भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.22

4.22.1

जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।
मननं त्यजतो ज्ञत्वात् किञ्चित् परिगतात्मनः ॥

4.22.2

दृश्यं सन्त्यजतो हेयम् उपादेयम् उपेयुषः ।
द्रष्टारम् पश्यतो दृश्यम् अद्रष्टारम् अपश्यतः ॥

4.22.3

असुप्तस्य परे तत्त्वे जागरूकस्य जीवतः ।
सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥

4.22.4

पर्यन्तात्यन्तवैरस्याद् अरसेषु रसेष्व् अपि ।
भोगेष्व् आभोगरम्येषु नीरसस्य न्17: नीर[स]स्य निराशिषः ॥

4.22.5

व्रजत्य् आत्माम्भसैकत्वं जीर्णजाड्ये मनस्य् अलम् ।
गलत्य् अपगतासङ्गे हिमपूर इवातपे ॥

4.22.6

तरङ्गितासु कल्लोलजाललोलान्तरासु च ।
शाम्यन्तीष्व् अथ तृष्णासु नदीष्व् इव घनात्यये ॥

4.22.7

संसारवासनाजाले खगजाल इवाखुना ।
त्रोटिते चादृढग्रन्थिश्लेषे वैरस्यरंहसा ॥

4.22.8

कतकम् फलम् आसाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥

4.22.9

नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद् विहगः पञ्जराद् इव ॥

4.22.10

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुर् इव राजते ॥

4.22.11

जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता ।
समतोदेति सर्वत्र शान्तवात इवार्णवे ॥

4.22.12

अन्धकारमयी मूढा जाड्यजर्जरितान्तरा ।
तनुताम् एति संसारवासनेव प्रगे क्षपा ॥

4.22.13

दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।
विकसत्य् अमलोद्द्योता प्रातर् द्यौर् इव रूपिणी ॥

4.22.14

प्रज्ञा न्17: प्रज्[ञ्]आ हृदयहारिण्यो भुवनाह्लादनक्षमाः ।
सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोर् इवांशवः ॥

4.22.15

बहुनात्र किम् उक्तेन ज्ञातज्ञेयो महामतिः ।
नोदेति नैव यात्य् अस्तम् अभूताकाशकोशवत् ॥

4.22.16

विचारणापरिज्ञातस्वभावस्योदितात्मनः ।
अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥

4.22.17

प्रकटाकारम् अप्य् अन्तर् निरहङ्कारचेतसम् ।
नाप्नुवन्ति विकल्पास् तम् मृगतृष्णाम्ब्व् इवैणकाः न्17: °आम्ब्[व्] इवै° ॥

4.22.18

तरङ्गवद् अमी लोकाः प्रयान्त्य् आयान्ति चाभितः ।
क्रोडीकुरुत आत्मोत्थे न ज्ञम् मरणजन्मनी ॥

4.22.19

आविर्भावतिरोभावौ संसारो नेतरः क्रमः ।
इति ताभ्यां समालोके रमते न स खिद्यते ॥

4.22.20

न जायते न म्रियते कुम्भे कुम्भनभो यथा ।
भूषिते दूषिते वापि देहे तद्वद् इहात्मवान् ॥

4.22.21

विवेक उदिते शीते मिथ्याभ्रमभरोदिता ।
क्षीयते वासना साभ्रे मृगतृष्णा मराव् इव ॥

4.22.22

को ःहं कथम् इदं वेति यावन् न प्रविचारितम् ।
संसाराडम्बरं तावद् अन्धकारोपमं स्थितम् ॥

4.22.23

मिथ्याभ्रमभरोद्भूतं शरीरम् पदम् आपदाम् ।
आत्मभावनया नेदं यः पश्यति स पश्यति ॥

4.22.24

देशकालवशोत्थानि न ममेति गतभ्रमम् ।
शरीरसुखदुःखानि यः पश्यति स पश्यति ॥

4.22.25

आत्मानम् इतरच् न्17: °र⟨श्⟩[च्] चैव दृशा नित्याविभिन्नया ।
सर्वं चिज्ज्योतिर् एवेति यः पश्यति स पश्यति ॥

4.22.26

अपारपर्यन्तनभोदिक्कालादि क्रियान्वितम् ।
अहम् एवेति सर्वत्र यः पश्यति स पश्यति ॥

4.22.27

वालाग्रलक्षभागात् तु कोटिशः परिकल्पितः ।
अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥

4.22.28

सर्वशक्तिर् अनन्तात्मा सर्वभावान्तरस्थितः ।
अद्वितीयश् चिद् इत्य् अन्तर् यः पश्यति स पश्यति ॥

4.22.29

आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।
देहो नाहम् इति प्राज्ञो यः पश्यति स पश्यति ॥

4.22.30

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा मम ।
न द्वितीयो ममास्तीति यः पश्यति स पश्यति ॥

4.22.31

मयि सर्वम् इदम् प्रोतं सूत्रे मणिगणा इव ।
चित्तन्तुर् अहम् एवेति यः पश्यति स पश्यति ॥

4.22.32

नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् ।
इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति ॥

4.22.33

यन् नाम किञ्चित् त्रैलोक्यं स एको ःवयवो मम ।
तरङ्गो ःब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति ॥

4.22.34

शोच्या पाल्या मयैवेयं स्वसेयम् मे कनीयसी ।
त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति ॥

4.22.35

आत्मतापरते त्वत्तामत्ते न्17: °⟨स्⟩[म्]अत्ते यस्य महात्मनः ।
भावाद् उपरते नूनं स पश्यति सुलोचनः ॥

4.22.36

चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।
आपूरितजगज्जालं यः पश्यति स पश्यति ॥

4.22.37

सुखं दुःखम् भवो ःभावो विवेककलनाश् च याः ।
अहं न वेति नूनं वा पश्यन् न परिहीयते ॥

4.22.38

स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते ।
किम् मे हेयं किम् आदेयम् इति पश्यन् सदृग् न्17: °दृ⟨क्⟩[ग्] नरः ॥

4.22.39

अप्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् ।
हेयोपादेयकलना यस्य क्षीणा नमामि तम् ॥

4.22.40

य आकाशवद् एकात्मा सर्वभावगतो न्17: °भा⟨गव⟩[वग]तो ःपि सन् ।
न भावरञ्जनाम् एति स महात्मा महेश्वरः ॥

4.22.41

तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।
यः सोम्यः सुसमः स्वस्थस् तं नौमि पदम् आगतम् ॥

4.22.42

यस्योदयास्तमयसङ्कलनाकलासु चित्रासु चारुविभवासु जगद्गतासु ।
वृत्तिः समैव सकलैकगतेर् अनन्ता तस्मै नमः परमबोधवते शिवाय ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc