मोक्षोपायटीका · अध्याय 2.8
नाकृतिर् न च कर्माणि नास्पदं न पराक्रमः ।
तन् मिथ्याज्ञानवत् प्रौढं दैवं नाम किम् उच्यते ॥
स्वकर्मफलसंप्राप्ताव् इदम् इत्थम् इतीह याः ।
गिरस् ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥
तथैव मूढमतिभिर् दैवम् अस्तीति निश्चयः ।
आत्तो आ(र्)त्तो दुरवबोधेन रज्जाव् रज्ज्⟨व्⟩आव् इव भुजङ्गमः ॥
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव ॥
मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।
दैवाद् दाहो ऽस्तु मा वेति वक्तव्यं तेन पावके ॥
दैवम् एवेह चेत् कर्म पुंसः किम् इव चेष्टया ।
स्नानदानाशनादारान् °दारा[न्] दैवम् एव करिष्यति ॥
किं वा शास्त्रोपदेशेन मूको ऽयं पुरुषः किल ।
संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥
न च निःस्पन्दता लोके दृष्टेह शवतां विना ।
स्पन्दश् च फलसंप्राप्तिस् तस्माद् दैवं निरर्थकम् ॥
न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।
हस्तादीन् ईहतश् चैव न दैवेन क्वचित् कृतम् ॥
मनोबुद्धिवद् अप्य् एतद् दैवं नेहानुभूयते ।
आगोपालं किल प्राज्ञैस् तेन दैवम् असत् सदा ॥
पृथक् चेद् बुद्धिर् अन्यो ऽर्थः सैव चेत् कान्यता तयोः ।
कल्पना वा प्रमाणं चेत् पौरुषं किं न कल्प्यते ॥
नामूर्तेन च सङ्गो ऽस्ति नभसेव वपुष्मतः °मत्⟨आ⟩[अः] ।
मूर्तं च दृश्यते लग्नं तस्माद् दैवं न विद्यते ॥
विनियोक्ताथ भूतानाम् अस्त्य् अन्यत् तज्जगत्त्रये ।
शेरतां शेरत्(ए)आं भूतवृन्दानि दैवं सर्वं करिष्यति ॥
दैवेनेत्थं °न्(ओ)[ए]त्थं नियुक्तो ऽस्मि किं करोमीदृशं स्थितम् ।
समाश्वासनवाग् एषा न दैवं परमार्थतः ॥
मूढैः प्रकल्पितं दैवं तत्परास् ते क्षयं गताः ।
प्राज्ञास् °ज्ञ्⟨अ⟩[आ]स् तु पुरुषार्थेन पदम् उत्तमम् आगताः ॥
ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।
तैस् तैः कैर् इव लोके ऽस्मिन् वद दैवं प्रचक्ष्यते ॥
कालविद्भिर् विनिर्णीता यस्यास्ति चिरजीविता ।
स चेज् जीवति संछिन्नशिरास् तद् दैवम् उत्तमम् ॥
कालविद्भिर् विनिर्णीतं पाण्डित्यं यस्य राघव ।
अनध्यापित एवासौ तज्ज्ञश् चेद् दैवम् उत्तमम् ॥
विश्वामित्रेण मुनिना दैवम् उत्सृज्य दूरतः ।
पौरुषेणैव संप्राप्तं ब्राह्मण्यं °ण्य्(ए)अं राम नान्यथा ॥
अमीभिर् न परै राम पुरुषैर् मुनितां गतैः ।
पौरुषेणैव संप्राप्ता चिरं गगनगमिता ॥
उत्साद्य देवसंघातांश् चक्रुस् त्रिभुवनोदरे ।
पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥
आलूनशीर्णम् आभोगि जगद् आजह्रुर् ओजसा ।
पौरुषेणैव यत्नेन दानवेभ्यः °भ्य्⟨ओ ऽसु°⟩[अः सु°] सुरेश्वराः ॥
राम पौरुषयुक्त्यैव सलिलं धार्यते न वा ।
चिरं करण्डके युक्त्या न दैवं तत्र कारणम् ॥
हरणादानसंरम्भविभ्रमभ्रमभूमिषु ।
शक्तता दृश्यते राम न दैवस्यौषधेर् द्⟨ए⟩[ऐ]व° इव ॥
सकलकारणकार्यविवर्जितं निजविकल्पवशाद् उपकल्पितम् ।
त्वम् अनवेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् उत्तमम् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0