मोक्षोपायटीका · अध्याय 4.11
अद्योद्दामतरङ्गौघझाङ्काररणितानिले ।
तीरे वरतरङ्गिण्याः तपस् तपति ते सुतः ॥
जटावान् अक्षवलयी न्17: (ए)अक्ष° जितसर्वेन्द्रियभ्रमः ।
तत्र वर्षशतान्य् अष्टौ संस्थितस् तपसि स्थिरे ॥
यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् ।
तत् समुन्मील्य विज्ञाननेत्रम् आशु विलोकय ॥
इत्य् उक्ते जगदीशेन न्17: °गद्⟨ए⟩[ई]शे° कालेन समदृष्टिना ।
मुनिः सञ्चिन्तयाम् आस ज्ञानाक्ष्णा तनयेहितम् ॥
ददर्श च मुहूर्तेन प्रतिभासवशाद् न्17: (प्रति)प्रति° असौ ।
पुत्रोदन्तम् अशेषेण बुद्धिदर्पणबिम्बितम् ॥
पुनर् मन्दरसानुस्थां काले कालाग्रसंस्थिताम् ।
समङ्गायास् तटाद् एत्य विवेश स्वतनुम् भृगुः ॥
विस्मयस्मेरया दृष्ट्या कालम् आलोक्य कान्तया ।
वीतरागम् न्17: व्⟨ए⟩[ई]त° उवाचेदं वीतरागो मुनिर् वचः ॥
भगवन् भूतभव्येश बाला वयम् अनाबिला ।
त्वादृशाम् एव धीर् देव त्रिकालामलदर्शिनी ॥
नानाकारं विकाराढ्या सत्येवासत्यरूपिणी ।
विभ्रमं जनयत्य् एषा धीरस्यापि जगद्गतिः ॥
त्वम् एव देव जानासि त्वदभ्यन्तरवर्ति यत् ।
रूपम् अस्या मनोवृत्तेर् इन्द्रजालविधायकम् ॥
मत्पुत्रस्यास्य भगवन् मृत्युः किल न विद्यते ।
तेनेमम् मृतम् आलोक्य जातः सम्भ्रमवान् न्17: °वान्(न्) अहम् ॥
अक्षीणजीवितम् पुत्रं कालो मे नीतवान् इति ।
नियतेर् वशतो देव त्वच्छापेच्छा ममोदिता ॥
न तु विज्ञातसंसारगतयो वयम् आपदम् ।
सम्पदं वापि गच्छामो हर्षामर्षवशं किल ॥
अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।
कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः ॥
इदं कार्यम् इदं नेति यावज्जीवं जगत्क्रमः ।
यावद् अग्निः स्थिता तावद् औष्ण्यदाहादिदृष्टयः ॥
इदं कार्यम् इदं नेति हेया यस्य जगत्स्थितिः न्17: °ग*त्*स्थि° ।
तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो न्17: °गुरो⟨ः⟩ ॥
केवलं तानयीं चिन्ताम् अनालोक्य यदा वयम् ।
भगवन् भवते क्षुब्धा याताः स्मस् न्17: याता[ः] स्म[स्] तेन वाच्यताम् ॥
त्वयेदानीम् अहं देव स्मारितस् तनयेहितम् ।
समङ्गायास् तटे तेन दृष्टो ःयं तनयो मया ॥
मन्ये जगति भूतानां द्वे शरीरे न न्17: °रे(ण) *न* सर्वग ।
मन एव शरीरं हि येनेदम् भाव्यते न्17: °व्(इ)*य*ते जगत् ॥
सम्यग् उक्तं त्वया ब्रह्मञ् शरीरम् मन एव नः ।
करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा ॥
करोत्य् अकृतम् आकारं कृतं नाशयति क्षणात् ।
सङ्कल्पेन मनो मोहाद् बालो वेतालकं यथा ॥
तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः ।
गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥
स्थूलदृष्टिदृशं न्17: °दृश्⟨य्⟩अं त्व् एताम् अवलम्ब्य महामुने न्17: °मुने⟨ः⟩ ।
पुंसो मनः शरीरं च कायौ द्वाव् श्1,श्3: कायौ द्वाव्; न्17: कायो द्वा इति कथ्यते ॥
मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् ।
न सन् नासद् इव स्फारम् न्17: ⟨अ⟩[इ]व(-)*स्फा*रम् उदितं नेतरन् मुने न्17: मुने⟨ः⟩ ॥
चित्तदेहाङ्गलतया भेदवासनयेद्धया ।
द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता ॥
भेदवासनया बह्व्या पदार्थनिचयम् मनः ।
भिन्नम् पश्यति सर्वत्र घटावटपटादिकम् ॥
कृशो ःतिदुःखी मूढो ःहम् एताश् चान्याश् च भावनाः ।
भावयत् स्वविकल्पोत्था याति संसारताम् मनः ॥
मननं कृत्रिमं रूपम् ममैतन् न पताम्य् अहम् ।
इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥
यथा प्रवितते ःम्बोधौ तते ःनेकतरङ्गिणि ।
सोम्यस्पन्दमयानेककल्लोलावलिशालिनि न्17: °कल्[ल्]ओला° ॥
वार्यात्मनि समे स्वच्छे शुद्धे न्17: शुद्ध्⟨अ⟩[ए], व्ग्ल्. 43ब्. स्वादुनि शीतले ।
अविनाशिनि विस्तीर्णे महामहिमनि न्17: °हिम्(इ)अनि स्फुटे ॥
त्र्यश्रस् तरङ्गः न्17: °रङ्ग[ः] स्वं रूपम् भावयन् स स्वभावतः ।
त्र्यश्रो ःस्मीति विकल्पेन न्17: *वि*कल्पे*न* करोति स्वेन कल्पनाम् ॥
भ्रश्यंश् चैव परिभ्रष्टरूपो ःस्मीति तलातलम् ।
भावयन् भूतलं याति तादृग्भावनया तया ॥
उत्थितं च बलाद् ऊर्ध्वम् उत्थितो ःस्मीति भावितः ।
तैस् तैर् विकल्पैस् तद्भावं विकल्पयति न्17: (विक)विकल्प° साभिधम् ॥
ससूर्यप्रतिबिम्बस् तु प्रकाशो ःस्मीति भावितः ।
सरजःपुञ्जपातस् तु मलिनो ःस्मीति भावितः ॥
सरत्नरश्मिजालस् तु शोभते दीप्तया श्रिया ।
तुषारभरविद्धस् तु शीतलो ःस्मीति विन्दति ॥
सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः ।
बिभेति वत दग्धो ःस्मीत्य् आत्तमीनश् च कम्पते ॥
प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः ।
महान् आरम्भसंरम्भसंयुतो ःस्मीति राजते ॥
विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः ।
खण्डशः परियातो ःस्मीत्य् आत्ताक्रन्द न्17: आ⟨*र्*⟩[त्]ता° इवारवी ॥
न चोर्मयस् ते जलधेर् व्यतिरिक्ताः पयोरसात् ।
न चैकं रूपम् एतेषां किञ्चित् सन्न् अप्य् श्1, न्17: सन्न् अप्य्; श्3: सन् न्*आ*प्य्; न्।एद्: सन् नाप्य् असन्मयम् ॥
न च ते न्यूनदैर्घ्याद्या गुणास् तेषु च तेषु च ।
नोर्मयः संस्थिता अब्धौ न च तत्र श्1,श्3: तत्र; न्17: तव न संस्थिताः ॥
केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः ।
नष्टानष्टाः पुनर् जाता जाताजाताः न्17: जाता⟨ः⟩ जाताः पुनः क्षताः ॥
परस्परपरामर्शान् नानाताम् उपयान्त्य् अलम् ।
एकरूपाम्बुसामान्यमया एव निरामयाः ॥
तथैवास्मिन् प्रवितते सिते शुद्धे निरामये ।
ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि न्17: (कुलकम्) ॥
सर्वशक्ताव् अनाद्यन्ते पृथग्वद् अपृथक्कृताः ।
संस्थिताः शक्तयश् चित्रा विचित्राचारचञ्चलाः ॥
नानाशक्ति हि नानात्वम् एति स्ववपुषि स्थितम् ।
बृंहितम् ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ॥
नानारूपकरूपत्वाद् वैरूप्यशतकारिणी ।
नियतिर् नियताकारा पदार्थम् अधितिष्ठति न्17: *नानारूपक° → °तिष्ठति* ॥
जडा जाड्यम् उपादत्ते चित्त्वम् आयाति चिन्मयी न्17: °मय्⟨ए⟩[ई] ।
वासनारूपिणी शक्तिः स्वस्वरूपस्थितात्मनः ॥
ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।
नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः ॥
नानातां स्वयम् आदत्ते नानाकारविहारतः ।
आत्मैवात्मन्य् आत्मनैव समुद्राम्भ इवाम्भसि ॥
व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।
व्यतिरिक्ता न सर्वेशात् समग्राः कलनास् तथा ॥
स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः ।
यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः ॥
नानाकर्तृतया नानाशक्तिता पुरुषे यथा ।
तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता ॥
विचित्रवर्णता यद्वद् दृश्यते कठिनातपे ।
विचित्रशक्तिता तद्वद् देवेशे सदसन्मयी ॥
विचित्ररूपोदेतीयम् अविचित्रात् स्थितिः शिवात् ।
एकवर्णात् पयोवाहाच् छक्रचापलता यथा ॥
अजडाज् जडतोदेति जाड्यभावनहेतुका ।
ऊर्णनाभाद् यथा तन्तुर् यथा पुंसः सुषुप्तता ॥
अचित्तश् चैतसीं शक्तिं स्वबन्धायेच्छया शिवः ।
तनोति तान्तवं कोशं न्17: ⟨शोकं⟩ [कोशं] कोशकारक्रिमिर् यथा ॥
स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः ।
संसारान् मोक्षम् आयाति स्वालानाद् इव वारणः ॥
यद् एव भावयत्य् आत्मा सततम् भावितः स्वयम् ।
तयैवापूर्यते शक्त्या शीघ्रम् एव महान् अपि ॥
भाविता शक्तिर् आत्मानम् आत्मतां नयति क्षणात् ।
अनन्तम् अपि खम् प्रावृण्मिहिका महती यथा ॥
या शक्तिर् उदिता शीघ्रं याति तन्मयताम् अजः ।
याम् एव तु स्थितिं यातस् तन्मयो भवति द्रुमः न्17: °म्(आ)अः ॥
न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।
बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥
नास्य बन्धो न मोक्सो ःस्ति तन्मयश् चैव लक्ष्यते ।
ग्रस्तं नित्यम् असत्येन न्17: अ⟨नि⟩[स]त्येन मायामयम् अहो जगत् ॥
यदैव चित्तं कलितम् अकलेन न्17: °तं ⟨स्⟩अक° किलात्मना ।
कोशकीटवद् आत्मायम् अनेनावलितस् तदा ॥
अनन्यरूपास् त्व् अन्यत्वविकल्पितशरीरकाः ।
मनःशक्तय एतस्माद् इमा निर्यान्ति कोटिशः ॥
तत्स्थास् तज्जाः पृथग्रूपाः समुद्राद् इव वीचयः ।
तत्स्थास् तज्जाः पृथक्स्थाश् च चन्द्राद् इव मरीचयः न्17: *म*⟨व्⟩[र्]ईच° ॥
अस्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।
चिज्जले वितताभोगे चिन्मात्ररसशालिनि ॥
काश्चित् स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः न्17: °चि⟨त्⟩[द्]व° ।
लहर्यः प्रस्फुरन्त्य् एताः स्वभावोद्भावितात्मिकाः ॥
काश्चिद् यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।
घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश् चपलैषणाः ॥
काश्चित् किन्नरगन्धर्वविद्याधरसुरादिकाः ।
उत्पतन्ति पतन्त्य् उग्रा लहर्यः परिवल्गिताः ॥
काश्चित् किञ्चित्स्थिताकारा न्17: °आ⟨राका⟩[कारा] यथा कमलजादिकाः ।
काश्चिद् उत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥
क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः ।
काश्चित् तस्मिन् महाम्भोधौ स्फुरन्त्य् एतेषु बिन्दुवत् ॥
काश्चिच् चलाननमृगगृध्रवञ्जुलकादयः ।
स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्व् इव ॥
सुदीर्घजीविताः काश्चित् काश्चिद् अत्यल्पजीविताः ।
स्वतुच्छभावनात् न्17: °ना[त्] तुच्छात् काश्चित् तुच्छशरीरिकाः ॥
संसारस्वप्नसंरम्भे काश्चित् स्थैर्येण भाविताः ।
स्वविकल्पहताः काश्चिच् छङ्कन्ते सुस्थिरं जगत् ॥
अल्पाल्पभावनाः काश्चिद् दैन्यदोषवशीकृताः ।
कृशो ःतिदुःखी मूढो ःहम् न्17: °ढो (य)हम् इति दुःखैर् दृढीकृताः ॥
काश्चित् स्थावरतां याताः काश्चिद् देवत्वम् आगताः ।
काश्चित् पुरुषताम् प्राप्ताः काश्चिद् दानवतां गताः ॥
काश्चित् स्थिता जगति कल्पशतान्य् अनल्पाः काश्चिद् व्रजन्ति परमम् पुरुषं सुशुद्धाः न्17: सु(श्रु)शु° ।
ब्रह्मार्णवात् समुदिता लहरीविलोलाश् चित्संविदो हि मननापरनामवत्यः न्17: °वत्य्(आ)अः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0