भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.15

4.15.1

विचारयन्तस् तत्त्वज्ञा इति ते जागतीर् गतीः ।
समङ्गायास् तटात् तस्मात् प्रचेलुश् चञ्चलांशवः ॥

4.15.2

क्रमाद् आकाशम् आक्रम्य निर्गत्याम्बुदकोटरैः ।
सम्प्रापुः सिद्धमार्गेण मन्दरं हेमकन्दरम् ॥

4.15.3

अधित्यकायां तस्याद्रेर् आर्द्रपर्णावगुण्ठिताम् ।
ददर्श भार्गवः शुष्काम् पूर्वजन्मोद्भवां तनुम् ॥

4.15.4

उवाच चेदं हे तात तन्वी तनुर् इयं हि सा ।
या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥

4.15.5

इयं सा मत्तनुर् यस्या मन्दारकुसुमोत्करैः ।
रचिताः शीतलाः शय्या मेरूपवनभूमिषु ॥

4.15.6

इयं सा मत्तनुर् मत्तदेवस्त्रीगणलालिता ।
सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥

4.15.7

नन्दनोद्यानषण्डेषु मम तन्वा ययानया ।
चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥

4.15.8

सुराङ्गनाङ्गसंसङ्गाद् उत्तुङ्गानङ्गरङ्गया श्1,श्3: उत्तुङ्गा°; न्17: उङ्गा° ।
चेतोवृत्त्या रहितया तन्वेह मम शुष्यते ॥

4.15.9

तेषु तेषु विलासेषु तासु तासु दशासु च ।
तथा ता भावना बद्ध्वा कथं स्वस्थो ःसि देहक ॥

4.15.10

हा तनो क्वावभग्नासि तापसंशोषम् आगता ।
करङ्कताम् प्रयातासि माम् भावयसि दुर्भगे ॥

4.15.11

देहेनाहं विलासेषु येनैव मुदितो ःभवम् ।
कङ्कलताम् उपगतात् तस्माद् एव बिभेम्य् अहम् ॥

4.15.12

ताराजालसमाकारो यत्र हारो ःभवत् पुरा ।
ममोरसि निलीयन्ते न्17: °य⟨त्⟩[न्]ते पश्य तत्र पिपीलकाः ॥

4.15.13

द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।
येन मद्वपुषा तेन पश्य कङ्कलतोह्यते ॥

4.15.14

पश्य मे न्17: °श्य्⟨ए⟩[अ] विततास्येन तापसंशुष्ककृत्तिना ।
मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥

4.15.15

पश्यातिसंशुष्कतया शवोदरदरी मम ।
प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥

4.15.16

मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ ।
वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान् ॥

4.15.17

शब्दरूपरसस्पर्शगन्धलोभविमुक्तया ।
निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ ॥

4.15.18

संशान्ते चित्तवेताले याम् आनन्दकलां तनुः ।
याति ताम् अपि राज्येन जागतेन न गच्छति ॥

4.15.19

पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं सुखं शेते कलेवरम् ॥

4.15.20

चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः ।
तथा वेगेन चलति यथा मूलानि कृन्तति ॥

4.15.21

चित्तानर्थविमुक्तो ःसौ गजाभ्रहरिविभ्रमम् ।
नायम् पश्यति मे देहः परानन्द इव स्थितः ॥

4.15.22

सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् ।
अचित्तत्वं न्17: अचि⟨न्⟩[त्]त° विना नान्यच् छ्रेयः पश्यामि जन्तुषु ॥

4.15.23

त एव सुखसम्भोगसीमान्तं समुपागताः ।
महाधियः शान्तधियो ये याता विमनस्कताम् ॥

4.15.24

सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् ।
दिष्ट्या पश्याम्य् अमननां वने तनुम् इमाम् अहम् ॥

4.15.25

भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल ।
सुबहून्य् उपभुक्तानि शरीराणि पुनः पुनः ॥

4.15.26

भृगुणोत्पादिते काये तत् तस्मिंस् तस्य किम् मुने ।
महान् अतिशयो जातः परिदेवनम् एव वा ॥

4.15.27

शुक्रस्य कलना राम यासौ जीवदशां गता ।
कर्मात्मिका समुत्पन्ना भृगोर् न्17: °गो[र्] भार्गवरूपिणी ॥

4.15.28

सा हीदम्प्रथमत्वेन समेत्य परमात् पदात् ।
भूताकाशपदम् प्राप्य वातव्यावलिता सती ॥

4.15.29

प्राणापानप्रवाहेण प्रविश्य हृदयम् भृगोः ।
क्रमेण वीर्यताम् एत्य सम्पन्नौशनसी तनुः ॥

4.15.30

विहितब्राह्मसंस्कारा ततः सा पितुर् अग्रगा ।
कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥

4.15.31

इदम्प्रथमम् न्17: °म⟨ं⟩म् आयाता यदा सा ब्रह्मणस् श्1,श्3: ब्रह्म°; न्17: ब्राह्म° तनुः ।
अतस् ताम् प्रति शुक्रेण तदा तत् परिदेवितम् ॥

4.15.32

वीतरागो ःप्य् अनिच्छो ःपि समङ्गाविप्ररूपवान् ।
स्वां शुशोच तनुं शुक्रः स्वभावो ह्य् एष देहजः ॥

4.15.33

किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् ।
वैराग्यप्रतिपत्त्यै तत् न्17: त[त्] पृथक्त्वं देहदेहिनोः ॥

4.15.34

ज्ञस्याज्ञस्य च देहस्य यावज्जीवम् अयं क्रमः ।
लोकवद् व्यवहारो यत् सक्त्यासक्त्याथ वा सदा ॥

4.15.35

ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।
लोकसंव्यवहारेषु ते स्थिता वनजालवत् ॥

4.15.36

व्यवहारी यथैवाज्ञस् तथैव किल पण्डितः ।
वासनामात्रभेदो ःत्र कारणम् बन्धमोक्षयोः ॥

4.15.37

यावच् छरीरं तावद् धि दुःखे दुःखं सुखे सुखम् ।
असंसक्तधियो धीरा दर्शयन्त्य् अप्रबुद्धवत् ॥

4.15.38

सुखेषु सुखिता श्1,श्3: सुखि°; न्17: सुख° नित्यं दुःखिता दुःखवृत्तिषु ।
महात्मानो हि दृश्यन्ते नूनम् अन्तस् तु शीतलाः ॥

4.15.39

स्तम्भस्य न्17: [स्]तम्भ° प्रतिबिम्बानि क्षुभ्यन्ति न वपुः स्थिरम् ।
ज्ञस्य कर्मेन्द्रियाण्य् एव क्षुभ्यन्ति न मनः स्थिरम् ॥

4.15.40

चलाचलतया तज्ज्ञो न्17: त[ज्]ज्ञो लोकवृत्तिषु तिष्ठति ।
अधःस्थितिर् न्17: अध[ः]° इव स्वच्छम् प्रतिबिम्बेषु श्1: स्वच्छम् प्र°; श्3,न्17: स्वच्छप्र° भास्करः ॥

4.15.41

सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः ।
अत्यक्तमोहलीलो ःपि मुक्त एव प्रबुद्धधीः ॥

4.15.42

मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियो ःपि हि ।
बद्धबुद्धीन्द्रियो न्17: ब्⟨उ⟩[अ]द्धबुद्धी° बद्धो मुक्तकर्मेन्द्रियो ःपि हि ॥

4.15.43

सुखदुःखदृशोर् लोके बन्धमोक्षदृशोस् तथा ।
हेतुर् बुद्धीन्द्रियाण्य् एव तेजांसीव प्रकाशने ॥

4.15.44

बहिर् लोकोचिताचारस् त्व् अन्तर् आचारवर्जितः ।
समो ःसन्न् इव तिष्ठ त्वं संशान्तसकलैषणः ॥

4.15.45

सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।
कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः ॥

4.15.46

आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि ।
ममतोग्रान्धकूपे ःस्मिन् मा पतातपदायिनि ॥

4.15.47

न त्वम् भावेषु नो भावास् त्वयि तामरसेक्षण ।
शुद्धबुद्धस्वभावस् त्वम् आत्मसंस्थः स्थिरो भव ॥

4.15.48

व्यपगतममतामहान्धकारम् पदम् अमलं विगतैषणं समेत्य ।
प्रभवसि यदि चेतसो महात्मंस् तद् अतिधिये महते सते नमस् ते ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc