मोक्षोपायटीका · अध्याय 4.21
भगवन् सर्वधर्मज्ञ संशयो मे महान् अयम् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥
दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।
म्लाना संविन् मनोनाम्नी कुतः केयम् उपस्थिता ॥
यस्माद् अन्यन् न नामास्ति न भूतं न भविष्यति ।
कुतः कीदृक् कथं तस्य कलङ्कः कुत्र विद्यते ॥
साधु राम त्वया प्रोक्तं ज्ञाता ते मोक्षभागिनी ।
मतिर् उत्तमनिःष्यन्दा नन्दनस्येव मञ्जरी ॥
पूर्वापरविचारार्थतत्परेयम् मतिस् तव ।
सम्प्राप्स्यति श्1,श्3: सम्प्राप्स्यति; न्17: सम्प्राश्यति पदम् प्रोच्चैर् यत् प्राप्तं शङ्करादिभिः ॥
प्रश्नस्यास्य तु हे न्17: (त्)*ह्*ए राम न कालस् तव सम्प्रति ।
सिद्धान्तः कथ्यते यत्र तत्रायम् प्रश्न उच्यते ॥
सिद्धान्तकाले भवता प्रष्टव्यो ःहम् इदम् पदम् ।
करामलकवत् तेन न्17: °व⟨र्⟩[त्] तेन सिद्धान्तस् ते भविष्यति ॥
सिद्धान्तकाले प्रश्नोक्तिर् एषा तव विराजते ।
प्रावृष्य् एव हि केकोक्तिर् युक्ता शरदि हंसगीः ॥
सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।
प्रावृषि तु दनूदग्रपयोदपटलोत्थितः न्17: पाद च्) उम्मेत्रिस्छ्; पाद द्): °लो⟨स्⟩[त्]थितः ॥
अयम् प्रकृत आरब्धो मनोनिर्णय उत्तमः ।
यद्वशाज् जनताजन्म तद् आकर्णय सुव्रत ॥
एवम् प्रकृतिर् एवेयम् मनोमननधर्मिणी ।
कर्मेति राम निर्णीतं सर्वैर् एव मुमुक्षुभिः ॥
शृणु लक्षणभेदेन तन् नानामततां कथम् ।
वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥
यं यम् भावम् उपादत्ते मनो मननचञ्चलम् ।
तं तम् एति घनामोदमध्यस्थः पवनो यथा ॥
ततस् तम् एव निर्णीय तम् एव च विकल्पयन् ।
अन्तस् तया रञ्जनया रञ्जयन् न्17: °जय⟨ं⟩[न्] स्वाम् अहङ्कृतिम् ॥
तन्निश्चयम् उपादाय तत्रैव रसम् ऋच्छति ।
तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्व् अपि ॥
यन्मयं हि मनो राम देहस् तदनु तद्वशात् ।
तत्ताम् आयाति गन्धान्तः श्1,श्3: गन्धान्तः; न्17: गच्छन्तः पवनो गन्धताम् इव ॥
बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस् ततः ।
स्फुरति स्वत एवोर्वीरजो लोल इवानिले ॥
कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिम् प्रथयत्य् अलम् ।
कर्म निष्पद्यते स्फारम् पांसुजालम् इवानिलात् ॥
एवं हि मनसः कर्म कर्मबीजम् मनः स्मृतम् ।
अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥
यादृशम् भावम् आदत्ते दृढाभ्यासवशान् मनः ।
तथा स्पन्दो ःस्य कर्माख्यस् तथा शाखा विमुञ्चति ॥
तथा क्रियां तत्फलदां निष्पादयति चादरात् ।
ततस् तद् एव चास्वादम् अनुभूयाशु बध्यते ॥
यं यम् भावम् उपादत्ते तत् तद् वस्त्व् इति विन्दति ।
तच् छ्रेयो ःन्यत् तु नास्तीति निश्चयो ःस्य प्रजायते ॥
धर्मार्थकाममोक्षार्थम् प्रयतन्ते सदैव हि ।
मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि ॥
मनोभिः कापिलानां तु प्रतिपत्तिं निजाम् अलम् ।
उररीकृत्य न्17: उ⟨त्त्⟩[र्]अरी° निर्णीय कल्पिताः शास्त्रदृष्टयः ॥
मोक्षे तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिम् प्रविवृण्वन्तः न्17: °न्त्(आ)अः स्थिताः स्वनियमभ्रमैः ॥
वेदान्तवादिनो बुद्ध्या ब्रह्मेदम् इति दृढया ।
युक्तिं शमदमोपेतां व्ग्ल्. ब्रह्मसूत्र इइइ 4,27: शमदमाद्युपेतः स्यात् ... निर्णीय परिकल्प्य च ॥
मुक्तौ तु नान्यथा प्राप्तिर् इति भावितचेतसः ।
स्वां दृष्टिम् प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥
विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया ।
स्वां दृष्टिम् प्रविवृण्वन्ति स्वैर् एव नियमभ्रमैः ॥
आर्हतादिभिर् न्17: (अ)*आ*र्हता° अन्यैश् च स्वयाभिमतयेच्छया ।
चित्राश् चित्रसमाचाराः कल्पिताः शास्त्रदृष्टयः ॥
निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैर् इवोत्थितैः ।
स्वनिश्चयैर् इति प्रौढा नानाकारा हि रीतयः ॥
सर्वासाम् एव चैतासां रीतीनाम् एक आकरः ।
मनो नाम महाबाहो मणीनाम् इव सागरः ॥
न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।
यद् यथा मनसाभ्यस्तम् उपलब्धं तथैव तत् ॥
यस् त्व् अकृत्रिम आनन्दस् तदर्थम् प्रयतेत न वै ।
मनस् तन्मयतां नेयं तेनासौ समवाप्यते ॥
दृश्यं संसारडिम्बस्थं तुच्छम् परिजहन् मनः ।
तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते ॥
अपवित्रम् असद्रूपम् मोहनम् भयकारणम् न्17: भ⟨व्⟩[य्]अ° ।
दृश्यम् आभासम् आभोगि बन्धम् मा भावयानघ न्17: °व(न)या° ॥
मायैषा न्17: म्(अ)[आ]यै° सा ह्य् अविद्यैषा भावनैषा भयावहा ।
संविदस् तन्मयत्वं यत् तत् कर्मेति विदुर् बुधाः ॥
द्रष्टुर् दृश्यैकतानत्वं विद्धि त्वम् मोहनम् मनः ।
भ्रमायैव च तन् मिथ्या महीमक्कोलकर्मवत् ॥
दृश्यतन्मयता यैषा स्वभावस्यानुभूयते ।
संसारमदिरा सेयम् अविद्येत्य् उच्यते बुधैः दृश्य्(ए)अत्(इ)अ*न्मयता → बुधैः* ॥
अनयोपहतो लोकः कल्याणं नाधिगच्छति ।
भास्वरं तपनालोकम् पटलान्धेक्षणो यथा ॥
स्वयम् उत्पद्यते सा च सङ्कल्पाद् व्योमवृक्षवत् ।
असङ्कल्पनमात्रेण स्वयम् एव विनश्यति ॥
असङ्कल्पनमात्रेण भावनायाम् महामते ।
क्षीणायां स्वप्रसादेन विमर्शेन विलासिना न्17: °सिन्(इ)*आ* ॥
असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते ।
सत्यदृष्टौ प्रसन्नायाम् असत्ये क्षयम् आगते ॥
निर्विकल्पचिद् अच्छात्मा स आत्मा समवाप्यते ।
नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता ॥
केवलं केवलीभावो यस्यान्तर् उपलभ्यते ।
अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ॥
आत्मनो ःनन्यभूताभिर् अपि यः परिवर्जितः ।
वासनाभिर् अनन्ताभिर् व्योमेव वनराजिभिः श्1,श्3,न्17: घन°; म्ट्: वन° ॥
सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वद् एव हि ।
चिदाकाशात्मना बन्धस् त्व् अबद्धेनैव कल्पितः ॥
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया ।
तद् एवान्यत्वम् आदत्ते खम् अहोरात्रयोर् इव ॥
यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
तत् तत्कल्पनया तादृक् तत् सुखायैव कल्पते ॥
शून्य एव कुसूले ःन्तः सिंहो ःस्तीति भयं यथा ।
शून्य एव शरीरे ःन्तर् बद्धो ःस्मीति भयं तथा ॥
यथा शून्ये कुसूले ःन्तः प्रेक्ष्य सिंहो न लभ्यते ।
तथा संसारबन्धार्हः प्रेक्षितः सन् न लभ्यते ॥
इदं जगद् अयं चाहम् इतीयम् भ्रान्तिर् उत्थिता ।
बालानां श्यामले न्17: ⟨ध्⟩[श्]याम° काले छाया वैतालिकी यथा ॥
कल्पनावशतो जन्तोर् भावाभावाः श्1,श्3: भावा°; न्17: भाभा° शुभाशुभाः ।
क्षणाद् असत्ताम् आयान्ति सत्ताम् अपि पुनः पुनः ॥
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ।
करोति गृहिणीकार्यं न्17: °णी(भा)का° सुरतानन्ददायिनी ॥
कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी ।
दूरं विस्मारयत्य् एव मन्मथोन्मादभावनाम् ॥
भावानुसारिफलदम् पदार्थौघम् अवेक्ष्य च ।
न ज्ञेनेह पदार्थेषु रूपम् एकम् उदीर्यते ॥
दृढभावनया चेतो यद् यथा भावयत्य् अलम् ।
तत् तत्फलं तदाकारं तावत्कालम् प्रपश्यति ॥
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा ।
यद् यथा येन निर्णीतं तत् तथा तेन लक्ष्यते ॥
भाविताकाशमातङ्गं व्योमहस्तितया मनः ।
व्योमकाननमातङ्गीं व्योमस्थाम् अनुधावति ॥
तस्मात् सङ्कल्पम् एव त्वं सर्वभावमयात्मकम् ।
त्यज राघव सुस्वस्थः स्वात्मनैव भवात्मनि ॥
मणिर् हि प्रतिबिम्बानाम् प्रतिषेधक्रियाम् प्रति ।
अशक्तो जडभावेन न तु राम भवादृशः ॥
यद् यन् मनोमणौ राम तवेह प्रतिबिम्बति ।
तद् अवस्त्व् इति निर्णीय मा तेनागच्छ रञ्जनाम् ॥
तद् एव सत्यम् इति वाप्य् अभिन्नम् परमात्मनः ।
मन्वानस् त्वम् अनाद्यन्तम् भावयात्मानम् आत्मना ॥
चेतसि प्रतिबिम्बन्ति ये भावास् तव राघव ।
रञ्जयन्त्व् अन्यसक्तात्मन् मा ते त्वां स्फटिकं यथा ॥
स्फटिकम् अपमलं यथा विशन्ति प्रकटतया नवरञ्जना विचित्राः ।
इह हि विमननं तथा विशन्तु प्रकटतया भुवणैषणा भवन्तम् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0