मोक्षोपायटीका · अध्याय 2.9
भगवन् सर्वधर्मज्ञ प्रतिष्ठाम् अलम् आगतम् ।
यल् लोके तद् वद ब्रह्मन् दैवम् एवं किम् उच्यते ॥
पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥
दैवं न किंचित् कुरुते न च भुङ्क्ते न विद्यते ।
न दृश्यते नाद्रियते केवलं °ल्⟨ए⟩[अं] कल्पनेदृशी ॥
सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् ।
शुभाशुभा वा संपत्तिर् दैवशब्देन कथ्यते ॥
पौरुषोपरता नित्यम् इष्टानिष्टस्य वस्तुनः ।
प्राप्तिर् इष्टाप्य् अनिष्टा वा दैवशब्देन कथ्यते ॥
भावी त्व् अवश्यम् एवार्थः पुरुषार्थैकसाधनः ।
यः सो ऽस्मिंल् लोकसंघाते दैवशब्देन कथ्यते ॥
न तु राघव लोकस्य कस्यचित् किंचिद् एव हि ।
दैवम् आकाशकल्पं हि करोति न करोति वा ॥
पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।
इदम् इत्थं स्थितम् इति योक्तिस् तद् दैवम् उच्यते ॥
इत्थं ममाभवद् बुद्धिर् इत्थं मे निश्चयो ह्य् अभूत् ।
इति कर्मफलावाप्तौ योक्तिस् तद् दैवम् उच्यते ॥
इष्टानिष्टफलप्राप्ताव् एवम् इत्यर्थवाचकम् ।
आश्वासनामात्रवचो दैवम् इत्य् एव कथ्यते ॥
भगवन् सर्वधर्मज्ञ प्राग् यत् कर्मोपसंचितम् ।
तद् एतद् दैवम् इत्य् उक्तम् अपमृष्टं कथं त्वया ॥
साधु राघव जानासि शृणु वक्ष्यामि ते ऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर् भविष्यति ॥
या मग्ना वासना पूर्वं बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नॄणां परिणतिं गता ॥
जन्तुर् यद्वासनो नाम तत्कर्मा भवति क्षणात् ।
अन्यकर्मान्यभावश् चेत्य् एतन् नैवोपपद्यते ॥
ग्रामगो ग्रामम् आप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस् तत् तत् स स प्रयतते तथा ॥
यद् एव तीव्रसंवेगाद् इह कर्म कृतं पुरा ।
तद् एव दैवशब्देन पर्यायेण हि कथ्यते ॥
एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥
यद् दैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि पुरुषस् तस्माद् दैवं नास्तीति निश्चयः ॥
एकम् एव मनो जन्तोर् यथा प्रयतते हि यत् ।
नूनं तत् तद् अवाप्नोति स्वत एव न दैवतः ॥
मनश् चित्तं वासना च कर्म दैवं स्वनिश्चयः ।
राम पुंनिश्चयस्यैताः संज्ञाः °ज्ञा[ः] सद्भिर् उदाहृताः ॥
एवंनामा हि पुरुषो दृढभावनया यथा ।
नित्यं प्रयतते राम फलम् आप्नोत्य् अलं तथा ॥
एवं पुरुषकारेण सर्वम् एव रघूद्वह ।
प्राप्यते नेतरेणेह तस्मात् स शुभदो ऽस्तु ते ॥
प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्य् अहम् ॥
अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥
द्विविधो वासनाव्यूहः शुभश् चैवाशुभश् च ते ।
प्राक्तनो विद्यते राम द्वयोर् एकतरो ऽथ वा ॥
वासनौघेन शुद्धेन तत्र चेद् अद्य नीयसे ।
तत् क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम् ॥
अथ चेद् अशुभो भावस् त्वां योजयति सङ्कटे ।
प्राक्तनस् तद् असौ यत्नाज् जेतव्यो भवता बलात् ॥
प्राज्ञ °ज्ञ⟨श्⟩ चेतनामात्रस् °न्⟨अ⟩[आ]मा° त्वं न देहस् त्वं जडात्मकः ।
तद् एव चेतस्य् अन्येन चेत् तत् त्वं क्वेव विद्यसे ॥
अन्यस् त्वां चेतयति चेत् तत् त्वय्य् असति को ऽपरः ।
कम् इमं चेतयेत् तस्माद् अनवस्था न वास्तवी ॥
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् ।
स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥
अशुभाच् चलितं याति शुभं तस्माद् अपीतरत् ।
जन्तोश् चित्तं तु पशुवत् तस्मात् तत् पालयेद् बलात् ॥
समतासान्त्वनेनाशु न द्राग् इति शनैः शनैः ।
पौरुषेण प्⟨ओ⟩[औ]रु° प्रयत्नेन पालयेच् चित्तबालकम् ॥
वासनौघस् त्वया पूर्वम् अभ्यासेन घनीकृतः ।
शुभो वाप्य् अशुभो राम शुभम् अद्य घनीकुरु ॥
प्रागभ्यासवशाद् याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वम् अरिमर्दन ॥
इदानीम् अपि ते याति घनतां वासनानघ ।
अभ्यासवशतस् तस्माच् छुभाभ्यासम् उपाहर ॥
पूर्वं चेद् घनतां याता नाभ्यासात् तव वासना ।
वर्धिष्यते तु नेदानीम् अपि तात सुखी भव ॥
संदिग्धायाम् अपि भृशं शुभम् एव समाहर ।
अस्यां तु वासनावृद्धौ शुभाद् दोषो न कश्चन ॥
यद् यद् अभ्यस्यते लोके °क्⟨ओ⟩[ए] तन्मयेनैव भूयते ।
इत्य् आकुमारं प्रज्ञेषु दृष्टं सन्देहवर्जितम् ॥
शुभवासनया युक्तस् तद् अत्र भव भूतये ।
परं पौरुषम् आश्रित्य विजित्येन्द्रियपञ्चकम् ॥
अव्युत्पन्नमना यावद् भवान् अज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस् तु निर्णीतं तावद् आचर ॥
ततः कषायपाकेन नूनं विज्ञातवस्तुना ।
शुभो ऽप्य् असौ त्वया त्याज्यो भावनौघो निराधिना ॥
यद् अतिसुभगम् आर्यसेवितं तच् छुभम् अनुसृत्य मनोज्ञभावबुद्ध्या ।
अधिगमय पदं सदाविशोकं तद् अनु तद् अप्य् अवमुच्य साधु तिष्ठ ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0