भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.6

2.6.1

तस्मात् प्राक्पौरुषं दैवं नान्यत् नान्य(स्त)त् तत् प्रोज्झ्य दूरतः ।
साधुसङ्गमसच्छास्त्रैर् जीवम् उत्तारयेद् बलात् ॥

2.6.2

यथा यथा प्रयत्नः स्याद् भवेद् आशु फलं तथा ।
इति पौरुषम् एवास्ति दैवम् अस्तु तद् एव वः ॥

2.6.3

दुःखाद् यथा दुःखकाले हा कष्टम् इति कथ्यते ।
हाकष्टशब्दपर्यायस् तथा हा दैवम् इत्य् अपि ॥

2.6.4

प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज् जेतुम् इव शक्यते ॥

2.6.5

ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतां याति प्राक्तनं कुकृतं तथा ॥

2.6.6

तज्जयाय यतन्ते ये न लाभलवलम्पटाः ।
ते मूढाः प्राकृता दीनाः स्थिता दैवपरायणाः ॥

2.6.7

पौरुषेण कृतं कर्म दैवाद् यद् अभिनश्यति ।
तत्र नाशयितुर् ज्ञेयं पौरुषं बलवत्तरम् ॥

2.6.8

यद् एकवृन्तफलयोर् अप्य् एकं शून्यकोटरम् ।
तत्र प्रयत्नः स्फुरितस् तथा तद्रससंविदः °र⟨म्⟩[स्]अ° ॥

2.6.9

यत् प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् ।
क्षयकारकयत्नस्य तत्र ज्ञेयं महद् बलम् ॥

2.6.10

भिक्षुको मङ्गलेभेन नृपो यत् क्रियते बलात् ।
तद् अमात्येभपौराणां प्रयत्नस्य महत् फलम् ॥

2.6.11

पौरुषेनान्नम् आक्रम्य यथा दन्तैर् विचूर्ण्यते ।
अल्पं पौरुषम् आक्रम्य तथा शूरेण चूर्ण्यते ॥

2.6.12

अनुभूतं हि महतां लाघवं यत्नशालिनां ।
यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत् ॥

2.6.13

शक्तस्य पौरुषं दृश्यम् अदृश्यं वापि यद् भवेत् ।
तद् दैवम् इत्य् अशक्तेन बुद्धम् आत्मन्य् अबुद्धिना ॥

2.6.14

भूतानां बलवद्भूतयत्नो दैवम् इति स्थितम् ।
तस्थुषाम् अप्य् अधिष्ठातृवताम् एतत् स्फुटं मिथः ॥

2.6.15

शास्त्रमात्येभपौराणाम् शास्त्र्⟨आ⟩[अ]° अविकल्प्या स्वभावधीः ।
सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः ॥

2.6.16

ऐहिकः प्राक्तनं हन्ति प्राक्तनो ऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस् तत्रानुद्वेगवाञ् जयी ॥

2.6.17

द्वयोर् अद्यतनस्यैव प्रत्यक्षाद् बलिता भवेत् ।
दैवं जेतुम् अतो यत्नैर् बालो यूनेव शक्यते ॥

2.6.18

मेघेन नीयते यद् वा वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थो ऽसौ जयत्य् अधिकयत्नवान् ॥

2.6.19

क्रमेणोपार्जिते ऽप्य् अर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ॥

2.6.20

यन् न शक्नोमि तस्यार्थे यदि दुःखं करोम्य् अहम् ।
तद् अमानितमृत्योर् मे युक्तं प्रत्यहरोदनम् ॥

2.6.21

देशकालक्रियाद्रव्यवशतो विस्फुरन्त्य् अमी ।
सर्व एव जगद्भावा जयत्य् अधिकयत्नवान् ॥

2.6.22

तस्मात् पौरुषम् आश्रित्य सच्छास्त्रैः सत्समागमैः ।
प्रज्ञाम् अमलतां नीत्वा संसाराम्बुनिधिं तर ॥

2.6.23

प्राक्तनश् चैहिकश् चासौ पुरुषार्थौ फलद्रुमौ ।
ऐहिकः पुरुषार्थश् च जगत्य् अभ्यधिकस् तयोः ॥

2.6.24

कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुर् अनीशो ऽसौ वाङ्मनःसुखदुःखयोः ॥

2.6.25

यस् तूदारचमत्कारः सदाचारविहारवान् ।
स निर्याति जगन्मोहान् मृगेन्द्रः पञ्जराद् इव ॥

2.6.26

कश्चिन् मां प्रेरयत्य् एवम् इत्य् अनर्थकुकल्पने ।
यः स्थितो दृष्टम् उत्सृज्य त्याज्यो ऽसौ दूरतो ऽधमः ॥

2.6.27

व्यवहारसहस्राणि यान्य् उपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥

2.6.28

यथाशास्त्रम् °शास्त्र्⟨आ⟩[अ]म् अनुच्छिन्नां मर्यादां स्वाम् अनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्य् अम्बुनिधेर् इव ॥

2.6.29

स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥

2.6.30

क्रियायाः स्पन्दधर्मिण्याः °ण्या[ः] स्वार्थसाधकता स्वयम् ।
साधुसङ्गमशास्त्रार्थतीक्ष्णयाभ्यूह्यते धिया ॥

2.6.31

अनन्तं समतानन्दं परमार्थं विदुर् बुधाः ।
स येभ्यः प्राप्यते ऽनन्तं ते सेव्याः शास्त्रसाधवः ॥

2.6.32

प्राक्तनं पौरुषं तच् चेद् दैवशब्देन कथ्यते ।
तद् युक्तम् एतद् एतस्मिन् नास्ति नापवदामहे ॥

2.6.33

मूढैः प्रकल्पितं दैवम् अन्यद् यैस् ते क्षयं गताः ।
नित्यं स्वपौरुषाद् एव लोकद्वयहितं भवेत् ॥

2.6.34

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव ॥

2.6.35

करामलकवद् दृष्टं पौरुषाद् एव यत् फलम् ।
मूढः प्रत्यक्षम् उत्सृज्य उत्सृ⟨ष्टा⟩[ज्य] दैवमोहे निमज्जति ॥

2.6.36

सकलकारणकार्यविवर्जितं निजविकल्पबलाद् उपकल्पितम् ।
तद् अनपेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् आत्मनः ॥

2.6.37

शास्त्रैः सदाचरितजृंभितदेशधर्मैर् यत् कल्पितं फलम् अतीव चिरप्ररूढम् ।
तस्मिन् हृदि स्फुरति नो ऽपरम् एति चित्तम् अङ्गावली तद् अनु पौरुषम् एतद् आहुः ॥

2.6.38

बुद्ध्वैव पौरुषफलं पुरुषत्वम् एतद् आत्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततः सफलतां परमाम् अथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन ॥

2.6.39

दैवपौरुषविचारचारुभिश् चेतसा चरितम् आत्मपौरुषम् ।
नित्यम् एव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः ॥

2.6.40

जन्मप्रबन्धमयम् आमयम् एष जीवो बुद्ध्वैहिकं सहजपौरुषम् एव सिद्ध्यै ।
शान्तिं नयत्व् अवितथेन वरौषधेन पृष्टेन तुष्टिपरपण्डितसेवनेन ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc