मोक्षोपायटीका · अध्याय 4.18
सर्वसंसृतिषण्डेषु बीजरूपकलात्मनः ।
तन्मात्रप्रतिभासस्य प्रतिभासे न भिन्नता ॥
प्रवृत्तिर् वा निवृत्तिर् वा तन्मात्रापत्तिपूर्वकम् ।
सर्वस्य जीवजातस्य सुषुप्तत्वाद् अनन्तरम् ॥
प्रवृत्तिभाजो न्17: °त्ति(व)भा° ये जीवास् ते तन्मात्रपदं गताः ।
तन्मात्रैकतया न्17: °क(प)त° सर्गान् मिथः पश्यन्ति कल्पितान् ॥
तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।
परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥
केचित् पृथक् स्थितिम् इताः पृथग् एव लयं गताः ।
केचिन् मिथः सम्मिलिता जगत्षण्डाः स्थिताः कृताः ॥
जगत्षण्डसहस्राणि यत्रासङ्ख्यान्य् अणाव् अणौ ।
अपरस्परलग्नानि काननम् ब्रह्म नाम तत् ॥
मिथः स मेलनं न्17: स⟨ं⟩ मेलनं नैति घनतां समुपागतः ।
यद् यद् यत्र यथा रूढं तत् तत् पश्यति नेतरत् ॥
वर्तमानमनोराज्यवशाज् जीवपरम्पराः ।
परस्परं सम्मिलिताः सर्गाणां रूढिभावनाः ॥
देहसत्ता भृशं रूढा देहाभावस् तु विस्मृतः न्17: °त्(आ)अः ।
देहत्वपरिरूढत्वाच् चिद्व्योम्ना विस्मृतात्मना ॥
यथा शुद्धप्राणमरुत् परप्राणाभिवेधनात् ।
वेत्ति वेध्यमनोराज्यं तथा सर्गान् नराश्रयी ॥
सर्वेषां जीवराशीनाम् आत्मावस्थात्रयं न्17: °शीना[म् आ]त्मा° श्रितः ।
जग्रत्स्वप्नसुषुप्ताख्यम् न्17: °स्⟨व⟩[उ]षु° अत्र देहो न कारणम् ॥
एवम् आत्मनि जीवत्वम् अन्यावस्थात्रयात्मनि ।
तापाम्भसीव वीचित्वम् अस्मिन् कचति देहता ॥
चित्कलापदम् आसाद्य सुषुप्तान्तपदे स्थितम् ।
बुद्धो निवर्तते न्17: °र्तत्⟨ओ⟩[ए] जीवो मूढः सर्गे प्रवर्तते ॥
स्वभावशुद्धिर् हि यदा तदा मैत्री प्रवर्तते ।
द्वयोर् एकत्वरूपैव सुसौहार्दनिदर्शना ॥
अज्ञः सुषुप्तात् सम्बुद्धो जीवः कश्चित् स्वसर्गभाक् ।
सर्वगत्वाच् न्17: °त्वा⟨श्⟩[च्] चितः कश्चित् परसर्गेण नीयते न्17: °य[ते] ॥
सर्गे सर्गे पृथग्रूपं न्17: पृथ्(इ)अग्° सन्ति सर्गान्तराण्य् अपि ।
तेष्व् अप्य् अन्तःस्थसर्गौघाः कदलीदलपीठवत् ॥
सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् ।
स्वभावशीतलो ब्रह्मकदलीदलमण्डपः ॥
कदल्याम् अन्यता नास्ति यथा पत्त्रशतेष्व् अपि ।
ब्रह्मतत्त्वे ःन्यता नास्ति तथा सर्गशतेष्व् अपि ॥
बीजात् फलं रसाद् भूत्वा यथा बीजम् पुनर् भवेत् ।
तथा ब्रह्म मनो भूत्वा बोधाद् ब्रह्म पुनर् भवेत् ॥
रसकारणकम् बीजम् फलभावेन जृम्भते ।
ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ॥
रसस्य कारणं किं स्याद् इति वक्तुं न युज्यते ।
स्वभावो निर्विशेषत्वात् परं वक्तुं न युज्यते ॥
न चासत्ता सर्वमये वक्तुं क्वचन शक्यते ।
नाकारणे कारणादि परे वास्त्य् आदिकारणे ॥
बीजं जहन् निजवपुः फलीभूतं विलोक्यते न्17: फल्(अं बीजं च संस्थितं) *ईभूतं विलोक्यते* ⟨बीजस्याकृतिमत् सर्वं तेनानाकृति तत्पदम्⟩ ।
ब्रह्माजहन् निजवपुः फलम् बीजं च संस्थितम् ॥
बीजस्याकृतिमत् सर्वं तेनानाकृति तत्पदम् ।
न युज्यते समीकर्तुं तस्मान् नास्त्य् उपमा शिवे ॥
खम् एव जायते खाभान् न च तज् जायते ःन्यदृक् ।
अतो न जातं वा जातं विद्धि ब्रह्मनभो जगत् ॥
दृश्यम् पश्यन् स्वम् आत्मानं न द्रष्टा सम्प्रपश्यति ।
प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥
मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता ।
विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका ॥
आकाशविशदो द्रष्टा सर्वगो ःपि न पश्यति ।
नेत्रं निजम् इवात्मानं दृशीभूतम् अहो भ्रमः ॥
आकाशविशदम् ब्रह्म यत्नेनापि न लभ्यते ।
दृश्ये दृश्यतयादृष्टे त्व् अस्य लाभः सुदूरतः ॥
त्वादृक्स्थूलो ःवधानेन विना यत्र न दृश्यते ।
तत्रातिदूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥
द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् ।
दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ॥
द्रष्टैव सम्भवत्य् एको न तु दृश्यम् इहास्ति हि ।
द्रष्टा सर्वात्मको दृश्यं स्थितश् चेत् केव दृश्यता ॥
सर्वशक्तिमता राज्ञा यत् यत् सम्पाद्यते यथा ।
तत् तत् तथा भवत्य् आशु स एवोदेति तत्तया ॥
यथा मधुरसोल्लासः षण्डो भवति भासुरः ।
रसताम् अजहच् न्17: °ह⟨श्⟩[च्] चैव फलपुष्पदलोन्नतः ॥
चिदुल्लासस् तथा जीवो भूत्वा भवति देहकः ।
चिन्मात्रतां ताम् अजहद् एव दर्शनदृङ्मयः न्17: °दृ⟨ं⟩[ङ्]म° ॥
नानाषण्डसहस्रौघैर् अद्वितीयैर् निजात्मनः ।
यथोदेति रसो भौमश् चित् तथोदेत्य् अहम्भ्रमैः ॥
चिद्रसोल्लासवृक्षाणां कचताम् आत्मनात्मनि ।
दृश्यशाखाशताढ्यानाम् इह नान्तो ःवगम्यते ॥
षण्डः प्रत्येकम् एवान्तर् यथा रसचमत्कृतिम् ।
स्वादयत्य् एवम् एषा चित् पृथक् पश्यति संसृतीः ॥
या योदेति न्17: योद्⟨ऐ⟩[ए]° यथा यस्या जीवशक्तेः स्वसंसृतिः ।
ताम् तां तथैति सा स्वान्तश् न्17: सा ⟨म्⟩[स्]वा° चिद् भूतभुवनस्थितिम् ॥
जीवसंसृतयः °य्(आ)अः काश्चित् प्रमिलन्ति परस्परम् ।
स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ॥
सूक्ष्मया परया दृष्ट्या स्वम् पश्यस्य् अनया तथा ।
जगज्जालसहस्राणि परमाण्वन्तरेष्व् अपि ॥
भित्तौ नभसि पाषाणे ज्वालायाम् अनिले जले ।
सन्ति संसारलक्ष्याणि तिले तैलम् इवाखिले ॥
शुद्धम् एति यदा चेतस् तदा न्17: तदा⟨स् तदा⟩ जीवो भवेच् चितिः ।
शुद्धा च सा सर्वगता तेन सम्मेलनम् मिथः ॥
सर्वेषाम् पद्मजादीनां स्वसत्ताभ्रमपूरकः ।
जगद्दीर्घमहास्वप्नः स्वयम् अन्तः समुत्थितः ॥
स्वप्नात् स्वप्नान्तरं यान्ति काश्चिद् भूतपरम्पराः ।
तेनोपलम्भः कुड्यादाव् आसां दृढतरः स्थितः ॥
यद् यत्र चिद् भावयति तत् तत्राशु भवत्य् अलम् ।
तया स्वप्ने ःपि यद् दृष्टं तत्काले सत्यम् एव तत् ॥
चिदणोर् अन्तरे सन्ति समस्तानुभवाणवः ।
यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः ॥
परमाणुं जगद् अन्तर् उन्मेत्रिस्छ्. श्1: जग*न्*त्य् अन्तर्; श्3: जगन्त्य् अन्तर् धत्ते चित्परमाणुकः ।
लीनम् आकाशम् आकाशे द्वैतैक्यभ्रमम् उत्सृज ॥
देशकालक्रियाद्याख्यैः स्वैर् एवाणुभिर् एव चित् ।
अणून् अनुभवत्य् अन्तर् इतराणोर् असम्भवात् ॥
स्वयं सर्वस्य कचितः स्वच्छश् चिदणुषण्डकः ।
ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥
कचितं किञ्चिद् एवेह वस्तुतस् तु न किञ्चन ।
स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः ॥
स्वयम् प्रकचति स्फारदेहश् चिदणुषण्डकः ।
नेत्रादिकुसुमद्वारैः संविदामोदम् उद्गिरन् ॥
सम्पश्यतीतरान् कश्चिद् बहीरूपेण चिद्घनान् ।
सर्वगत्वाद् अनाशत्वाद् दृश्यबीजस्य वै चितेः ॥
अन्तर् एवाखिलं कश्चित् पश्यत्य् अविकलं जगत् ।
तत्रातिकालं कलनाद् उन्मज्जति निमज्जति न्17: °ति (निमज्जति) ॥
स्वप्नात् स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः ।
मिथ्यावटेषु लुठितः शिलेव शिखरच्युता ॥
केचित् सम्मीलिताः केचिद् आत्मन्य् एव भ्रमे स्थिताः ।
मग्नाः स्वसंविद्रसतः स्फुरन्तो श्1,श्3: स्फुरन्तो; न्17: स्फुरतो देहिषण्डकाः ॥
स्वयम् अन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् ।
तैः कैश्चित् तत् तथा दृश्यम् असत्स्वप्नवद् आश्रितम् ॥
सर्वात्मत्वात् स्वभावस्य तद् दृश्यं सत्यम् आत्मनि ।
सर्वगो विद्यते यत्र तत्र सर्वम् उदेति हि ॥
जीवान्तः प्रतिभासस्य सर्गस्य पुनर् अन्तरे ।
जीवषण्ड उदेत्य् उच्चैस् तस्यान्तर् इतरो ःपि च ॥
जीवान्तर् जायते जीवस् तस्यान्तर् अपि जीवकः ।
सर्वत्र रम्भादलवज् जीवबीजम् प्रजीवति ॥
दृश्यबुद्धिपरावृद्धि समम् एतद् अनन्तकम् ।
हेम्नीव कटकादित्वम् परिज्ञप्त्यैव नश्यति ॥
विचारो यस्य नोदेति को ःहं किम् इदम् इत्य् अलम् ।
तस्याद्यन्ताविमुक्तो ःसौ न्17: °आद्य⟨त्⟩[न्]ताविमुक्तो ⟨म्⟩[ःस्]औ दीर्घो जीवज्वरभ्रमः ॥
विचारः फलितस् तस्य विज्ञेयो यस्य सन्मतेः ।
दिनानुदिनम् आयाति तानवम् भोगगृध्नुता ॥
यथा देहोपयुक्तं हि करोत्य् आरोग्यम् औषधम् ।
तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत् ॥
विवेको ःस्ति वचस्य् एव चित्रे ःग्निर् इव भास्वरः ।
यस्य तेन परित्यक्ता दुःखायैव विवेकिता ॥
यथा स्पर्शेन पवनः सत्ताम् आयाति नो गिरा ।
तथेच्छातानवेनैव विवेको ःस्येति बुध्यते ॥
चित्रामृतं नामृतम् एव विद्धि चित्रानलं नानलम् एव विद्धि ।
चित्रे ःङ्गना नूनम् अनङ्गनैव वाचा विवेकस् त्व् अविवेक एव ॥
पूर्वं विवेकेन तनुत्वम् एति रागो ःथ वैरं च समूलम् एव ।
पश्चात् परिक्षीयत एव यत्र स पावनस् तत्र विवेकितास्ति ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0