भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 3.16

3.16.1

भूतलाप्सरसा सार्धम् अनन्यवनितापतिः ।
अकृत्रिमप्रेमरसं स रेमे कान्तया तया ॥

3.16.2

उद्यानवनगुल्मेषु तमालगहनेषु °ल्⟨आ⟩[अ]ग° च ।
पुष्पमण्डपतल्पेषु लतावलयसद्मसु ॥

3.16.3

पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु ।
वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥

3.16.4

चन्दनद्रुमषण्डेषु सन्तानकतलेषु च ।
कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च ॥

3.16.5

शैलकन्दरकच्छेषु वातायनपुरेषु च ।
सरित्तटकटप्रेषु वारणोपरिसद्मसु ॥

3.16.6

ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च ।
हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु ॥

3.16.7

विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु ।
वसन्तवनजालेषु कूजत्कोकिलमालिषु कू⟨ट्⟩[ज्]अत्° ॥

3.16.8

नानारत्नतृणानां च स्थलेषु स्थ्⟨ऊ⟩[अ]° मृदुदीप्तिषु ।
निर्झरेषु तरत्तारशीकरासारवर्षिषु ॥

3.16.9

शैलानां हेममाणिक्यशिलाफलहकेषु °ल(न)ह° च ।
देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥

3.16.10

कुमुद्वतीषु फुल्लासु ⟨द्गु⟩[फु]° स्मेरासु नलिनीषु च ।
वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु (फू)फुल्ला° च ॥

3.16.11

प्रहेलिकाभिर् आख्यानैस् तथैवाक्षरमुष्टिभिः ।
अष्टापदैर् बहूद्द्योतैस् तथा गूढचतुर्थकैः ॥

3.16.12

नाटकाख्यायिकाभिश् च श्लोकैर् बिन्दुमतीभ्रमैः ।
देशभाषाविभागैश् च नगरग्रामचेष्टितैः ॥

3.16.13

स्रग्दाममाल्यवलनैर् नानाभरणयोजनैः ।
लीलाविलोलचलनैर् °च[ल]नैर् विचित्ररसभाजनैः ॥

3.16.14

आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः ।
फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः ॥

3.16.15

समालम्भनलीलाभिर् दोलारोहणविभ्रमैः ।
गृहे कुसुमदोलाभिर् अन्योऽन्यान्दोलनक्रमैः ॥

3.16.16

नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः ।
जलकेलिविलासेन परस्परसमुक्षणैः ॥

3.16.17

नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः ।
सङ्गीतकैः सङ्कथनैर् वीणामुरजवादनैः ॥

3.16.18

उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु ।
अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा ॥

3.16.19

सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया ।
एकदा चिन्तयाम् आस शुभसङ्कल्पशालिनी ॥

3.16.20

प्राणेभ्यो ऽपि प्रियो भर्ता ममैष जगतीपतिः ।
यौवनोल्लासलक्ष्मीवान् कथं स्याद् अजरामरः ॥

3.16.21

भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु ।
कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्य् अहम् ॥

3.16.22

तथा यतेय क्रमतस् तपोजपयमेहितैः ।
रजनीशरुची राजा यथा स्याद् अजरामरः ॥

3.16.23

ज्ञानवृद्धांस् तपोवृद्धान् विद्यावृद्धान् अहं द्विजान् ।
पृच्छामि तावन् मरणं कथं न स्यान् नृणाम् इति ॥

3.16.24

अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता ।
अमरत्वं कथं विप्रा भवेद् इति पुनः पुनः ॥

3.16.25

तपोजपयमैर् देवि समस्ताः सिद्धसिद्धयः ।
सम्प्राप्यन्ते ऽमरत्वं तु न कदाचन लभ्यते ॥

3.16.26

इत्य् आकर्ण्य द्विजमुखाच् °खा⟨श्⟩[च्] चिन्तयाम् आस सा पुनः ।
इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥

3.16.27

मरणं भर्तुर् अग्रे मे यदि दैवाद् भविष्यति ।
तत् सर्वदुःखनिर्मुक्ता संस्थास्ये सुखम् आत्मनि ॥

3.16.28

अथ वर्षसहस्रेण भर्तादौ म्रियते यदि ।
तत् करिष्ये तथा येन जीवो गेहान् न यास्यति ॥

3.16.29

तद्भ्रमाद् भर्तृजीवे ऽस्मिन् निजे शुद्धान्तमण्डपे ।
भर्त्रावलोकिता नित्यं निवत्स्यामि °व⟨र्⟩त्स्या° यथासुखम् ॥

3.16.30

अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् ।
जपोपवासनियमैर् आ तोषं पूजयाम्य् अहम् ॥

3.16.31

इति निश्चित्य सा नाथम् अनुक्त्वैव °क्त्व्⟨ए⟩[ऐ](वे)व वराङ्गना ।
यथाशास्त्रं चचारोग्रं तपो नियमम् आस्थिता ॥

3.16.32

त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते पर्य्⟨आ⟩[अ]न्ते कृतपारणा ।
देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥

3.16.33

स्नानदानतपोध्याननित्योद्युक्तशरीरिका ।
सर्वास्तिक्यसदाचारकारिणी क्लेशकारिणी ॥

3.16.34

यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् ।
तोषयाम् आस भर्तारम् अपरिज्ञाततत्स्थितिम् ॥

3.16.35

त्रिरात्रशतम् एवं सा बाला नियमशालिनी ।
अनारततपोनिष्ठम् अतिष्ठत् कष्टचेष्टया ॥

3.16.36

त्रिरात्राणां शतेनाथ पूजिता °ता⟨ं⟩ प्रतिमाम् इता ।
तुष्टा भगवती गौरी वागीशीदम् उवाच ताम् ॥

3.16.37

निरन्तरेण तपसा भर्तृभक्त्यतिशायिना ।
परितुष्टास्मि ते वत्से गृहाण वरम् ईप्सितम् ॥

3.16.38

जय जन्मजराज्वालादाहदोषशशिप्रभे ।
जय हार्दान्धकारौघनिवारणरविप्रभे ⟨दाहा⟩[हार्दा]न्ध° ॥

3.16.39

अम्ब मां त्रिजगन्मातस् त्रायस्व कृपणाम् इमाम् ।
इदं वरद्वयं देहि यद् इह प्रार्थये शुभम् ॥

3.16.40

एकं तावद् विदेहस्य भर्तुर् जीवो ममाम्बिके ।
अस्माद् एव हि मा यासीन् निजान्तःपुरमण्डपात् ॥

3.16.41

द्वितीयं त्वां महादेवि प्रार्थये ऽहं यदा यदा ।
दर्शनाय वरार्थेन तदा मे देहि दर्शनम् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc