भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 3.3

3.3.14

सर्वेषां भूतमनसां संसारव्यवहारिणाम् ।
प्रथमो ऽसौ प्रतिच्छन्दश् चित्तदेहः स्वतोदयः ॥

3.3.15

अस्मात् पूर्वात् प्रतिच्छन्दाद् अनन्यैतत्स्वरूपिणी ।
इयं प्रविसृता सृष्टिः स्पन्ददृष्टिर् इवानिलात् ॥

3.3.16

प्रतिभानाकृतेर् अस्मात् प्रतिभामात्ररूपधृत् ।
विभात्य् एवम् अयं सर्गः सत्यानुभववत् स्थितः ॥

3.3.17

दृष्टान्तो ऽत्र स्वप्नपुरं स्वप्नस्त्रीसुरतं तथा ।
असद् अप्य् अर्थसम्पत्त्या सत्यानुभवभास्वरम् °भा⟨सु⟩[स्व]रम् ॥

3.3.18

अपृथ्व्यादिमयो भाति व्योमाकृतिर् अदेहकः ।
सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥

3.3.19

स चित् सङ्कल्परूपत्वाद् उदेत्य् अप्य् अथ शाम्यति ।
स्वायत्तत्वात् स्वभावस्य नोदेति न च शाम्यति ॥

3.3.20

ब्रह्मा सङ्कल्परहितः पृथ्व्यादिरहिताकृतिः ।
केवलश् चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥

3.3.21

सङ्कल्प एष कचति यथा नाम स्वसम्भवः ।
व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत् ॥

3.3.22

आतिवाहिकतैकान्तविस्मृत्या दृढरूढया ।
आधिभौतिकता येन मुधा भाति पिशाचवत् ॥

3.3.23

इदम्प्रथमतोद्योगसम्प्रबुद्धमहाचितेः ।
नोदेति शुद्धसंवित्त्वाद् आतिवाहिकविस्मृतिः ॥

3.3.24

आधिभौतिकता तेन नास्योदेति पिशाचिका ।
असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥

3.3.25

मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।
मनोमात्रम् अतो विश्वं यद् यतस् तत् तद् एव हि ॥

3.3.26

अजस्य सहकारीणि °आह्⟨आ⟩[अ अ]जस्य्(ए)[अ] स्(इ)[अ]ह° कारणानि न सन्ति यत् ।
तज्जस्यापि न सन्त्य् एव तानि तस्मात् तु कानिचित् ॥

3.3.27

कारणात् कार्यवैचित्र्यं तेनात्रास्ति न किञ्चन ।
यादृशं कारणं शुद्धं कार्यं तादृग् इह स्थितम् ॥

3.3.28

कार्यकारणताद्य् अत्र न किञ्चिद् उपपद्यते ।
यादृग् एव परं ब्रह्म तादृग् एव जगत्त्रयम् ॥

3.3.29

मनस्ताम् इव यातेन ब्रह्मणा तन्यते जगत् ।
अनन्यद् आत्मनः शुद्धाद् द्रवत्वम् इव वारिणा ॥

3.3.30

मनसा तन्यते सर्वम् असद् एवेदम् आततम् ।
यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम् ॥

3.3.31

आधिभौतिकता नास्ति रज्ज्वाम् इव भुजङ्गता ।
ब्रह्मादयः प्रबुद्धास् तु कथं तिष्ठन्तु तत्र ते ॥

3.3.32

आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।
आधिभौतिकदेहस्य चर्चैवात्र कुतः कथं ॥

3.3.33

मनोनाम्नो मनुष्यस्य विविधाकारधारिणः ।
मनोराज्यं जगद् इति सत्यरूपम् इव स्थितम् ॥

3.3.34

मन एव विरिञ्चं त्वं विद्धि सङ्कल्पनात्मकम् ।
स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥

3.3.35

विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।
पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥

3.3.36

पद्माक्षे पद्मिनीवान्तर् मनोहृद्य् अस्ति दृश्यता ।
मनोदृश्यदृशौ भिन्ने न कदाचन किञ्चन ॥

3.3.37

तथा चात्र च्⟨ए⟩(ति स्पष्टम्) [आ]त्र भवत्स्वप्नसङ्कल्पश् चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस् तस्माद् धृद्य् अस्ति दृश्यभूः ॥

3.3.38

तस्माच् चित्तविकल्पस्थः पिशाचो बालकं यथा ।
विनिहन्त्य् एवम् एषान्तर् द्रष्टारं दृश्यरूपिका ॥

3.3.39

यथाङ्कुरो ऽन्तर् बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्य् एवं हि दृश्यधीः ॥

3.3.40

सच् चेन् न शाम्यति कदाचन दृश्यदुःखं दृश्ये त्व् अशाम्यति न बोद्धरि न्(ओ)[अ] ब्⟨अ⟩*ओ*द्ध° केवलत्वम् ।
दृश्ये त्व् असम्भवति बोद्धरि बोद्धृभावः शाम्येत् स्थिते ऽपि हि तद् अस्य विमोक्षम् आहुः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc