भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.7

2.7.1

प्राप्य व्याधिविनिर्मुक्तं देहम् अल्पाधिवेधितम् ।
तथात्मानं समादध्याद् यथा भूयो न जायते ॥

2.7.2

दैवं पुरुषकारेण यो ऽतिवर्तितुम् इच्छति ।
इह चामुत्र च जयेत् स संपूर्णाभिवाञ्छितः ॥

2.7.3

ये समुद्योगम् उत्सृज्य स्थिता दैवपरायणाः ।
ते ते⟨र्⟩ धर्मम् अर्थकामौ च नाशयन्त्य् आत्मविद्विषः ॥

2.7.4

संवित्स्पन्दो मनःस्पन्द इन्द्रियस्पन्द एव च ।
एतानि पुरुषार्थस्य रूपाण्य् एभ्यः फलोदयः ॥

2.7.5

यथा संवेदनं चेतस् तथान्तःस्पन्दम् ऋच्छति ।
तथैव कायश् चलति तथैव फलभोक्तृता ॥

2.7.6

आबालम् एतत् संसिद्धं यत्र यत्र यथा तथा ।
दैवं तु न न्⟨उ⟩[अ] क्वचिद् दृष्टम् अतो जयति पौरुषम् ॥

2.7.7

पुरुषार्थेन देवेशगुरुर् एष बृहस्पतिः ।
शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥

2.7.8

दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥

2.7.9

महान्तो विभवाढ्या ये नानाश्चर्यसमाश्रयाः ।
पौरुषेणैव दोषेण नरकातिथितां गताः ॥

2.7.10

भावाभावसहस्रेषु दशासु विविधासु च ।
स्वपौरुषवशाद् एव विवृत्ता भूतजातयः ॥

2.7.11

शास्त्रतो गुरुतश् चैव स्वतश् चेति त्रिसिद्धिता ।
सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥

2.7.12

अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् ।
यत्नेन चित्तम् इत्य् आशु सर्वशास्त्रार्थसंग्रहः ॥

2.7.13

यच् छ्रेयो यद् अतुच्छं च यद् अपायविवर्जितम् ।
तत् तद् आचर यत्नेन पुत्रेति गुरवः स्थिताः ॥

2.7.14

यथा यथा प्रयत्नो मे फलम् आशु तथा तथा ।
इत्य् अहं पौरुषाद् एव फलभाङ् न तु दैवतः ॥

2.7.15

पौरुषाद् दृश्यते सिद्धिः पौरुषं धीमतां क्रमः ।
दैवम् आश्वासनामात्रं दुःखपेलवबुद्धिषु ॥

2.7.16

प्रत्यक्षप्रमुखान् नित्यं प्रमाणं पौरुषः क्रमः ।
फलतो दृश्यते लोके देशान्तरगमादिकात् ॥

2.7.17

भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः ।
वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥

2.7.18

पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः ।
समुत्तरन्त्य् अयत्नेन न तु मूकतयानया ॥

2.7.19

यो यो यथा प्रयतते °यतत्(ओ)ए स स तद्वत् फलैकभाक् ।
न तु तूष्णीं स्थितेनेह केनचित् प्राप्यते फलम् ॥

2.7.20

शुभेन पुरुषार्थेन शुभम् आसाद्यते फलम् ।
अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥

2.7.21

पुरुषार्थफलप्राप्तिर् देशकालवशाद् इह ।
प्राप्ता चिरेण शीघ्रं वा यासौ दैवम् इति स्मृता ॥

2.7.22

न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् ।
उक्तं दैवाभिधानेन स्वं लोके कर्मणः फलम् ॥

2.7.23

पुरुषो जायते लोके वर्धते क्षीयते पुनः ।
न तत्र दृश्यते दैवं जरायौवनबाल्यवान् ॥

2.7.24

देशाद् देशान्तरप्राप्तिर् हस्तस्थद्रव्यधारणम् ।
व्यापारश् च तथाङ्गानां पौरुषेण न दैवतः ॥

2.7.25

अर्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सर्वम् आसाद्यते ऽनया ॥

2.7.26

अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या ।
सोक्ता प्रोन्मत्तचेष्टेति न किंचित् प्राप्यते ऽनया ॥

2.7.27

क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् ।
साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥

2.7.28

अनन्तं समतानन्दं परमार्थं स्वकं विदुः ।
तद् येभ्यः प्राप्यते यत्नात् सेव्यास् ते शास्त्रसाधवः ॥

2.7.29

सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान् मतिः ।
वर्धेते ते मिथो ऽभ्यासात् सरोब्दाव् इव कालतः ॥

2.7.30

आबाल्याद् अलम् अभ्यस्तैः शास्त्रसत्संगमादिभिः ।
गुणैः पुरुषयत्नेन स्वो ऽर्थः संप्राप्यते हितः ॥

2.7.31

पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः ।
रचितानि जगन्तीह विष्णुना न तु दैवतः ॥

2.7.32

जगति पुरुषकारकारणे ऽस्मिन् कुरु रघुनाथ चिरं तथा प्रयत्नम् ।
व्रजसि तरुसरीसृपाभिधानां सुभग यथा न दशाम् अशङ्कम् एव ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc