मोक्षोपायटीका · अध्याय 4.19
जीवबीजम् परम् ब्रह्म सर्वत्र खम् इव स्थितम् ।
तेन जीवोदरजगत्य् अपि जीवो ःस्त्य् अनेकधा न्17: °(दा)*धा* ॥
चिद्घनैकघनात्मत्वाज् जीवान्तर् जीवजातयः ।
कदलीदलवत् सन्ति कीटा इव नरोदरे ॥
यो यो राम यथा ग्रीष्मे कल्कस्वेदाद् भवेत् क्रिमिः ।
तत्तन्नाम तथा चित्त्वात् खं जीवीभवति स्वतः ॥
यथा यथा यतन्ते ते जीवकाः स्वात्मसिद्धये ।
तथा तथा भवन्त्य् आशु विचित्रोपासनक्रमैः ॥
देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि ।
ब्रह्म ब्रह्मयजो यान्ति यद् अतुच्छं तद् आश्रयेत् ॥
स शुक्रो भृगुपुत्रो हि निर्मलत्वात् स्वसंविदः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥
अभिजातापरिम्लाना बाला यत् प्रथमम् पुरः ।
संवित् प्राप्नोति तद्रूपा भवत्य् अन्या न काचन ॥
जाग्रत्स्वप्नदशाभेदम् भगवन् वक्तुम् अर्हसि ।
कथं च जाग्रज् जाग्रत् स्यात् स्वप्नो ःजाग्रत् कथम् भवेत् ॥
स्थिरप्रत्यययुक्तं यत् तज् जाग्रद् इति कथ्यते ।
अस्थिरप्रत्ययं न्17: °र(ं)प्र° यत् स्यात् स स्वप्नः समुदाहृतः ॥
जाग्रच् न्17: °ग्र⟨श्⟩[च्] चेत् क्षणदृष्टः न्17: °ष्ट⟨ं⟩[ः] स्यात् स्वप्नः कालान्तरस्थितः ।
तज् जाग्रत् स्वप्नताम् एति स्वप्नो जाग्रत्त्वम् ऋच्छति ॥
जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना ।
समः सदैव सर्वत्र समस्तानुभवो ःनयोः ॥
यद् एव स्थिरताम् एति तज् जाग्रद् इति कथ्यते ।
क्षणभङ्गात्मकः स्वप्नो यथा भवति तच् छृणु ॥
जीवधातुः शरीरे ःन्तर् विद्यते येन जीव्यते ।
तेजो वीर्यं जीवधातुर् इत्याद्यभिधम् अङ्ग तत् ॥
व्यवहारी यदा कायो मनसा कर्मणा गिरा ।
भवेत् तदा स सम्पन्नो जीवधातुः प्रसर्पति ॥
तस्मिन् प्रसर्पत्य् अङ्गेषु स्पर्शात् संविद् उदेति हि ।
पुष्टत्वात् सैति चित्ताख्याम् अन्तर्लीनजगद्भ्रमा ॥
सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् ।
नानाकारविकाराढ्यं न्17: °रा*ढ्य्*(आ)अं रूपम् आत्मनि पश्यति ॥
तत् स्थिरत्वात् तयैवाथ जाग्रद् इत्य् अवगम्यते ।
जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु ॥
मनसा कर्मणा वाचा यदा क्षुभ्यति न्17: क्षुभ्⟨इ⟩[य]ति नो वपुः ।
शान्त आतिष्ठति स्वच्छो जीवधातुस् तदा त्व् असौ ॥
समताम् आगतैर् न्17: °तै⟨ः⟩[र्] वातैः क्षोभ्यते न्17: क्ष्(ए)*ओ*भ्° न हृदन्तरे ।
निर्वातसदने दीपो न्17: °प्(ए)*ओ* यथालोकैककारकः ॥
ततः सरति नाङ्गेषु संवित् क्षुभ्यति तेन नो ।
न चेक्षणादीन्य् आयाति रन्ध्राण्य् आयाति नो बहिः ॥
जीवे ःन्तर् एव स्फुरति तैलसंविद् यथा तिले ।
शीतसंविद् धिम इव स्नेहसंविद् यथा घृते ॥
जीवः कालकलां काञ्चित् तिष्ठन् न्17: °ष्ठ⟨ं⟩[न्] शान्ततयात्मनि ।
दशाम् आयाति सौषुप्तीं सौम्यवातां विचेतनाम् ॥
ज्ञात्वा चेतस्य् उपरते शाम्यन् व्यवहरन्न् अपि ।
जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस् तुर्यवान् स्मृतः ॥
सौषुप्तात् सोम्यतां यातैः प्राणैः सञ्चाल्यते यदा ।
स जीवधातुस् सा संवित् ततश् चित्ततयोदिता ॥
स्वान्तःसंस्थं जगज्जालम् भागभागैः क्रमभ्रमैः ।
पश्यति स्वान्तर् एवाशु स्फारम् बीजम् इव द्रुमम् ॥
जीवधातुर् यदा वातैः किञ्चित् सङ्क्षोभ्यते भृशम् ।
तदोह्यते ःम्बर इव पश्यत्य् आत्मनि खे गतिम् ॥
यदाम्भसा प्लाव्यते ःसौ तदा वार्यादिसम्भ्रमम् ।
अन्तर् एवानुभवति स्वामोदं कुसुमं यथा ॥
यदा पित्तादिनाक्रान्तस् तदाग्न्यौष्ण्यादिसम्भ्रमम् ।
अन्तर् एवानुभवति स्फारम् बहिर् इवाखिलम् ॥
रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर् यदा ।
पश्यत्य् अनुभवात्मत्वात् तत्रैव च निमज्जति ॥
सेवते वासनां यां तां सो ःन्तः पश्यति निद्रितः ।
पवनक्षोभितै रन्ध्रैर् बहिर् अक्षादिभिर् यथा ॥
अनाक्रन्तेन्द्रियच्छिद्रो यद् अक्षुब्धो ःन्तर् एव सः ।
संविदानुभवत्य् आशु स स्वप्न इति कथ्यते ॥
समाक्रन्तेन्द्रियच्छिद्रो यत् क्षुब्धो बाह्यसंविदा ।
परिपश्यति तज् जाग्रद् इत्य् आहुर् मतिमत्तमाः ॥
इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यतास्था ।
असति जगति नैव भावनीया मृतिहृतिसंसृतिदोषभावनीया ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0