मोक्षोपायटीका · अध्याय 3.1
वाग्भाभिर् ब्रह्मविद् ब्रह्म भाति स्वप्न इवात्मनि ।
यद्-इदं-तत्-स्व-शब्दार्थैर् यो यद् वेत्ति स वेत्तु तत् ॥
न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति ।
किम् इदं कस्य वक्षीति चोद्यचञ्चुर् निराकृतः ॥
अहं तावद् यथाज्ञानं यथावस्तु यथाक्रमम् ।
यथास्वभावं वच्मीदं तत् सर्वं श्रूयतां बुधाः ॥
स्वप्नवत् पश्यति जगच् चिन्नभो देहविन्मयम् ।
स्वप्नसंसारदृष्टान्ता इहैवान्तः समन्विताः ॥
मुमुक्षुव्यवहारोक्तिमयात् प्रकरणात् परम् ।
अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥
बन्धो ऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् ।
न सम्भवति दृश्यं तु यथेदं तच् छृणु क्रमात् ॥
उत्पद्यते यो जगति स एव किल वर्धते ।
स एव मोक्षम् आप्नोति स्वर्गं वा नरकं च वा ॥
अतस् तेष्व् अवबोधार्थं तत् तावत् कथयाम्य् अहम् ।
उत्पत्तिं संसृताव् एति पूर्वम् एव हि यो यथा ॥
इदं प्रकरणार्थं त्वं सङ्क्षेपाच् छृणु राघव ।
ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम् ॥
यद् इदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् । ।
तत् सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति ॥
ततः स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
अनाख्यम् अनभिव्यक्तं यत् किञ्चिद् अवशिष्यते ॥
ऋतम् आत्मा परं ब्रह्म सत्यम् इत्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥
स तथाभूत एवात्मा स्वयम् अन्य इवोल्लसन् ।
जीवताम् उपयातीव भाविनामकदर्थनाम् ॥
ततः स जीवशब्दार्थकलनाकुलतां गतः ।
मनो भवति मौनात्म मननान् मन्थरीभवन् °व⟨त्⟩[न्] ॥
मनः सम्पद्यते तेन महतः परमात्मनः ।
सुस्थिराद् अस्थिराकारस् तरङ्ग इव वारिधेः ॥
तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति नित्यशः ।
तेनेयम् इन्द्रजालश्रीर् विततेव वितन्यते ॥
यथा कटकशब्दार्थः पृथक्त्वार्हो ऽस्ति कानके ।
न नाम कटके तद्वज् जगच्छब्दार्थता परे ॥
ब्रह्मण्य् एवास्त्य् अनन्यात्म यथास्थितम् इदं जगत् ।
न जगच्छब्दकार्थो ऽस्ति हेम्नीव कटकादिता ॥
असतैवासती तापनद्येव लहरी चला ।
मनसैवेन्द्रजालश्रीर् जागती प्रवितन्यते ॥
अविद्या संसृतिर् बन्धो माया मोहो महत् तमः ।
कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥
बन्धस्य तावद् रूपं त्वं कथ्यमानम् इदं शृणु ।
ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन ॥
द्रष्टुर् दृश्यत्वसत्ताङ्ग बन्ध इत्य् अभिधीयते ।
द्रष्टा दृश्यवशाद् बद्धो दृश्याभावाद् विमुच्यते ॥
जगत् त्वम् अहम् इत्यादि सर्गात्मा °आ(तिः)*दि*स° दृश्यम् उच्यते ।
यावद् एतत् सम्भवति तावन् मोक्षो न विद्यते ॥
नेदं नेदम् इति व्यर्थैः प्रलापैर् नोपशाम्यति ।
सङ्कल्पजनकैर् दृश्यव्याधिः प्रत्युत वर्धते ॥
न च तर्कभरक्षोदैर् न तीर्थनियमादिभिः ।
सतो दृश्यस्य जगतो यस्माद् एते विचारकाः ॥
जगद् दृश्यं तु यद्य् अस्ति न शाम्यत्य् एव तत् क्वचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः भ्ग् 2.16अब्. ॥
अचेत्यचित्स्वरूपात्मा आह्⟨आ⟩[अ अ]चेत्य्(ए)अ°; यत्र यत्रैष तिष्ठति ।
द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्य् अप्य् अणूदरे ॥
द्रष्टुर् अस्ति जगद् दृश्यं तत् प्रमृष्टम् प्र⟨स्य⟩*मृ*ष्टम् इदं मया ।
त्यक्तं तपोध्यानजपैर् इति काञ्चिकतृप्तिवत् ॥
यदि नाम जगद् दृश्यम् अस्ति तत् प्रतिबिम्बति ।
परमाणूदरे ऽप्य् अस्मिंश् चिदादर्शे न संशयः ॥
यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति ।
अद्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि ॥
ततस् तत्र पुनर् दुःखं जरा मरणजन्मनी ।
भावाभावग्रहोत्सर्गाः स्थूलसूक्ष्मचलाचलाः ॥
इदं प्रमार्जितं दृश्यं मया नात्राहम् आस्थितः ।
एतद् एवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥
सति त्व् अस्मिञ् जगद्दृश्ये निर्विकल्पसमाधिना ।
न चाक्षयसुषुप्तत्वं तुर्यं वाप्य् उपपद्यते ॥
व्युत्थाने हि समाधीनां °ना[ं] सुषुप्तान्त इवाखिलम् ।
जगद्दुःखम् इदम् भाति यथास्थितम् अखण्डितम् ॥
प्राप्तं भवति हे राम तत् किं नाम समाधिभिः ।
भूयो ऽनर्थनिपाते ऽपि क्षणसाम्ये हि किं सुखम् ॥
यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।
तद् अक्षयसुषुप्ताभं तन् मन्ये नामलं पदम् [प]दम् ॥
प्राप्यते सति दृश्ये ऽस्मिन् न च तन् नाम केनचित् ।
यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः ॥
द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् ।
किलास्ते तत् तदन्ते ऽपि भूयो ऽस्योदेति दृश्यता ॥
न च पाषाणतातुल्या °ता(ं)तु° निर्विकल्पसमाधयः ।
केषाञ्चित् स्थितिम् आयान्ति सर्वैर् इत्य् अनुभूयते ॥
न च पाषाणतातुल्या रूढिं याताः समाधयः ।
भवन्त्य् अग्र्यं पदं शान्तं चिद्रूपम् अजम् अव्ययम् ॥
तस्माद् यदीदं सद् दृश्यं तन् न शाम्येत् कदाचन ।
शाम्येत् तपोजपध्यानैर् दृढम् इत्य् अज्ञकल्पना ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0