भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.20

4.20.1

एतत् ते कथितं सर्वम् मनोरूपनिरूपणे ।
मया राघव नान्येन केनचिन् नाम हेतुना ॥

4.20.2

दृढनिश्चयवच् चेतो यद् भावयति भूरिशः ।
तत्तां यात्य् अनलाश्लेषाद् अयःपिण्डो ःग्निताम् इव ॥

4.20.3

भावाभावग्रहोत्सर्गदृशश् चित्तेन कल्पिताः ।
नासत्या नापि सत्यास् न्17: स(स्त्य)त्यास् ता मनश्चापलकारणाः ॥

4.20.4

मनो हि हेतुः कर्तृ स्यात् कारणं च जगत्स्थितेः ।
विश्वरूपतयैवेदं तनोति मलिनम् मनः ॥

4.20.5

मनो हि पुरुषो राम तन् नियोज्यं शुभे पथि ।
तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥

4.20.6

शरीरं चेत् शरीरं स्यात् कथं शुक्रो महामतिः ।
अगमद् विविधम् भेदम् बहुदेहसमुद्भवम् ॥

4.20.7

तस्माच् चित्तं हि पुरुषः श्1,श्3: हि पुरुषः; न्17: पुरुषो हि (उन्मेत्रिस्छ्) पुरुषश् चित्तम् एव हि ।
यन्मयं च भवत्य् एतत् तद् अवाप्नोत्य् असंशयम् ॥

4.20.8

यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
यत्नात् तदनुसन्धानं कुरु तत्तां च यास्यसि ॥

4.20.9

अभिपतति मनःस्थितिं न्17: ⟨सि⟩[म]नः° शरीरं न तु वपुराचरितम् मनः प्रयाति ।
अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्व् असत्यम् अन्यत् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc