मोक्षोपायटीका · अध्याय 4.1
प्रत्यक्ज्योतिः किम् अपि परमम् भावयित्वाथ देवं ध्यात्वा चित्ते भवभयहरं श्रीगणेशं विभुं च ।
मौलौ कृत्वा गुरुचरणयोर् धूलिपुञ्जं च टीका स्थित्याख्ये ःस्मिन् प्रकरणवरे तन्यते भास्करेण ॥
अथोत्पत्तिप्रकरणाद् अनन्तरम् इदं शृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥
एवं तावद् इदं विद्धि दृश्यं जगद् इति स्थितम् ।
अहं चेत्याद्य् अनाकारम् भ्रान्तिमात्रम् असन्मयम् ॥
अकर्तृकम् अनङ्गं च गगने चित्रम् न्17, श्6: चित्तम् उत्थितम् ।
अद्रष्टृकं श्6: अद्रष्टृकं; न्17: अद्रष्ट्य° सानुभवम् अनिद्रं स्वप्नदर्शनम् ॥
भविष्यत्पुरनिर्माणं चित्रसंस्थम् इवोदितम् ।
मर्कटानलतापाभम् श्6: °तापाभम्; न्17: °तामाभम् अम्ब्वावर्तवद् श्6: °आवर्तवद्; न्17: °आवर्तावद् आस्थितम् ॥
सद्रूपम् अपि न्17: °पम् (इ)अ(ष्)पि निःशून्यं तेजः सौरम् इवाम्बरे ।
रत्नाभाजालम् इव खे दृश्यमानम् अभित्तिमत् ॥
सङ्कल्पपुरवत् प्रौढम् अनुभूतम् असन्मयम् ।
कथार्थप्रतिभानात्म न्17: °भानात्म; श्6: °भाता° न क्वचित् स्थितम् अस्ति च ॥
निःसारम् अप्य् न्17: अप्(इ)य् अतीवान्तःसारं स्वप्नाचलोपमम् ।
भूताकाशम् इवाकारभासुरं शून्यमात्रकम् न्17; श्6: शूर° ॥
शरदभ्रम् इवाग्रस्थम् अलक्ष्यक्षयम् आक्षयि ।
वर्णो व्योमतलस्येव दृश्यमानम् अवस्तुकम् ॥
स्वप्नाङ्गनारताकारम् अर्थनिष्ठम् अनर्थकम् ।
चित्रोद्यानम् इवोत्फुल्लम् न्17: °फुल्लम्; श्6: °फुलम् अरसं सरसाकृति न्17, श्6: °आकृतिः ॥
प्रकाशम् इव निस्तेजश् चित्रार्कानलवत् स्थितम् ।
अनुभूतम् मनोराज्यम् इवासत्यम् अवास्तवम् ॥
चित्रपद्माकर न्17: °द्मा(त)*क*र. सिल्बे °र अल्स् °आरदा-zएइछेन्. इव सारसौगन्ध्यवर्जितम् ।
शून्ये प्रकचितं नानावर्णम् आकारितात्मकम् ॥
परमार्थेन शुष्यद्भिर् भूतपेलवपल्लवैः न्17: भूतपेलव°; श्6: भूतले लव° ।
ततं जडम् असारात्म श्6: जडसमाराम; न्17: जजुम् असारा° कदलीस्तम्भभासुरम् श्6: °स्तम्भ°; न्17: °स्तम्भा*भा*सु° ॥
स्फारितेक्षणदृश्यान्धकारचक्रकवत् ततम् श्6: °वत् ततम्; न्17: °वर्त्तितं ।
अत्यन्तम् अभवद्रूपम् अपि प्रत्यक्षवत् स्थितम् ॥
वार् बुद्बुद इवाभोगि शून्यम् अन्तः स्फुरद्वपुः ।
रसात्मकं सत्यरसम् अविच्छिन्नक्षयोदयम् ॥
नीहार इव विस्तारि गृहीतं सन् न किञ्चन ।
जडं शून्यास्पदं शून्यं केषाञ्चित् परमाणुवत् ॥
किञ्चिद् भूतमयो ःस्तीति स्थितं शून्यम् अभूतकम् ।
गृह्यमाणम् असद्रूपं निशातम इवोत्थितम् ॥
महाकल्पक्षये दृश्यम् आस्ते श्1, श्3: दृश्यम् आस्ते; श्6: दृश्यम् आप्ते; न्17: दृष्ट्(इ)यम् आप्ते बीज इवाङ्कुरम् न्17, श्1, श्3, श्6: अङ्कुरम् (नेउत्र्.) ।
परे भूय उदेत्य् एतत् तत एवेति किं वद ॥
एवम्बोधाः किम् अज्ञाः न्17: अज्ञाः; श्6: अज्ञा स्युर् उत तज्ज्ञा इति स्फुटम् ।
यथावद् भगवन् ब्रूहि सर्वसंशयशान्तये ॥
इदम् बीजे ःङ्कुर इव दृश्यम् आस्ते महाक्षये ।
ब्रूते न्17: ब्रूते; श्6: भूते यः परम् अज्ञत्वम् श्6: अज्ञत्वम्; न्17: अ(ज्)अत्वम् एतत् तस्यातिशैशवात् ॥
स्पर्शे किं तद् असम्बद्धं कथम् एतद् अवास्तवम् ।
विपरीतो न्17: °परीतो; श्6: °परेतो बोध एष वक्तुः श्रोतुश् च मौर्ख्यकृत् ॥
बीजकाले ःङ्कुर इव जगद् आस्ते न्17, श्3 अ.च्., श्6: आस्ते इतीह या ।
बुद्धिः सासत्प्रलापार्था न्17: °प्रला*पा*र्था मूढा शृणु कथं किल ॥
बीजम् भवेत् स्वयं दृश्यं चित्तादीन्द्रियगोचरः न्17: °ईन्*द्र्*इय° ।
वटधानादि धान्यादि युक्तम् अत्राङ्कुरोद्भवः ॥
मनःषष्ठेन्द्रियातीतं यः न्17: य(ः)*त्*; श्1: यः; श्3: यह्; श्6: यद् खाद् अतितराम् अपि ।
बीजं तद् भवितुं शक्तं स्वयम्भूर् जगतः न्17: जगतः; श्6: जन° कथम् ॥
आकाशाद् अपि सूक्ष्मस्य न्17: °क्ष्म*स्य* परस्य परमात्मनः ।
सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम् ॥
सत् सूक्ष्मम् असदाभासम् असद् एव ह्य् अतद्दृशाम् ।
कीदृशी बीजता तत्र बीजाभावे कुतो ःङ्कुरः ॥
गगनाङ्गाद् अपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥
नकिञ्चिद् यत् कथं किञ्चित् तत्रास्ते वस्त्व् अवस्तुनि ।
अस्ति चेत् तत् कथं तत्र विद्यमानं न दृश्यते ॥
नकिञ्चिदात्मनः किञ्चित् कथम् एति कुतो ःथ वा ।
शून्यरूपाद् घटाकाशाज् जातो ःद्रिः क्व कुतः कदा न्17: *क*दा ॥
प्रतिपक्षे कथं किञ्चिद् आस्ते छायातपे यथा ।
कथम् आस्ते तमो भानौ कथम् आस्ते हिमे न्17: *हि*मे ःनलः ॥
मेरुर् आस्ते कथम् अणौ कुतः किञ्चिद् अनाकृतौ ।
तदतद्रूपयोर् ऐक्यं क्व च्छायातपयोर् इव ॥
साकारे वटधानादाव् अङ्कुरो ःस्तीति युक्तिमत् ।
अनाकारे महाकारं जगद् अस्तीत्य् अयुक्तिमत् ॥
देशान्तरे यच् च नरान्तरे च बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् ।
नास्त्य् एव तत्तद्विधबुद्धिबोधे नकिञ्चिद् इत्य् एव तद् उच्यते च ॥
कार्यस्य तत् कारणताम् प्रयातम् वक्तीति यस् तस्य विमूढबोधः ।
कैर् नाम तत्कार्यम् उदेति तस्मात् स्वैः कारणौघैः सहकारिरूपैः ॥
दुर्बुद्धिभिः कारणकार्यभावं सङ्कल्पितं दूरतरे व्युदस्य ।
यद् एव तत् सत्यम् अनादिमध्यं जगत् तद् एव स्थितम् इत्य् अवेहि ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0