भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 3.15

3.15.1

जगद् आकाशम् एवेदं यथा हि व्योम्नि मौक्तिकम् ।
विमले भाति खात्मैव जगच् चिद्गगने तथा ॥

3.15.2

अनुत्कीर्णैव भातीव त्रिजगत्सालभञ्जिका ।
चित्स्तम्भे न च सोत्कीर्णा न चोत्कर्तात्र विद्यते ॥

3.15.3

समुद्रे ऽन्तर् जलास्पन्दाः स्वभावाद् अच्युता अपि ।
विदि वेद्या °⟨श्⟩[द्]या भवन्तीव परे दृश्यविदस् तथा ॥

3.15.4

जलान्तर्गतसूर्याभाजालकारचनान्य् ज्⟨आ⟩[अ]ला° अपि ।
जगद्भानं प्रति स्थूलान्य् अणुं प्रति यथाचलाः ॥

3.15.5

जगद्भानम् अभानाभं ब्रह्मणो ऽव्यतिरेकतः ।
जलसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥

3.15.6

अनुभूतान्य् अपीमानि जगति व्योमरूपिणि ।
पृथ्व्यादीनि न सन्त्य् एव स्वप्नसङ्कल्पयोर् इव ॥

3.15.7

पिण्डग्राहः सद् इत्य् अस्मिन् विज्ञानाकाशरूपिणि ।
मरुनद्यां जलम् इव न सम्भवति कुत्रचित् ॥

3.15.8

जगत्य् अपिण्डग्राहे ऽस्मिन् सङ्कल्पनगरोपमे ।
मरौ सरिद् इवाभाति दृश्यता भ्रान्तिरूपिणी ॥

3.15.9

स्वप्नाद्रिणेव जगता तुलादेशौ न कौचन ।
पूरितौ कलनोन्मुक्ता दृश्यश्रीर् व्योम केवलम् ॥

3.15.10

वर्जयित्वाज्ञविज्ञातजगच्छब्दार्थभावनाम् ।
जगद्ब्रह्मखशब्दानाम् जग(च्छ)द्ब्र° अर्थे नास्त्य् एव भिन्नता ॥

3.15.11

इदं त्व् अचेत्यचिन्मात्रभानोर् भानं नभः प्रति ।
तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः ॥

3.15.12

यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।
तथा जगद् इदं स्वच्छं सङ्कल्पितजगत् प्रति ॥

3.15.13

तस्माद् अचेत्यचिद्रूपं अच्(इ)एत्य° जगद् व्योमैव केवलम् ।
शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥

3.15.14

तस्मान् न किञ्चिद् उत्पन्नं जगदादीह दृश्यकम् ।
अनाख्यम् अनभिव्यक्तं यथास्थितम् अवस्थितम् ॥

3.15.15

जगद् एव महाकाशं चिदाकाशम् अभित्तिमत् ।
तद् देशस्याणुमात्रस्य तुलायाश् चाप्रपूरकम् ॥

3.15.16

आकाशरूपम् एवाच्छं पिण्डग्रहविवर्जितम् ।
व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत् स्थितम् ॥

3.15.17

अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।
निःसन्देहो °देह्⟨अ⟩[ओ] यथैषो ऽर्थश् °थै⟨-⟩[षो ऽ]र्थश् चित्ते विश्रान्तिम् एष्यति ॥

3.15.18

सद्बोधवृद्धये ब्रह्मन् समासेन वदाशु मे ।
मण्डपाख्यानम् अखिलं येन बोधो विवर्धते ॥

3.15.19

अभूद् अस्मिन् महीपीठे कुलपद्मो विकासवान् ।
पद्मो नाम नृपः श्रीमान् बहुपुत्रो ऽतिकोशवान् °क्⟨ए⟩[ओ]श° ॥

3.15.20

मर्यादापालने ऽम्भोधिर् द्विषत्तिमिरभास्करः ।
कान्ताकुमुदिनीचन्द्रो दोषतृष्णाहुताशनः ॥

3.15.21

मेरुर् विबुधवृन्दानां यशश्चन्द्रोद्भवार्णवः ।
सरः सद्गुणहंसानां कलाकमलभास्करः ॥

3.15.22

शात्रवाम्भोदपवनो मत्तमातङ्गकेसरी ।
समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥

3.15.23

शूरारिसागरक्षोभविलसन्मन्दराचलः ।
विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥

3.15.24

लीलालतालास्यमरुत् साहसोत्सवकेशवः ।
सौजन्यकैरवशशी दुर्लीलालतिकानलः ॥

3.15.25

तस्यासीत् सुभगा भार्या लीला नाम विलासिनी ।
सर्वसौभाग्यवलिता कमलेवोदितावनौ ॥

3.15.26

सर्वसम्पत्तिवलिता लीलामधुरभाषिणी ।
सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥

3.15.27

अलकालिमनोहारिवदनाम्भोजशालिनी अल्⟨इ⟩[अ]का° ।
शीताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥

3.15.28

लताविलासकुन्दौघहासिनी रसशालिनी ।
प्रबालहस्ता पुष्पाढ्या मधुश्रीर् इव देहिनी ॥

3.15.29

अवदाता तनुः पुण्या जनताह्लाददायिनी ।
गङ्गेव गां गता देवनदी हंसविलासिनी ॥

3.15.30

तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।
परिचर्यां चिरं कर्तुम् °र्तु⟨ं⟩म् अन्या रतिर् इवोदिता ॥

3.15.31

उद्विग्ने प्रोद्विग्ना मुदिता मुदिते समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता सङ्क्रुद्धे केवलं भीता ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc