मोक्षोपायटीका · अध्याय 4.12
सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवाद् अभिन्नास् ते सत्यम् एतन् मृषेतरत् ॥
मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।
न ब्रह्म वयम् इत्य् अन्तर्निश्चयेन ह्य् अधोगताः ॥
ब्रह्मणो व्यतिरिक्तत्वम् ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥
या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः ।
एतत् तत् कर्मणाम् न्17: कर्म⟨जम्⟩[णाम्] बीजम् अथ कर्मैव विद्धि वा ॥
सङ्कल्परूपयैवान्तर् मुने कलनयैतया ।
कर्मजालकरञ्जानाम् बीजमुष्ट्या करालया ॥
इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥
आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥
ता एताः काश्चिद् अत्यच्छा यथा हरिहरादयः ।
काश्चिद् अल्पविमोहस्था यथोरगनरामरा ॥
काश्चिद् अत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिद् अज्ञानसम्मूढाः क्रिमिकीटत्वम् आगताः न्17: °त्⟨अ⟩[आ]ः ॥
काश्चित् तृणवद् उह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनरादयः ॥
तटमात्रं समालोक्य काश्चित् खेदम् उपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥
काश्चिद् अन्तरम् आसाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास् तत्ताम् अशोकाय हरिब्रह्महरादिकाः ॥
अल्पमोहान्विताः काश्चित् तम् एव ब्रह्मवारिधिम् ।
अदृष्टरागरोगौघम् श्1,श्3: अदृष्टरागरोगौ°; न्17: अदृष्टं नागरोगौ° अवलम्ब्य व्यवस्थिताः ॥
काश्चिद् भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः न्17: °ट(कः)*यः* ।
वन्ध्याः प्रकाशतामस्यः न्17: प्र⟨कामत्वम् अस्यः⟩[काशतामस्यः] संस्थिता भूतजातयः ॥
काश्चिद् ऊर्ध्वाद् अधो यान्ति तथाधस्तान् महत् पदम् ।
ऊर्ध्वाद् ऊर्ध्वतरं काश्चिद् अधस्तात् काश्चिद् अप्य् अधः ॥
बहुसुखदुःखकसङ्कटा क्रियेयम् परमपदास्मरणात् समागतेह ।
परमपदावगमात् प्रयाति नाशं विहगपतिस्मरणाद् विषव्यथेव ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0