मोक्षोपायटीका · अध्याय 2.5
द्वौ हुडाव् इव युध्येते पुरुषार्थौ समासमौ ।
आत्मीयश् चान्यदीयश् च जयत्य् अतिबलस् तयोः ॥
अनर्थः प्राप्यते यत्र शास्त्रिताद् अपि पौरुषात् ।
अनर्थकं तु बलवत् तत्र ज्ञेयं स्वपौरुषम् ॥
परं पौरुषम् आश्रित्य दन्तैर् दन्तान् विचूर्णयन् ।
शुभेनाशुभम् उद्युक्तः प्राक्तनं पौरुषं जयेत् ॥
प्राक्तनः पुरुषार्थो ऽसौ मां नियोजयतीति धीः ।
बलाद् अधस्पदीकार्या प्रत्यक्षाद् अधिका न सा ॥
तावत् तावत् प्रयत्नेन यतितव्यं स्वपौरुषं ।
प्राक्तनं पौरुषं यावद् अशुभं शाम्यति स्वयम् ॥
दोषः शाम्यत्य् असन्देहं प्राक्तनो ऽद्यतनैर् गुणैः ।
दृष्टान्तो ऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः क्ष⟨ण्⟩[य्]अः ॥
असद्दैवम् अधः कृत्वा नित्यम् उद्युक्तया धिया ।
संसारोत्तरणं भूत्यै यतेताधातुम् आत्मनि ॥
न गन्तव्यम् अनुद्योगैः साम्यं पुरुषगर्दभैः ।
उद्योगस् तु यथाशास्त्रं लोकद्वितयसिद्धये ॥
संसारकुहराद् अस्मान् निर्गन्तव्यं °ग[न्]त° स्वयं बलात् ।
पौरुषं यत्नम् आश्रित्य हरिणेवारिपञ्जरात् ॥
प्रत्यहं प्रत्यवेक्षेत नरश् चरितम् आत्मनः ।
संत्यजेत् पशुभिस् तुल्यं श्रयेत् सत्पुरुषोचितम् ॥
किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे ।
व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥
शुभेन पौरुषेणाशु शुभम् आसाद्यते फलम् ।
अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥
प्रत्यक्षदृष्टम् उत्सृज्य यो ऽनुमानमनास् त्व् असौ ।
स्वभुजाभ्याम् इमौ सर्पाव् इति प्रेक्ष्य पलायताम् ॥
दैवं संप्रेरयति माम् इति मुग्धधियां मुखम् ।
अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर् निवर्तते ॥
तस्मात् पुरुषयत्नेन विवेकं पूर्णम् आश्रयेत् ।
आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥
चित्ते चिन्तयताम् अर्थं यथाशास्त्रं निजेहितैः ।
असंसाधयताम् एव मूढानां धिग् दुरीप्सितम् ॥
पौरुषं च न चानन्तं न यत्नम् अभिवाञ्छते ।
न यत्नेनापि महता तैलम् आसाद्यते ऽश्मनः ॥
यथा घटः परिमितो यथा परिमितः पटः ।
नियतः परिमाणस्थः पुरुषार्थस् तथैव वः ॥
स च शास्त्रार्थसत्सङ्गसमाचारैर् निजं फलम् ।
ददातीति स्वभावो ऽयम् अन्यथानर्थसिद्धये ॥
स्वरूपं पौरुषस्यैतद् दैवं व्यवहरन् नरः ।
याति निष्फलयत्नत्वं न कदाचन कश्चन ॥
दैन्यदारिद्र्यदुःखार्ता अप्य् अन्ये पुरुषोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥
आ बाल्याच् चैवम् अभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयत्नेन स्वो ऽर्थः संप्राप्यते हि तैः ॥
इति प्wरत्यक्षतो दृष्टम् अनुभूतं कृतं श्रुतम् ।
दैवोत्थम् इति मन्यन्ते ये हतास् ते कुबुद्धयः ॥
आलस्यं यदि न भवेज् जगत्य् अनर्थः को न स्याद् बहुधनिको बहुश्रुतो वा ।
आलस्याद् इयम् अवनिः ससागरान्ता संपूर्णा नरपशुभिश् च निर्धनैश् च ॥
बाल्ये गते ऽविरतकल्पितकेलिलोले पौगण्डमण्डनवयःप्रभृति प्रयत्नात् ।
सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः कुर्यान् नरः स्वगुणदोषविचारणानि स्⟨उ⟩[व]° ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0