मोक्षोपायटीका · अध्याय 4.24
महानरकसम्राजो मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥
स्वाश्रयम् प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥
कलेवरालयम् न्17: क(रे)ले° प्राप्य विषयामिषगर्धतः ।
अक्षगृध्रा न्17: °गृ⟨द्⟩ध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥
विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा ॥
आपातरमणीयेषु रमन्ते विषयेषु ये ।
अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥
विवेकधनवान् अस्मिन् कुकलेवरपत्तने ।
इन्द्रियारिभिर् अन्तःस्थैर् अवशो नाभिभूयते ॥
न तथा सुखिता भूयो मृण्मयोग्रपुरीजुषः ।
यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ॥
स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ।
वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः ॥
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य न्17: °मि⟨ण्⟩[न्]य इव हेमन्ते न्17: °म[न्]ते क्षीयन्ते भोगवासनाः ॥
तावन् निशीव वेताल्यो वल्गन्ति हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद् न्17: °भ्या[सा]द् यावन् न विजितम् मनः ॥
भृत्यो ःभिमतकर्तृत्वान् मन्त्री सत्कार्यकारणात् ।
सामन्तः स्वेन्द्रियाक्रान्तेर् मनो मन्ये विवेकिनः ॥
लालनात् स्निग्धललना पालनात् पावनः पिता ।
सुहृद् उत्तमविश्वासान् मनो न्17: °विश्वासा⟨त्⟩[न्] मनो मन्ये मनीषिणाम् ॥
स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् ।
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानम् मनःपिता ॥
सुघृष्टः सुपरामृष्टः सुधृतः स्वनुबोधितः ।
सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः ॥
जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ।
दिशत्य् एष मनोमन्त्री कर्माणि शुभकर्मणः ॥
एवम् मनोमणिं राम बहुपङ्ककलङ्कितम् ।
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव ॥
भवभूमिषु भीमासु विवेकविततो ःपि सन् ।
मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ॥
संसारमायाम् उदिताम् अनर्थशतसङ्कुलाम् ।
मा महामोहमिहिकाम् इमां त्वम् अवधीरय ॥
विवेकम् परम् आश्रित्य बुद्ध्या सत्यम् अवेक्ष्य च ।
इन्द्रियारीन् न्17: इन्द्र्[इ]या° अलं जित्वा तीर्णो भव भवा[र्णवात्] न्17: एर्ग्äन्zत् नछ् श्1,श्3. ब्ल्. 50 (ओरिगिनल्zäह्लुन्ग्) fएह्ल्त्. ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0