मोक्षोपायटीका · अध्याय 3.6
अस्य देवातिदेवस्य परस्य परमात्मनः ।
ज्ञानाद् एव परा सिद्धिर् न त्व् अनुष्ठानखेददा °⟨दुःख⟩[खेद]दा ॥
अत्र ज्ञानम् अनुष्ठानं न त्व् अन्यद् उपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत् ॥
न चैष दूरे नाकाशे नालभ्यो विषमो न च ।
स्वानन्दभासरूपो °नन्द्⟨आ⟩[अ]भासरूप्⟨ए⟩[ओ] ऽसौ स्वदेहाद् एव लभ्यते ॥
किञ्चिन् नोपकरोत्य् अत्र तपोदानव्रतादिकम् ।
स्वभावमात्रविश्रान्तिम् ऋते नात्रास्ति साधनम् ॥
शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् ।
साधनं °⟨ने(मो)⟩[नं] बोधनं मोहजालस्य यद् अकृत्रिमम् ॥
अयं स देव इत्य् एव सम्परिज्ञानमात्रतः ।
जन्तोर् न जायते दुःखं जीवन्मुक्तत्वम् एति च ॥
सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि ।
पुनर् दोषा न बाधन्ते मरणाद्याः कदाचन ॥
देवदेवो महान् एष कुतो दूराद् अवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथ वा ॥
स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपस्स्नानकर्मभिः °पस्स्⟨उ⟩[ना]न° ॥
रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम् ॥
रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।
यद् अर्ज्यते ततो दानाद् यस्यार्थस् तस्य तत् फलम् ॥
रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
स दम्भः प्रोच्यते तस्य फलम् अस्ति मनाङ् न वा ॥
तस्मात् पुरुषयत्नेन मुख्यम् औषधम् आहरेत् ।
सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशने ॥
अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिद् उपपद्यते ॥
शृणु तत् पौरुषं कीदृग् आत्मज्ञानस्य लब्धये ।
येन शाम्यन्त्य् अशेषेण रागद्वेषविषूचिकाः ॥
यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया ।
सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन् ॥
यथासम्भवम् उद्योगाद् अनुद्विग्नतया स्वया ।
साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् °वम्(इ) उद्य्(इ)ओ*गाद् ... श्रयेत्* ॥
यथाप्राप्तार्थसन्तुष्टो यो गर्हितम् उपेक्षते ।
साधुसङ्गमसच्छास्त्ररतः शीघ्रं स मुच्यते ॥
विचारणापरिज्ञातस्वभावस्य महामतेः ।
अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥
भृशं यं सुजनप्रायं लोकाः साधुं प्रचक्षते ।
स विशिष्टः स साधुः स्यात् तं प्रयत्नेन संश्रयेत् ॥
अध्यात्मविद्या विद्यानां भ्ग् 10.32च् प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रम् इत्य् आहुर् मुच्यते तद्विचारवान् ॥
सच्छास्त्रसत्सङ्गमजैर् विवेकैस् तथा विनश्यन्ति बलान् मलानि ।
यथा जलानां कतकानुषङ्गाद् यथा जडानाम् अभयोपयोगात् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0