मोक्षोपायटीका · अध्याय 4.16
अथाक्षिप्य वचस् तस्य तनयस्य तदा भृगोः ।
उवाच भगवान् कालो वचो गम्भीरनिःस्वनम् ॥
समङ्गातापसीम् न्17: °त्*आ*प° एतां तनुं सन्त्यज भार्गव ।
प्रविशेमां तनुं साधो नगरीम् इव पार्थिवः ॥
काले पूर्वजया तन्वा तपः कृत्वानया पुनः ।
गुरुत्वम् असुरेन्द्राणां कर्तव्यम् भवतानघ ॥
महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥
जीवन्मुक्तपदम् प्राप्तस् तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस् तिष्ठ महामते ॥
कल्याणम् अस्तु वां यामो वयं त्व् अभिमतां दिशम् ।
न किञ्चिद् अपि तच् चित्तं यस्य नाभिमतम् भवेत् ॥
इत्य् उक्त्वा मुञ्चतोः न्17: °तो[ः] पुष्पं तयोः सो ःन्तरधीयत ।
तप्तांशुर् इव रोदस्योः समम् अंशुभिर् अंशुमान् ॥
गते तस्मिन् भगवति ताम् उक्त्वा भवितव्यताम् ।
विचार्य भार्गवो ःभेद्यां नियतां नियतेर् गतिम् ॥
कालकारणसंशुष्काम् भाविपुष्पशुभोदयाम् ।
विवेश तां तनुम् बालां सुलताम् इव माधवः ॥
सा ब्राह्मणतनुर् भूमौ विवर्णवद् अनङ्गिका ।
पपात कम्पिता तूर्णम् छिन्नमूला लता यथा ॥
तस्याम् प्रविष्टजीवायाम् पुत्रतन्वाम् महामुनिः ।
चकाराप्यायनम् मन्त्रैः सकमण्डलुवारिभिः न्17: °ण्ड*लु*वा° ॥
सर्वनाड्यः °ड्य(त)स् ततस् तन्व्यास् तस्याः °स्य्*आ*ः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥
नलिनी प्रावृषीवासौ मधाव् इव नवा लता ।
यदा पूर्णा तदा तस्याः प्राणाः न्17: °णा[ः] पल्लविता बभुः ॥
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगाद् आमूलम् इव वारिदः ॥
पुरो ःभिवादयाम् आस पितरम् पावनाकृतिः ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ॥
पिताथ प्राक्तनीं तस्याप्य् आलिलिङ्ग तनुं ततः ।
स्नेहार्द्रवृत्तिर् जलदश् चिराद् गिरितटीम् इव ॥
भृगुर् ददर्श सस्नेहम् प्राक्तनीं तानयीं तनुम् ।
मत्तो जातो ःयम् इत्य् आस्था हरत्य् अपि महामतिम् ॥
मत्पुत्रो ःयम् इति स्नेहो भृगुम् अप्य् अहरत् तदा ।
परतात्मीयता चेयं यावदाकृति भाविनी ॥
बभूवतुः पितापुत्रौ ताव् अथान्योःन्यशोभितौ ।
निशावसानमुदिताव् अर्कपद्माकराव् इव ॥
चिरसङ्गमसम्बद्धाव् इव चक्राह्वदम्पती ।
घनागमघनस्नेहौ मयूरजलदाव् इव ॥
चिरकालदृढोत्कण्ठयोग्यया कथया तया ।
स्थित्वा तत्र मुहूर्तं ताव् अथोत्थाय महामती ॥
समङ्गाद्विजदेहं तम् भस्मसात् तत्र चक्रतुः ।
को हि नाम जगज्जात आचारं नानुतिष्ठति ॥
एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ ।
संस्थितौ तपसा दीप्तौ दिवीव न्17: °व्⟨ए⟩[ई]व शशिभास्करौ ॥
चेरतुर् ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुशमं सुस्थिरं तपः ॥
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुर् अप्य् आत्मनो योग्ये पदे ःतिष्ठद् अनामये ॥
शुक्रो ःसौ प्रथमम् इति क्रमेण जात एतस्मात् परमपदाद् उदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद् एवं च प्रविलुलितो दशान्तरेषु ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0