भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 4.10

4.10.1

अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसम्बोधाद् विरराम समाधितः ॥

4.10.2

नापश्यद् अग्रे तनयं तं नयावनताननम् ।
सीमान्तं गुणसीमायाः न्17: °स्⟨ए⟩[ई]मायाः पुण्यम् मूर्तम् इव स्थितम् ॥

4.10.3

अपश्यत् केवलं कालं कङ्कालम् पुरतो महत् ।
देहयुक्तम् इवाभाग्यं दारिद्र्यम् इव मूर्तिमत् ॥

4.10.4

तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् न्17: °गुहा⟨श्⟩ छायाविश्रान्तद्⟨उ⟩[अ]र्दुरम् ॥

4.10.5

नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् ।
मक्षिकापञ्जरप्रोतकोशकारिक्रिमिव्रजम् ॥

4.10.6

प्राक्तनीम् उपभोगेहाम् इष्टानिष्टफलप्रदाम् न्17: °फ*ल*प्र° ।
धाराधौतान्तया न्17: °आ⟨र्⟩[न्]तया तन्वा हसच् छुष्कास्थिमालया ॥

4.10.7

शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा ।
विडम्बयच् च कर्पूरप्लुतलिङ्गशिरःश्रियम् न्17: °प्ल्⟨अ⟩[उ]त° ॥

4.10.8

ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वद् इवाकृतिम् ॥

4.10.9

मृणालिकापाण्डुरया धारावधुतमांसया ।
नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत् ॥

4.10.10

दीर्घकन्धरया नूनम् उत्तानीकृतवक्त्रया ।
प्रेक्षमाणम् इव प्राणान् उत्क्रान्तान् अम्बरोदरे ॥

4.10.11

जङ्घोरुजानुदोर्दण्डैर् द्विगुणं दीर्घतां गतैः ।
प्रमिमाणम् इवाशान्तं दीर्घाध्वश्रमभीतितः ॥

4.10.12

उदरेणातिनिम्नेन चर्मशेषेण शोषिणा ।
प्रदर्शयद् इवाज्ञस्य हृदयस्यातिशून्यताम् ॥

4.10.13

प्रेक्ष्य तच् छुष्ककङ्कालम् आलानम् इव दन्तिनः ।
पूर्वापरपरामर्शम् अकुर्वन् भृगुर् उत्थितः ॥

4.10.14

आलोकसमकालं हि प्रतिभातं ततो भृगोः ।
चिरम् उत्क्रान्तजीवः किम् मत्पुत्रो ःयम् इति क्षणात् ॥

4.10.15

अचिन्तयत एवास्य भविष्यत्ताबलं ततः ।
कालम् प्रति बभूवाशु कोपः परमदारुणः ॥

4.10.16

अकाल एव मत्पुत्रो नीतः किम् इति कोपितः ।
कालाय शापम् उत्स्रष्टुम् भगवान् उपचक्रमे ॥

4.10.17

अथाकलितरूपो ःसौ कालः कवलितप्रजः ।
आधिभौतिकम् आस्थाय वपुर् मुनिम् उपाययौ ॥

4.10.18

खड्गपाशधरः श्रीमान् कुण्डली कवचान्वितः ।
षड्भुजः षण्मुखो श्1, श्3: षड्भुजः षण्मुखो; न्17: षण्मुखो षट्भुजः बह्व्या वृतः किङ्करसेनया ॥

4.10.19

यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥

4.10.20

यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैर् अग्निमण्डलैः ।
विरेजुर् उदितैर् आशाः कानकैर् इव कुण्डलैः ॥

4.10.21

यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः ।
दोलाम् इव समारूढाश् चेलुः पेतुश् च घूर्णिताः ॥

4.10.22

यत्खड्गमण्डलोद्द्योतश्यामम् बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलम् श्1, श्3: °पर्याकुलम्; न्17: °प(-)*यी*कुलम् इवाबभौ ॥

4.10.23

स उपेत्य महाबाहुः कुपितं तम् महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वम् उवाच ह ॥

4.10.24

विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किम् उ हेतुम् विनोत्तमाः ॥

4.10.25

त्वम् अनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया ॥

4.10.26

मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः ।
यो न दग्धो ःस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥

4.10.27

संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि केन शाप्ता वयम् श्1,श्3: वयम्; न्17: वरम् मुने ॥

4.10.28

भोक्तारो हि वयम् ब्रह्मन् भोजनं युष्मदादयः ।
स्वयं नियतिर् एषा हि नावयोर् एतद् ईहितम् ॥

4.10.29

स्वयम् ऊर्ध्वम् प्रयात्य् अग्निः स्वयं यान्ति पयांस्य् अधः ।
भोक्तारम् भोजनं याति सृष्टिश् चाप्य् अन्तकं स्वयम् ॥

4.10.30

इदम् इत्थम् मुने रूपम् अस्येह परमात्मनः न्17: °प⟨न⟩[र]मा° ।
स्वात्मनि स्वयम् एवात्मा स्वत एव विजृम्भते ॥

4.10.31

नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश् चेह कर्तारो दृष्ट्यानष्टकलङ्कया ॥

4.10.32

कर्तृताकर्तृते ब्रह्मन् केवलम् परिकल्पिते ।
असम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः ॥

4.10.33

पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च ।
स्वयम् आयान्ति यान्तीह कल्प्यते हेतुता विधेः ॥

4.10.34

अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।
न सत्ये नानृते यद्वत् तद्वत् न्17: त*द्व*त् कालस्य सृष्टिषु ॥

4.10.35

मनो मिथ्याभ्रमाल् लोके कर्तृताकर्तृतामयम् ।
करोति कलनां रज्ज्वाम् भ्रान्तेक्षण इवाहिताम् ॥

4.10.36

तेन मा गा श्1,श्3: गा; न्17: ग मुने कोपम् आपदाम् ईदृशः क्रमः ।
यद् यथा तत् तथैवास्तु सत्यम् आलोकयाकुलः ॥

4.10.37

न वयम् प्रभुतार्थेन नाभिमानवशीकृताः ।
स्वतो हेवाकवशतः केवलं नियतौ स्थिताः ॥

4.10.38

प्रकृतव्यवहारेहां नियतां नियतेर् वशात् ।
प्राज्ञः समनुवर्तेत नाभिमानमहातमाः ॥

4.10.39

कर्तव्यम् एव क्रियते केवलं कार्यकोविदैः ।
सौषुप्तीं वृत्तिम् आश्रित्य कयाचिद् अपि नाशया ॥

4.10.40

क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धे हि किम् अन्ध इव मुह्यसि ॥

4.10.41

त्रिकालामलदर्शित्वं धारयन्न् अपि चेतसि ।
अविचार्य जगद्यात्रां किम् मूर्ख इव मुह्यसि ॥

4.10.42

स्वकर्मफलपाकोत्थाम् अविचार्य दशां सुते ।
किम् मूर्ख इव सर्वज्ञ मुधा मां शप्तुम् अर्हसि ॥

4.10.43

देहिनाम् इह सर्वेषां शरीरं द्विविधम् मुने ।
किं न जानासि वा देहम् एकम् अन्यन् मनोःभिधम् ॥

4.10.44

तत्र देहो जडो ःत्यर्थं विनाशैकपरायणः ।
मनस् तूत्थाननियतं कदर्थात् क्षीयते न वा ॥

4.10.45

चतुरेण यथा साधो रथः सारथिनोह्यते ।
कुर्वता किञ्चन स्वेहां देहो ःयम् मनसा तथा ॥

4.10.46

असत् सङ्कल्प्य क्रियते सच् छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥

4.10.47

चित्तम् एवेह पुरुषस् तत्कृतं कृतम् उच्यते ।
तद् बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥

4.10.48

अयं देह इदं नेत्रम् इदम् अङ्गम् इदं शिरः ।
इदं स्फारविकारं तन् मन एवाभिधीयते ॥

4.10.49

मनो हि जीवज् जीवाख्यं निश्चायकतया तु धीः ।
अहङ्कारो ःभिमानित्वान् नानात्वं त्व् इदम् एति हि ॥

4.10.50

देहवासनया चेतस् त्व् अन्यानि स्वानि चेद्धया ।
पार्थिवानि न्17: °वा⟨ण्⟩[न्]इ शरीराणि सन्तीव परिपश्यति ॥

4.10.51

आलोकयति चेत् सत्यं तद् असत्यमयीम् मनः ।
शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम् ॥

4.10.52

तन् मनस् तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दुराद् दूरतरं गतम् ॥

4.10.53

इदम् औशनसं त्यक्त्वा देहम् मन्दरकन्दरे ।
प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा ॥

4.10.54

तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च ।
नन्दनोद्यानषण्डेषु लोकपालपुरीषु च ॥

4.10.55

मुने चतुर्युगान्य् अष्टौ विश्वाचीं देवसुन्दरीम् ।
असेवत महातेजाः षट्पदः पद्मिनीम् इव ॥

4.10.56

तीव्रसंवेगसम्पन्नस्वसङ्कल्पोपकल्पिते ।
अथ पुण्यक्षये जाते नीहार इव शार्वरे ॥

4.10.57

प्रम्लानकुसुमोत्तंसः स्विन्नाङ्गावलयालसः न्17: स्विन्[न्]आङ्गा°; श्3: स्विन्नाङ्गा°; श्1: स्विन्नाङ्ग°. स्विन्नाङ्गा = सुब्स्तन्तिविएर्तेस् बहुव्रीहि, बेzउग् औf देवसुन्दरी इन् 55 ब्. व्ग्ल्. औछ् (इव्) 8,15. ।
स पपात तया साकं कालपक्वम् फलं यथा न्17: (स्पष्टम्) ॥

4.10.58

वैबुधं तत् परित्यज्य नभस्य् एव शरीरकम् ।
भूताकाशम् अथासाद्य वसुधायाम् अजायत ॥

4.10.59

आसीद् द्विजो दशार्णेषु कोसलेषु महीपतिः ।
धीवरो ःङ्गमहाटव्यां हंसस् त्रिपथगातटे ॥

4.10.60

सूर्यवंशी नृपः पौण्ड्रे सौरः साल्वेषु दैशिकः ।
कल्पं विद्याधरः श्रीमान् धीमान् अथ मुनेः सुतः ॥

4.10.61

मद्रेष्व् न्17: मद्र्⟨ई⟩[ए]ष्व् अथ महीपालस् ततस् तापसबालकः ।
वासुदेव इति ख्यातः समङ्गायास् तटे स्थितः ॥

4.10.62

अन्यास्व् अपि विचित्रासु वासनावशतः स्वयम् ।
विषमास्व् एव पुत्रस् ते चचारानन्तयोनिषु ॥

4.10.63

अभूद् विन्ध्यवने गोपः किरतः केकयेषु च ।
सौवीरेषु च सामन्तस् त्रैगर्तश् चैव दैशिकः ॥

4.10.64

वंशगुल्मः किरातेषु हरिणश् चीरजङ्गले ।
सरीसृपस् तालतले तमाले वनकुक्कुटः ॥

4.10.65

अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः न्17: वर[ः] ।
प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम् ॥

4.10.66

तेनासौ न्17: तेन्*आ*सौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरी लीलानिचयलासकः ॥

4.10.67

नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणम् ॥

4.10.68

स कल्पावधिम् न्17: स⟨ङ्⟩कल्पा°; व्ग्ल्. 73अ. आसाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा ॥

4.10.69

जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥

4.10.70

अथ कालेन सञ्जाते विचित्रारम्भकारिणि ।
संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये ॥

4.10.71

सा मनोवासना तस्य वातव्यावलिता सती ।
कृते ब्राह्मणताम् एत्य जाताद्य वसुधातले ॥

4.10.72

वासुदेवाभिधानो ःसौ मुने विप्रकुमारकः ।
जातो मतिमताम् मध्ये समधीताखिलश्रुतिः ॥

4.10.73

कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने ।
तपश् चरति ते पुत्रः समङ्गायास् तटे स्थितः ॥

4.10.74

विविधविषमवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु ।
जगति जरढयोनिषु न्17: जर⟨ड⟩[ढ]यो° प्रयातो गहनतरासु न्17: °हन⟨न⟩[त]रा° च काननस्थलीषु ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc