भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.17

4.17.1

भगवन् भृगुपुत्रस्य प्रतिभा सानुभूतितः ।
यथास्य सफला जाता तथान्यस्य न किम् भवेत् ॥

4.17.2

इदम्प्रथमम् उत्पन्ना सा तदा ब्रह्मणः पदात् ।
शुद्धा मतिर् भार्गवस्य नान्यजन्मकलङ्किता ॥

4.17.3

सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः ।
तत् सत्त्वम् उच्यते सैषा विमला चिद् उदाहृता ॥

4.17.4

मनो निर्मलसत्त्वात्म यद् भावयति यादृशम् ।
तत् तथाशु भवत्य् एव यथावर्तो ःर्णवे ःम्भसः ॥

4.17.5

यथा भृगुसुतस्यैष विभ्रमः प्रोदितः स्वयम् ।
प्रत्येकम् अप्य् एवम् एव दृष्टान्तो ःत्र भृगोः सुतः ॥

4.17.6

बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा ।
सर्वेषाम् भूतसङ्घानाम् भ्रमषण्डस् तथैव हि ॥

4.17.7

यद् इदं दृश्यते विश्वम् एवम् एवाखिलं हि तत् ।
प्रत्येकम् उदितम् मिथ्या मिथ्यैवास्तम् उपैति च ॥

4.17.8

नास्तम् एति न चोदेति जगत् किञ्चन कस्यचित् ।
भ्रान्तिमात्रम् इदम् माया मुधैव परिजृम्भते ॥

4.17.9

यथास्मत्प्रतिभासस्थः सो ःयं संसारषण्डकः ।
तथा तेषां सहस्राणि मिथो ःदृष्टानि सन्ति हि ॥

4.17.10

स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् ।
पृथग् यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥

4.17.11

एवं नगरवृन्दानि नभःसङ्कल्परूपिणाम् न्17: °भ(स)*ः*सङ्° ।
सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना ॥

4.17.12

पिशाचयक्षरक्षांसि सन्त्य् एवंरूपकाणि हि ।
सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥

4.17.13

एवम् एव वयं न्17: वय्⟨ओ⟩[अं] चेमे सम्पन्ना रघुनन्दन ।
स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः न्17: मिथ्[य्]आ° ॥

4.17.14

एवंरूपैव हि परे वर्तते सर्गसंसृतिः ।
न वास्तवी वस्तुतस् तु संस्थितेयम् न्17: °स्थित्⟨ऐव्⟩[एय्]अम् अवस्तुनि ॥

4.17.15

प्रत्येकम् उदितं विश्वम् एवम् एव मुधैव हि ।
नवगुल्मकरूपेण वासन्तिकरसो न्17: व्*आ*स° यथा ॥

4.17.16

प्रथमो ःयं स्वसङ्कल्पः सुप्रथाम् आगतस् तथा ।
यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते ॥

4.17.17

प्रत्येकम् उदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदम् न्17: ⟨द्र⟩[इ]दं इत्थंसमारम्भं जगत् पश्यद् विनश्यति ॥

4.17.18

प्रतिभासवशाद् अस्ति नास्ति वस्त्ववलोकनात् ।
दीर्घः स्वप्नो जगज्जालम् आलानं चित्तदन्तिनः ॥

4.17.19

चित्तसत्तैव हि जगज् जगत्सत्तैव चित्तकम् ।
एकाभावे द्वयोर् नाशस् तच् च सत्यविचारणात् ॥

4.17.20

शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना ॥

4.17.21

अन्येनानाहृतस्यान्यो गुणो ःवश्यं विवर्धते ।
अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥

4.17.22

सुवर्णो न स्थितिं याति मलवत्य् अंशुके यथा ।
एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥

4.17.23

प्रमार्जनाद् इव मणेस् न्17: मणे[स्] ताम्रस्येव च युक्तितः ।
चिरम् एकदृढाभ्यासाच् छुद्धिर् भवति चेतसः ॥

4.17.24

प्रतिभासात्मनि जगत्य् एते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥

4.17.25

यादृग् जगद् न्17: ज्(ईव्)*अग्*अद् इदं दृष्टं शुक्रेण पितृमातृतः ।
तादृक् तस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥

4.17.26

स्वभावकोशात् स्वदितं तद् अनेन क्रमोदितम् ।
बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा ॥

4.17.27

जीवो यद्वासनासारस् तद् एवान्तः प्रपश्यति ।
स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस् त्व् इदं जगत् ॥

4.17.28

प्रत्येकम् उदितो राम ननु संसारषण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत् न्17: °न*र*स्व° स्वात्मनि स्फुटः ॥

4.17.29

एष न्17: एष्(आ)अ संसृतिषण्डौघो मिथः सम्मिलति स्वयम् ।
नो वापि यदि तन् मे त्वं यथावद् वक्तुम् अर्हसि ॥

4.17.30

मलिनं हि मनो ःवीर्यं न मिथः श्लेषम् अर्हति ।
अयो ःयसीवासन्तप्ते शुद्धे तप्ते तु लीयते ॥

4.17.31

चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् ।
एकरूपाणि तोयानि यान्त्य् ऐक्यं नाबिलानि हि ॥

4.17.32

शुद्धिर् हि चित्तस्य विवासनत्वम् अभूतसंवेदनरूपम् एकम् ।
तस्याः सुषुप्तात्मपदात् प्रबुध्य तन्मात्रयुक्त्या परसङ्गम् एति ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc