भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 3.4

3.4.1

कथयत्य् एवम् उद्दामवचनं मुनिनायके ।
श्रोतुम् एकरसे जाते जने मौन इव स्थिते ॥

3.4.2

शान्तेषु किङ्किणीजालस्वनेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्व् अप्य् अस्तकेलिषु ॥

3.4.3

सुविस्मृतविलासासु स्थितासु ललनास्व् अपि ।
चित्रभित्ताव् इव न्यस्ते समस्ते राजसद्मनि ॥

3.4.4

मुहूर्तशेषम् अभवद् दिवसं मधुरातपम् ।
व्यवहारो रविकरैः सह तानवम् आययौ ॥

3.4.5

ववुर् उत्फुल्लकमलप्रकरोन्मदमांसलाः ।
वायवो मधुरस्पन्दं श्रवणार्थम् इवागताः ॥

3.4.6

श्रुतं चिन्तयितुं भानुर् इवाहोरचनाभ्रमम् ।
तत्याजैकान्तम् अगमच् छून्यम् अस्तगिरेस् तटम् ॥

3.4.7

उत्तस्थुर् मिहिकारम्भश्यामता वनभूमिषु ।
विज्ञानश्रवणाद् अन्तः शीतलाः शान्तता इव ॥

3.4.8

बभूवुर् अल्पसञ्चारा जना दशसु दिक्ष्व् अपि ।
सावधानतया श्रोतुम् इव सन्त्यक्तचेष्टिताः ॥

3.4.9

छाया दीर्घत्वम् आजग्मुर् वासिष्ठं वर्णनक्रमम् ।
इव श्रोतुम् अशेषाणां वस्तूनां दीर्घकन्धराः ॥

3.4.10

प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो ह्य् अतिगतो भृशम् ॥

3.4.11

ततो वसिष्ठो भगवान् संहृत्य °त्य⟨ं⟩ मधुरां गिरम् ।
अद्य तावन् महाराज श्रुतम् एतावद् अस्तु वः ॥

3.4.12

प्रातर् अन्यद् वदिष्याम °ष्⟨म्⟩[य्]आ° इत्य् उक्त्वा मौनवान् अभूत् ।
इत्य् आकर्ण्यैवम् अस्तूक्त्वा आक[र्]ण्यैवम् अस्त्⟨अ⟩[ऊ]क्त्वा भूपतिर् भूतिवृद्धये ॥

3.4.13

पुष्पार्घ्यपाद्यसम्मानदक्षिणादानपूजया °र्घ्य⟨म्⟩[प्]आ° ।
स देवर्षिमुनीन् °र्षि⟨र्⟩मु° विप्रान् पूजयाम् आस सादरम् ॥

3.4.14

अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
कुण्डलाकीर्णरश्म्योघपरिवेशावृतानना ॥

3.4.15

परस्परांससङ्घट्टरणत्केयूरकङ्कणा ।
हारभाराहतस्वर्णपट्टाभोरस्तटान्तरा ॥

3.4.16

शेखरोत्सर्गविश्रान्तप्रबुद्धमधुपव्रजैः ।
सघुङ्घुमशिरोभागा पतद्भिर् इव मूर्धजैः ॥

3.4.17

काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः °दि⟨ं⟩ङ्मु° ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः (मुद्धिद्ध)*बुद्धिस्थ*° ॥

3.4.18

जग्मुर् नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर् दिनसमाचारं स्वं सर्वे स्वेषु सद्मसु ॥

3.4.19

एतस्मिन्न् अन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्घातनिर्मुक्ते गृहे बालाङ्गना °आ[ङ्]ग° यथा ॥

3.4.20

देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वम् एव सात्पुरुषं (सात्पुरुषं)*सत्पु*[सात्पुरुषं] व्रतम् ॥

3.4.21

उदभूद् अभितः सन्ध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीर् इवोदिता ॥

3.4.22

चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश् चित्ते चित्त्(र्)ए*त्ते* तदण्डवृत्तयो यथा ॥

3.4.23

भानोर् भासा भूषितैर् मेघलेशैः किञ्चित् किञ्चित् कुङ्कुमच्छाययेव °य्⟨ऐ⟩[ए]व ।
पाश्चात्यो ऽद्रिः °चा⟨न्⟩त्यो⟨द्ध्⟩[ऽद्र्]इः पीतवासास् तमोऽब्धेस् ताराहारश्रीयुतः खं समेतः ॥

3.4.24

पूजाम् आदाय सन्ध्यायां प्रयातायां यथागतम् ।
अन्धकाराः समुत्तस्थुर् वेतालवलया °य्⟨अ⟩[आ] इव ॥

3.4.25

अवश्यायकणस्पन्दी हेलाविधुतपल्लवः ।
कोमलः कुमुदाशंसी ववाव् आशीतलो ऽनिलः ॥

3.4.26

परमान्ध्यम् उपाजग्मुर् दिशो ऽपि स्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो °क्⟨ओ⟩[ए]श्यो विधवा इव योषितः ॥

3.4.27

आययौ भुवनं (तु)*भु*व° तेजःक्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो नभः ॥

3.4.28

जग्मुस् तिमिरसङ्घाताः पलाय्य क्वाप्य् अदृश्यताम् ।
श्रुतज्ञानगिरश् चित्तान् महीपानाम् इवाज्ञताः ॥

3.4.29

ऋषयो भूमिपालाश् च मुनयो ब्राह्मणास् तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥

3.4.30

यमकायोपमा श्यामा ययौ तिमिरमांसला ।
आययौ मिहिकाकारा तत्र तेषाम् उषा शनैः ॥

3.4.31

अलक्ष्यताम् उपाजग्मुस् तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुङ्कुमवृष्टयः ॥

3.4.32

दृश्यताम् आजगामार्कप्रभोन्मीलितलोचना °भो⟨र्⟩[न्]मी° ।
विवेकवृत्तिर् महतां मनसीव नवोद्गता ॥

3.4.33

सभां पुनर् उपाजग्मुर् नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥

3.4.34

सा पूर्वसन्निवेशेन विवेश विपुला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥

3.4.35

अथ प्रसङ्गम् आसाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥

3.4.36

भगवन् मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात् तेनेयम् अखिला तन्यते दोषमञ्जरी ॥

3.4.37

रामास्य मनसो रूपं न किञ्चिद् अपि दृश्यते ।
नाममात्राद् ऋते व्योम्नो यथा शून्यजडाकृतेः ॥

3.4.38

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद् विद्धि राम यथा नभः ॥

3.4.39

इदम् अस्यासद् उत्पन्नं मृगतृष्णाम्बुसन्निभम् ।
रूपं तु शृणु सङ्क्षेपाद् द्वितीयेन्दुभ्रमोपमम् ॥

3.4.40

साधो यद् एतद् अर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्य् असतो वापि तन् मनो विद्धि नेतरत् ॥

3.4.41

यद् अर्थप्रतिभानं तन् मन इत्य् अभिधीयते ।
अन्यन् न किञ्चिद् अप्य् अस्ति मनो नाम कदाचन ॥

3.4.42

सङ्कल्पनं मनो विद्धि सङ्कल्पात् तन् न भिद्यते ।
यथा द्रवत्वात् सलिलं तथा स्पन्दो यथानिलात् ॥

3.4.43

यत्र सङ्कल्पनं तत्र तन् मनो ऽङ्ग तथा स्थितम् ।
सङ्कल्पमनसी भिन्ने न कदाचन केचन ॥

3.4.44

सत्यम् अस्त्य् अथवासत्यं यद् अर्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद् ब्रह्मैष पितामहः ॥

3.4.45

आतिवाहिकदेहात्मा मन इत्य् अभिधीयते ।
आधिभौतिकबुद्धिस् तु सदा धीस् तु चिरस्थितिः ॥

3.4.46

अविद्या संसृतिश् चित्तं मनो बन्धो मलं तमः ।
इति पर्यायनामानि दृश्यस्य विदुर् उत्तमाः ॥

3.4.47

न हि दृश्याद् ऋते किञ्चिन् मनसो रूपम् अस्ति हि ।
दृश्यं चोत्पन्नम् एवैतन् नेति वक्ष्याम्य् व्(आक्या)[अ]*क्ष्या*म्य् अहं पुनः ॥

3.4.48

यथा कमलबीजे ऽन्तः स्थिता कमलमञ्जरी ।
महाचित्परमाण्वन्तस् तथा दृश्यं जगत् स्थितम् ॥

3.4.49

प्रकाशस्य यथालोको यथा वातस्य चोपनम् ।
यथा द्रवत्वं पयसो दृश्यत्वं द्रष्टुर् ईदृशम् ॥

3.4.50

अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर् यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥

3.4.51

एवं द्रष्टरि दृश्यत्वम् अनन्यद् इव यत् स्थितम् ।
तद् अप्य् उन्मार्जयाम्य् आशु त्वच्चित्तादर्शतो मलम् ॥

3.4.52

यद् द्रष्टुर् अस्याद्रष्टृत्वं दृश्याभावे भवेद् बलात् ।
तद् विद्धि केवलीभावम् अत एवासतः सतः ॥

3.4.53

तत्ताम् उपगते भावे रागद्वेषादिवासना ।
शाम्यत्य् अस्पन्दिते वाते स्पन्दसङ्क्षुब्धता यथा ॥

3.4.54

असम्भवति सर्वस्मिन् दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥

3.4.55

त्रिजगत् त्वम् अहं चेति दृश्ये ऽसत्ताम् उपागते ।
द्रष्टुः स्यात् केवलीभावस् तादृशो विमलात्मनः ॥

3.4.56

अनन्ताखिलशैलादिप्रतिबिम्बे हि यादृशी ।
स्याद् दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥

3.4.57

अहं त्वं जगद् इत्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात् तादृशी केवलता स्थिते द्रष्टर्य् अवीक्षके ॥

3.4.58

सच् चेन् न शाम्यतीदं वा नाभावो विद्यते सतः ।
असत्तां च न विद्मो ऽस्मिन् दृश्ये दोषप्रदायिनि ॥

3.4.59

तस्मात् कथम् इयं शाम्येद् ब्रह्मन् दृश्यविषूचिका ।
नानोद्भवभ्रमकरी दुःखसन्ततिदायिनी ॥

3.4.60

अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रम् इमं शृणु ।
रामात्यन्तम् अयं येन मृतिम् एष्यति नङ्क्ष्यति ॥

3.4.61

यद् अस्ति तस्य नाशो ऽस्ति न कदाचन राघव ।
यस्मात् तन् नष्टम् अप्य् अन्तर् बीजभूतं भवेद् धृदि ॥

3.4.62

स्मृतिबीजा °बीजा⟨च्⟩ चिदाकाशे पुनर् उद्भूय दृश्यधीः ।
लोकशाइलाम्बराकारं दोषं वितनुते ऽतनुम् ॥

3.4.63

इत्थं निर्मोक्षदोषः स्यान् न च तस्यांशसम्भवः ।
यस्माद् देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥

3.4.64

यदि स्याज् जगदादीदं तत् स्यान् मोक्षो न कस्यचित् ।
बाह्यस्थम् अस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥

3.4.65

तस्माद् इमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् ।
याम् उत्तरेण ग्रन्थेन नूनं त्वम् अवबुध्यसे ॥

3.4.66

अयम् आकाशभूतादिरूपो ऽहं चेति लक्षितः ।
जगच्छब्दस्य रामार्थो ननु नास्त्य् एव कश्चन ॥

3.4.67

यद् इदं दृश्यते किञ्चिद् दृश्यजालं पुरोगतम् ।
एवं ब्रह्मैव तत् सर्वम् अजरामरम् अव्ययम् ॥

3.4.68

पूर्णे पूर्⟨श्⟩[ण्]ए पूर्णं प्रसरति परे शान्तं परं °र्(ए)*अं* स्थितम् ।
व्योमन्य् एवोदितं व्योम ब्रह्म ब्रह्मणि तिष्ठति ॥

3.4.69

न दृश्यम् अस्ति नो दृक् च न द्रष्टा न च दर्शनम् ।
न शून्यं न न्⟨ओ⟩[अ] जडं नो चिच् छान्तम् एवेदम् आततम् ॥

3.4.70

वन्ध्यापुत्रेण पिष्टो ऽद्रिः शशशृङ्गं प्रमायते ।
प्रसार्य भुजसङ्घातं शिला नृत्यति ताण्डवम् ॥

3.4.71

स्रवन्ति सिकतास् तैलं पठन्त्य् उपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥

3.4.72

जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किम् इदं नाम भवतापि ममोच्यते ॥

3.4.73

यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन् येनैतन् निश्चितं भवेत् ॥

3.4.74

नासमन्वितवाग् अस्मि शृणु राघव कथ्यते ।
यथेदम् असद् आभाति वन्ध्यापुत्र इवारवी ॥

3.4.75

इदम् आदाव् अनुत्पन्नं सर्गादौ तेन नास्त्य् अलम् ।
इदं हि मनसा भाति स्वप्नादौ पत्तनं यथा ॥

3.4.76

मन एव च सर्गादाव् अनुत्पन्नम् °आदाव् अ(रा)नुत्° असद्वपुः ।
तथैतच् छृणु वक्ष्यामि यथैतद् अनुभूयते ॥

3.4.77

मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
असद् एवासदाकारं स्वप्नः स्वप्नान्तरं यथा ॥

3.4.78

तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति देहकम् ।
तेनेयम् इन्द्रजालश्रीर् विततेन वितन्यते ॥

3.4.79

स्फुरति गच्छति वल्गति याचते भवति मज्जति संहरति स्वयम् ।
अपरताम् उपयात्य् अपि केवलं चलति चञ्चलशक्तितया मनः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc