भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.20

2.20.1

आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद् बलात् ।
ततो महापुरुषता महापुरुषलक्षणैः ॥

2.20.2

यो यो येन गुणेनेह पुरुषः प्रविराजते ।
शिक्षेत तं तम् एवाशु तस्माद् बुद्धिविवृद्धये ॥

2.20.3

महापुरुषता त्व् एषा शमादिगुणशालिनी ।
सम्यग्ज्ञानं विना राम सिद्धिम् एति न कस्यचित् ॥

2.20.4

ज्ञानाच् छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् ।
श्लाघनीयाः फलेनान्तर् वृष्टेर् इव नवाङ्कुराः ॥

2.20.5

शमादिभ्यो गुणेभ्यश् च वर्धते ज्ञानम् उत्तमम् ।
अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिर् इवोत्तमा ॥

2.20.6

गुणाः शमादयो ज्ञानाच् छमादिभ्यस् तथा ज्ञता ।
परस्परं विवर्धेते °वर्ध्⟨अन्⟩[ए]ते एते ऽब्दसरसी यथा ॥

2.20.7

ज्ञानं सत्पुरुषाचाराज् ज्ञानात् सत्पुरुषक्रमः ।
परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥

2.20.8

यथा कमलरक्षिण्या गीत्या वितततारया °⟨या⟩*ता*र° ।
खगोत्सादेन सहितो °हित्⟨अं⟩[ओ] गीतानन्दः प्रसाध्यते ॥

2.20.9

ज्ञानसत्पुरुषेहाभ्याम् अकर्त्रा कर्तृरूपिणा ।
तथा पुंसा निरिच्छेन समम् आसाद्यते पदम् ॥

2.20.10

सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन ।
तथोपदिश्यते सम्यग् अयं ज्ञानक्रमो ऽधुना ॥

2.20.11

इदं यशस्यम् आयुष्यं पुरुषार्थफलप्रदम् ।
तज्ज्ञाद् आप्तात्मशास्त्रार्थाच् छ्रोतव्यं किल धीमता ॥

2.20.12

श्रुत्वा तु बुद्धिनैर्मल्याद् बलाद् यास्यसि सत्पदम् ।
यथा कतकसंश्लेषात् प्रसादम् अवशम् पयः ॥

2.20.13

विदितवेद्यम् इदं हि मनो मुने °ने⟨र्⟩ विवशम् एव हि याति या⟨न्⟩ति परं पदम् ।
यद् अवबुद्धम् अखण्डितम् उत्तमं तद् अवबोधदशां न जहाति हि ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc