भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.15

2.15.1

संतोषो ऽपि परं श्रेयः संतोषः सुखम् उच्यते ।
संतुष्टः परम् अभ्येति विश्रामम् अरिसूदन ॥

2.15.2

संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।
साम्राज्यम् अपि साधूनां जरत्तृणलवायते ॥

2.15.3

संतोषशालिनी बुद्धी राम संसारवृत्तिषु ।
विषमास्व् अप्य् अनुद्विग्ना न कदाचन दूयते ॥

2.15.4

संतोषामृतपानेन ये परां तृप्तिम् आगताः ।
भोगश्रीर् अतुला तेषाम् एषा प्रतिविषायते ॥

2.15.5

न तथा तर्पयन्त्य् एताः पीयूषरसवीचयः ।
यथा हि मधुरास्वादः संतोषो दोषनाशनः ॥

2.15.6

अप्राप्तवाञ्छाम् उत्सृज्य संप्राप्ते समतां गतः ।
अदृष्टखेदाखेदो ऽन्तः स संतुष्ट इहोच्यते ॥

2.15.7

आत्मनात्मनि संतोषं यावद् याति न मानसम् ।
उद्भवन्त्य् आपदस् तावल् लता इव मनोवनात् ॥

2.15.8

संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।
भृशं विकासम् आयाति सूर्यांशुभिर् इवाम्बुजम् ॥

2.15.9

आशावैवश्यविवशे आशाव्⟨ए⟩[ऐ]व्⟨ए⟩[अ]श्य° चित्ते संतोषवर्जिते ।
म्लाने वक्त्रम् इवादर्शे न ज्ञानं प्रतिबिम्बति ॥

2.15.10

अज्ञानघनयामिन्या संकोचं न नराम्बुजम् ।
यात्य् असाव् उदितो यस्य नित्यं संतोषभास्करः ॥

2.15.11

अकिंचनो ऽप्य् असौ जन्तुः साम्राज्यसुखम् अश्नुते ।
आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥

2.15.12

नाभिवाञ्छत्य् असंप्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् ।
यः ससोम्यः सदाचारः संतुष्ट इति कथ्यते ॥

2.15.13

संतोषपरितृप्तस्य महतः पूर्णचेतसः ।
क्षीराब्धेर् इव शुद्धस्य मुखे लक्ष्मीर् विराजते ॥

2.15.14

पूर्णताम् अलम् आश्रित्य स्वात्मन्य् एवात्मना स्वयम् ।
पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥

2.15.15

संतोषामृतपूर्णस्य स्वान्तः शीतलता स्वयम् ।
स्थैर्यम् आयात्य् अरिक्तस्य शीतांशोर् इव शाश्वतम् ॥

2.15.16

संतोषपुष्टमनसं भृत्या इव महर्द्धयः ।
राजानम् उपतिष्ठन्ते किंकरत्वम् उपागताः ॥

2.15.17

आत्मनैवात्मनि स्वच्छे संतुष्टे पुरुषे स्थिते ।
प्रशाम्यन्त्य् आधयः सर्वे प्रावृषीवाशु पांसवः ॥

2.15.18

नित्यं शीतलया नाम कलङ्कपरिहीनया ।
पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥

2.15.19

समतया मतया गुणशालिनां पुरुषराड् इह यः समलंकृतः ।
तम् अमलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc