मोक्षोपायटीका · अध्याय 1.32
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।
निर्णयं श्रोतुम् उचितं वक्ष्यमाणम् महर्षिभिः ॥
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।
आगच्छताश्व् अविघ्नेन सर्व एव महर्षयः ॥
पतामः परितः पुण्याम् एतां दाशरथीं सभाम् ।
नीरन्ध्रकनकाम्भोजाम् पद्मिनीम् इव षट्पदाः ॥
इत्य् उक्त्वा सा समस्तैव व्योमावासनिवासिनी ।
ताम् पपात सभां तत्र दिव्या मुनिपरम्परा ॥
अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा ।
पयःपीनघनश्यामव्यासमेचकिताम्बरा ॥
भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता श्4: भृङ्ग्व्° ।
च्यवनोद्दालकोशीरशरलोमादिपालिता ॥
परस्परपरामर्शाद् न्11, श्4: °र्षाद् दुःसंस्थानमृगाजिना ।
लोलाक्षमालावलया सुकमण्डलुधारिणी ॥
तारावलिर् इवान्योन्यकृतशोभातिशायिनी ।
कौसुमी वृष्टिर् अन्येव द्वितीयेवार्कमण्डली ॥
ताराजाल इवाम्भोदो व्यासो ह्य् अत्र व्यराजत न्11, श्4: विरा° ।
तारौघ इव शीतांशुर् नारदो ऽत्र व्यराजत ॥
देवेष्व् इव स्वराधीशः पुलस्त्यो ऽत्र व्यराजत ।
आदित्य इव देवानाम् अङ्गिराश् च व्यराजत ॥
अथास्यां सिद्धसेनायाम् पतन्त्यां नभसो रसात् ।
उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा ॥
मिश्रीभूता विरेजुस् न्11: (व्य)*वि*° ते नभश्चरमहीचराः ।
परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥
वेणुघण्टावृतकरा श्4: °आकृत° लीलाकमलधारिणः ।
दूर्वाङ्कुराक्रान्तशिखाः सचुडामणिमूर्धजाः ॥
जटाकटप्रकपिला मौलिमालितमस्तकाः ।
प्रकोष्ठगाक्षवलया माणिक्यवलयान्विताः श्4: °वलान्व्° ॥
चीरवल्कलसंवीताः स्रक्कौशेयावलुण्ठिताः ।
विलोलमेखलापाशाश् चलन्मुक्ताकलापिनः ॥
वसिष्ठविश्वामित्रौ तान् पूजयाम् आसतुः क्षणात् ।
अर्घ्यैः पाद्यैर् वचोभिश् च नभश्चरमहागणान् ॥
सर्वाचारेण सिद्धौघम् पूजयाम् आस भूपतिः ।
सिद्धौघो न्11: सिद्धो° भूपतिं चैव कुशलप्रश्नवार्तया ॥
तैस् तैः प्रणयसंरम्भैर् अन्योऽन्यम् प्राप्तसत्क्रियाः ।
उपाविशन् विष्टरेषु नभश्चरमहीचराः ॥
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।
रामं तम् पूजयाम् आसुः पुरः प्रणतम् आस्थितम् ॥
आसां चक्रे च तत्रासौ राजलक्ष्म्या न्11: राज्य° विराजितः ।
विश्वामित्रो वसिष्ठश् च वामदेवश् च मन्त्रिणः ॥
नारदो देवपुत्रश् च व्यासश् च मुनिपुङ्गवः ।
मरीचिर् अथ दुर्वासा मुनिर् आङ्गिरसस् तथा ॥
क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।
वात्स्यायनो भरद्वाजो वाल्मीकिर् मुनिपुङ्गवः ॥
उद्दालक ऋचीकश् च शर्यातिश् च्यवनस् तथा ।
ऊष्मपाश् च घृतार्चिश् च शालुडिर् वालुडिस् तथा ॥
एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
ज्ञातज्ञेया महात्मानः संस्थितास् तत्र नायकाः ॥
वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।
इदम् ऊचुर् अनूचाना रामम् आनमिताननम् ॥
अहो वत कुमारेण कल्याणगुणशालिनी ।
वाग् उक्ता परमोदारविरागरसगर्भिणी ॥
परिनिष्ठितवाक्यार्थसुबोधम् उचितं स्फुटम् ।
उदारम् प्रियचर्यार्हम् अविह्वलम् अविप्लुतम् ॥
अभिव्यक्तपदं चैव निष्ठं स्पष्टं च तुष्टिमत् ।
करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥
शताद् एकतमस्यैव श्4: °स्येव सर्वोदारचमत्कृतेः ।
ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥
कुमार त्वां विना कस्य विवेकफलशालिनी श्4: विकेक° ।
एवं विकासम् आयाति प्रज्ञा वनलता यथा ॥
प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।
प्रज्वलत्य् अलम् आलोककारिणी स पुमान् स्मृतः ॥
रक्तमांसास्थियन्त्राणि बहून्य् अतिततानि च ।
पदार्थान् अपकर्षन्ति नास्ति तेषु सचेतनम् ॥
जन्ममृत्युजरादुःखम् अनुयान्ति पुनः पुनः ।
विमृशन्ति न संसारपशवः परिमोहिताः ॥
कथञ्चित् क्वचिद् एवैको दृश्यते विमलाशयः ।
पूर्वापरविचारार्हो यथायम् अरिसूदनः ॥
अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।
भव्या हि विरला लोके सहकारद्रुमा इव ॥
सम्यग्दृष्टिर् जगज्जातौ स्वविवेकचमत्कृतिः ।
अस्मिन् भव्यमताव् अन्तर् इयम् अन्येव न्11, श्4: अन्यैव दृश्यते ॥
सुलभाः सुभगा लोकाः फलपल्लवशालिनः ।
जायन्ते तरवो देशे न तु चन्दनपादपाः ॥
वृक्षाः प्रतिवने सन्ति सत्यं सुफलपल्लवाः ।
न त्व् अपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥
ज्योत्स्नेव शीता शशिनः सुतरोर् इव मञ्जरी ।
पुष्पाद् आमोदलेखेव न्11: आमेद° दृष्टा रामाच् न्11: °माश् चमत्कृतिः ॥
अस्माद् उद्दामदौरात्म्यदैवनिर्माणनिर्मितेः ।
द्विजेन्द्रा दग्धसंसारात् सारो ह्य् अत्यन्तदुर्लभः ॥
यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धिया ।
धन्या धुरि सतां गण्यास् ता एव न्11: °ण्या--व पुरुषोत्तमाः ॥
न रामेण समो ऽस्तीह त्रिषु लोकेषु कश्चन ।
विवेकवान् उदारात्मा महात्मा न्11: हिएर् तेxतब्ब्रुछ् औfग्रुन्द् वेर्लुस्त् देस् लेत्zतेन् ब्लत्तेस्. चेति नो मतिः ॥
सकललोकचमत्कृतिकारिणो ऽप्य् अभिमतं यदि राघवचेतसः ।
फलति नो तद् इमे वयम् एव हि स्फुटतरम् मुनयो हतबुद्धयः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0