मोक्षोपायटीका · अध्याय 4.23
स उत्तमपदालम्बी चक्रभ्रमवद् आस्थितः ।
शरीरनगरे राज्यं कुर्वन्न् अपि न लिप्यते ॥
तस्येयम् भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा न्17: त[ज्]ज्ञ° ।
सुखायैव न दुःखाय स्वशरीरमहापुरी ॥
नगरीत्वं शरीरस्य कथं नाम महामुने ।
एतां चाधिवसन् न्17: °व*स*न् योगी कथं राज्यसुखैकभाक् ॥
रम्येयं देहनगरी राम सर्वगुणान्विता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥
नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा न्17: °नो(द्द्य)द्द्योत° ।
करप्रतोलीविस्तारप्राप्तपादोपजङ्गला न्17: °विस्त्*आ*रप्राप्त्⟨आ⟩अपाद° ॥
रोमराजिलतागुल्मा न्17: °(ला)*रा*जि° त्वगट्टालकमालिता न्17: अ⟨टू⟩[ट्टा]ल° ।
गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला ॥
रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता ।
चर्ममर्मसिरासारसन्धिसीमा मनोरमा ॥
ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा न्17: ⟨रू⟩[ऊ]रु° ।
कचत्कचावलीकाचदलप्रच्छादनावृता ॥
भ्रूललाटास्यसच्छायवदनोद्यानशोभिता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला ॥
वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका न्17: °(कु)कुच° ।
घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया श्1,श्3: °छन्न°; न्17: °रोमाव*लि*छत्त्र° ॥
उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्ष्यकर्परा न्17: °स्वन्[न्]एष्ट° ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥
हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।
अनारतं नवद्वारप्रवहत्प्राणनागरा ॥
आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला ।
मुखखदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना ॥
रोमशष्पभरच्छन्नकर्णकोटरकूपका ।
स्फिक्शृङ्खलाञ्चितोपान्तपृष्टविस्तीर्णजङ्गला ॥
गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥
धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा ॥
स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी ।
सुखायैव न दुःखाय परमाय हिताय च ॥
अज्ञस्येयम् अनन्तानां न्17: अनन्त्⟨अ⟩[आ]नां दुःखानां कोशमालिका ।
ज्ञस्य त्व् इयम् अनन्तानां सुखानां कोशमालिका ॥
न किञ्चिद् अस्यां नष्टायां ज्ञस्य नष्टम् अरिन्दम ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥
यद् एनां ज्ञः समारुह्य संसारे विहरत्य् अलम् ।
अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥
शब्दरूपरसस्पर्शगन्धबन्धुश्रियो न्17: °बन्ध्⟨ऊ⟩[उ]° यतः ।
अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥
सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् ।
तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा ॥
तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः ।
ज्ञस् तिष्ठति गतव्यग्रं स्वपुर्याम् इव वासवः ॥
न क्षिपत्य् अवटाटोपे मनोमत्ततुरङ्गमम् ।
न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीम् प्रयच्छति ॥
अज्ञानपरराष्ट्रं च न रन्ध्रं त्व् अस्य पश्यति ।
संसारारिभयस्यान्तर्मूलान्य् एष निकृन्तति ॥
तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे ।
न निमज्जन्ति पर्यस्तसुखदुःखाक्षदेवने ॥
करोत्य् अविरतं स्नानम् बहिर् अन्तर् अपि क्षणात् ।
सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात् ॥
सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्य् अन्तःपुरान्तरे ॥
सुखावहैषा नगरी नित्यम् प्रमुदितात्मनः ।
भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती ॥
स्थितया संस्थितं सर्वं किञ्चिन् नष्टं न नष्टया ।
यया पुर्या महीपस्य सा कथं न सुखावहा ॥
विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन ।
आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा ॥
विद्यमानं घटं वायुः किल स्पृशति नास्थितम् ।
यथा तथैव देही स्वां शरीरनगरीम् इमाम् ॥
अत्रस्थ एष भगवान् आत्मा सर्वगतो ःपि सन् ।
स्वविकल्पकृताम् भुक्त्वा पुंस्ताम् अधिगतात्मदृक् ॥
कुर्वन्न् अपि न कुर्वाणः सम्यक् सर्वक्रियोन्मुखः ।
कदाचित् प्रकृतान् सर्वान् कार्यार्थान् अधितिष्ठति ॥
कदाचिल् लीलयालोलं विमानम् अधिरोहति ।
अनाहतगतिं कान्तं विहर्तुम् अमलम् मनः ॥
तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।
रमते नाम यो मैत्र्या नित्यं हृदयसंस्थया ॥
द्वे कान्ते तिष्ठतस् तस्य पार्श्वयोः सत्यतैकते ।
इन्दोर् इव विशाखे द्वे समाह्लादितचेतसी ॥
ज्ञ इमान् अखिलांल् लोकान् दुःखक्रकचदारितान् ।
वाल्मीकान् इव न्17: इव्⟨इ⟩[अ] पीठस्थः पृष्ठाद् अर्क इवेक्षते ॥
चिरम् पूरितसर्वाशः सर्वसम्पत्तिसुन्दरः ।
अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥
सेव्यमानो ःपि भोगौघो न खेदायास्य जायते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते न्17: *भोगौघो → राजते* ॥
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञायाश्वासितो श्1,श्3: °श्वासितो; न्17: °स्वामितो मैत्रीम् एति चौरो न शत्रुताम् ॥
नरनारीनटौघानां कलहे दूरगामिना ।
ज्ञेन यात्रेव सुभगा भोगश्रीर् अवलोक्यते ॥
अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यते तद्वद् एवाज्ञैर् व्यवहारमयी क्रिया ॥
अयत्नोपनतेष्व् अक्षि दिग्द्रव्येषु यथा पुरः ।
नीरागम् एव पतति तद्वत् कार्येषु धीरधीः ॥
इन्द्रियाणां न हरति प्राप्तम् अर्थं कदाचन ।
न ददाति तथा प्राप्तं सम्पूर्णो ज्ञो ःवतिष्ठते न्17: °त्(इ)*ए* ॥
अप्राप्तचिन्ताः न्17: °चिन्ता[ः] सम्प्राप्तसमुपेक्षाश् च सन्मतिम् ।
नाकल्पयन्ति तरला पिञ्छघाता इवाचलम् ॥
संशान्तसर्वसन्देहो गलिताखिलकौतुकः ।
सङ्क्षीणकल्पनाजालो ज्ञः संराड् इव शोभते ॥
आत्मन्य् एव न मात्य् अन्तः स्वात्मनात्मनि जृम्भते ।
सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान् ॥
भोगेच्छाकृपणाञ् जन्तून् दीनान् दीनेन्द्रियाणि च ।
अनुन्मत्तमनाः शान्तो हसत्य् उन्मत्तकान् इव ॥
इच्छतो ःन्यनिजां जायां यथैवान्येन हस्यते ।
इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते ॥
त्यजन्तं स्वसुखं साम्यम् मनो विषयविद्रुतम् ।
अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥
भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते ।
साप्य् आदाव् न्17: सा⟨म्⟩[प्]य् आ° एव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥
ताडितस्य न्17: °डि⟨-⟩[त]° हि यः पश्चात् सम्मानः सो ःप्य् न्17: सो ⟨ह्य्⟩ [ःप्य्] अनन्तकः ।
शालेर् ग्रीष्मोपतप्तस्य कुसेको ःप्य् अमृतायते ॥
अनार्तेन हि सम्मानो बहुमानो न बुध्यते ।
पूर्णानां न्17: पू[र्]णा° सरिताम् प्रावृट्पूरः स्वल्पं विराजते ॥
पूर्णस् तूपकृतो ःप्य् अन्यत् पुनर् अप्य् अभिवाञ्छति ।
जगत्पूरणयाप्य् अम्बु गृह्णात्य् एकार्णवो ःखिलम् ॥
मनसो निगृहीतस्य या पश्चाद् भागमण्डना ।
ताम् एवालब्धविस्तारलब्धत्वाद् बहु मन्यते ॥
बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।
परैर् अबद्धो नाक्रान्तो राज्येनापि न तुष्यति ॥
हस्तं हस्तेन सम्पीड्य दन्तैर् दन्तान् न्17: °न्ता⟨र्⟩[न्] विचूर्ण्य च ।
अङ्गान्य् अङ्गैर् इवाक्रम्य जय स्वेन्द्रियशात्रवान् ॥
जेतुम् अन्यं कृतोत्साहैः पुरुषैर् उद्बुभूषुभिः न्17: °भूष्(इ)उ° ।
पूर्वं हृदयशत्रुत्वाज् ज्ञातव्यानीन्द्रियाण्य् अलम् ॥
एतावति धरणितले सुभगास् श्1,श्3: सुभगास्; न्17: सु-- ते साधुचेतनाः पुरुषाः ।
पुरुषकथासु च गण्या श्1,श्3: गण्या; न्17: -- न जिता ये न चेतसा स्वेन ॥
हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः ।
यस्योपशान्तिम् आगत उदितं तम् अरिन्दमं श्1,श्3: अरिन्दमं; न्17: अरिन्-- वन्दे ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0