मोक्षोपायटीका · अध्याय 3.5
भगवन् मुनिशार्दूल किम् इवेह मनो भ्रमे ।
विद्यते कथम् उत्पन्नं मनो मायामयं कुतः ॥
उत्पत्तिम् आदाव् इति मे समासेन वद प्रभो ।
प्रवक्ष्यसि °ष्य्(आ)असि ततः शिष्टं वक्तव्यं वदतां वर ॥
महाप्रलयसम्पत्ताव् असत्तां समुपागते °आ⟨म्⟩[ग्]अते ।
अशेषदृश्ये सर्गादौ शान्तम् एवावशिष्यते ॥
आस्ते ऽनस्तमितो भास्वान् अजो देवो निरामयः ।
सर्वदा सर्वकृत् सर्वः परमात्मा महेश्वरः ॥
यतो वाचो निवर्तन्ते तैत्तुप् 2.4. यो मुक्तैर् अवगम्यते (ए)अव° ।
यस्य चात्मादिकाः सञ्ज्ञाः कल्पिता न स्वभावजाः ॥
यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।
विज्ञानमात्रं विज्ञानविदाम् एकान्तनिर्मलम् ॥
यः ⟨यः⟩ यः शून्यवादिनां शून्यं भासको °स*को* यो ऽर्कतेजसाम् ।
वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः ॥
सद् अप्य् असद् यो अस⟨त्यो⟩[द् यो] जगति यो देहस्थो ऽपि दूरगः ।
चित्प्रकाशो ह्य् अयं यस्माद् आलोक इव भास्वतः ॥
यस्माद् विष्ण्वादयो देवाः सूर्याद् इव मरीचयः ।
यस्माज् जगन्त्य् अनन्तानि बुद्बुदा जलधेर् इव ॥
यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।
य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥
आकाशे यः शरीरे च दृशत्स्व् अप्सु लतासु च ।
पांसुष्व् अद्रिषु वातेषु पातालेषु च संस्थितः ॥
यः प्लावयति संरब्धं पुर्यष्टकम् इतस् ततः ।
येन मूकीकृता मूढाः शिलाध्यानम् इवास्थिताः ॥
व्योम येन कृतं शून्यं शैला येन घनीकृताः ।
आपो द्रुताः कृता येन दीप्तो यस्य वशाद् रविः ॥
प्रसरन्ति यतश् चित्राः संसारासारवृष्टयः ।
अक्षयामृतसम्पूर्णाद् अम्भोदाद् इव वृष्टयः ॥
आविर्भावतिरोभावमय्यस् त्रिभुवनोर्मयः ।
स्फुरन्त्य् अविरतं यस्मिन् घृणाव् इव मरीचयः ॥
नाशरूपो ऽविनाशात्मा यो ऽन्तःस्थः सर्ववस्तुषु ।
गुप्तो यो व्यतिरिक्तो ऽपि सर्वभावेषु संस्थितः ॥
प्रकृतिव्रततिर् व्योम्नि जाता ब्रह्माण्डसत्फला ।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥
यश् य⟨ः⟩[श्] चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् ।
यस्मिन्न् इन्दौ स्फुरन्त्य् एता जगज्जालमरीचयः ॥
प्रशान्तचिद्घने यस्मिन् स्फुरन्त्य् अमृतवर्षिणि ।
धाराजलानि भूतानि दृष्टयस् तडितः स्फुटाः ॥
चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः ।
असज् जातम् असद् येन येन सत् स्⟨आ⟩[अ]त् सत्त्वम् आगतम् ॥
चलतीदम् अनिच्छस्य कायायो यस्य सन्निधौ ।
जडं परमरत्नस्य शान्तम् आत्मनि तिष्ठतः ॥
नियतिर् देशकालौ च चलनं स्पन्दनं क्रियाः ।
इति येन गतं सत्तां सर्वसत्त्वाभिगामिना ॥
शुद्धसंविन्मयत्वाद् यः खं भवेद् व्योमवित्तया ।
पदार्थवित्तयार्थत्वम् अवतिष्ठत्य् अनिष्ठितः ॥
कुर्वन्न् अपीव जगतां महताम् अनन्त- स्पन्दं न किञ्चन करोति कदाचनापि ।
स्वात्मन्य् अनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमतिः स्थित एक एव ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0