्छिताः ।
यथाप्राप्तैककर्तारश् चेतनामात्रधर्मिणः ॥

4.25.37

अभावात् कर्मणां ते च प्राक्तनानाम् अवासनाः ।
निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः ॥

4.25.38

कर्मबीजं कलां तन्वीं दधाना न्17: --[दधा]ना मननाभिधाम् ।
अपुष्टां कृत्रिमाम् अन्तर् आदायोदयम् आगताः ॥

4.25.39

पारम्पर्येण ते ह्य् अत्र काकतालीयवद् भटाः ।
प्रकृताम् अनुवर्तन्ते क्रियाम् उज्झितवासनाः ॥

4.25.40

अर्धसुप्ता यथा बालाः स्वाङ्गैर् इङ्गन्ति केवलम् ।
वासनात्माभिमानाभ्यां हीनास् ते तद्वद् एव हि ॥

4.25.41

नाभिपातं न चापातं विदुस् ते न पलायनम् ।
न जीवितं न मरणं न रणं च जयाजयौ ॥

4.25.42

केवलं सैनिकान् अग्रे दृष्ट्वाभिहननोद्यतान् ।
अभिजघ्नुः परान् आजौ प्रहारदलिताद्रयः ॥

4.25.43

शम्बरश् न्17: °र[श्] चिन्तयाम् आस परितुष्टमनाः पुरे ।
विजेष्यते हि मत्सेना मायासुरसुरक्षिता ॥

4.25.44

इष्टानिष्टाभिर् एते हि वासनाभिः समुज्झिताः ।
ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः ॥

4.25.45

यद् एते न पलायन्ते देवैर् अभिहता अपि ।
तद् एषातिबला सेना ममेदानीं व्यवस्थिता ॥

4.25.46

अतिबलासुरदोर्द्रुमपालिता मम चमूः न्17: °मू[ः] स्थिरताम् अलम् एष्यति ।
अमरवारणदन्तविघट्टनेष्व् अमरपर्वतहेममही यथा ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc